Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४८५
उद्देशक : १, मूलं-६, [भा. १९२३] [भा.१९२३] नंदीतूरं पुनस्स, दंसणं संख-पडहसदो य ।
____ भिंगार छत्त चामर, एवमादी पसत्थाई ।। वृ-अनयोव्यार्खया प्राग्वत्। [भा.१९२४] आवडणमाइएसुं, चउरो मासा हवंतऽनुग्घाया।
एवं ता वच्चंते, पत्ते य इमे भवे दोसा ।। वृ-'आपतन' द्वारादौ शिरसो घट्टनम्, आदिशब्दात् प्रपतनं प्रस्खलनं वा सञ्जातम्, अपरेण वा वस्त्रादौ गृहीत्वा पश्चान्मुख आकृष्टः, 'कुत्र वा व्रजसि?' इत्यादि भणितः, गच्छतामेव वा केनापि क्षुतम्, एवमादिष्वपशकुनेषु जातेषु यदि गच्छति तदा चत्वारो मासा अनुद्धाता भवन्ति । एवं तावद् व्रजतो मन्तव्यम् । अथ वैद्यगृहं प्राप्तस्तत इमे दोषाः परिहर्तव्या भवन्ति ।
तानेव प्रतिपादयन् व्यापारद्वारमाह[भा.१९२५]साड-ऽब्भंगण-उव्वलण-लोय-छारु-कुरुडे य छिंद-भिंदंतो।
सुहआसण रोगविहिं, उवएसो वा वि आगमणं ।। वृ- एकशाटकपरिधानो यदा वैद्यो भवति तदा न प्रष्टव्यः । एवं दैलादिना अभ्यङ्गनं कल्कलोध्रादिना वा उद्वर्त्तनं लोचकर्म वा-कूर्चमुण्डनादिलक्षणं कारयन्, क्षारस्य-भस्मन उत्कुरुटकस्य कचवरपुअकस्य उपलक्षणत्वाद् बुसादीनां वा समीपे स्थितः, कोष्ठादिकं वा रप्फकादिना वा दूषितं कस्याप्यङ्गं छिन्दानः, घटम् अलाबुकं वा भिन्दानः, शिराया वा भेदं कुर्वाणोनप्रच्छनीयः,अथग्लानस्यापि किञ्चित्छेत्तव्यंततश्छेदन-भेदनयोरपिप्रष्टव्यः। अथासौ शुभासने उपविष्टः 'रोगविधि' वैद्यशास्त्रपुस्तकंप्रसन्नमुखः प्रलोकयति, अथवा रोगविधि-चिकित्सा तां कस्यापि प्रयुञ्जान आस्ते ततो धर्मलाभयित्वा प्रष्टव्यः । स च वैद्यः पृष्टः सन्नुपदेशं वा दद्याद् ग्लानसमीपे वा आगमनं कुर्यात् ।।
अथ सङ्गारश्च गृहिणामिति द्वारं व्याख्यानयति[भा.१९२६] पच्छाकडे य सन्नी, दंसणऽहाभद्द दानसड्ढे य।
मिच्छद्दिष्टि संबंधिए अपरतित्थिए चेव ।। वृ. 'पश्चात्कृतः' चारित्रं परित्यज्य गृहवासं प्रतिपन्नः, 'संज्ञी' गृहीतानुव्रतः, “दंसण"त्ति दर्शनसम्पन्नोऽविरतसम्यग्भ्रष्टिः, 'यथाभद्रकः' सम्यक्त्वरहितः परं सर्वज्ञशासने साधुषु च बहुमानवान्, 'दानश्राद्धः' दानरुचि, 'मिथ्याष्टिः' शाक्यादिशासनस्थः, “सम्बन्धी' ग्लानस्यैव स्वजनः, 'परतीर्थिकः' सरजस्क-परिव्राजकादि परं भद्रकः । एतेषां सङ्केतः क्रियते, यथावैद्यस्य पार्श्वेवयं गच्छामः, भवद्भिस्तत्र सन्निहितैभवितव्यम्, यदसौ ब्रूयात्तद्युष्माभिसर्वमपि प्रतिपत्तव्यम्॥
ये वैद्यसमीपे प्रस्थापितास्ते वैद्यस्येदं कथयन्ति[भा.१९२७] वाहि नियाण विकारं, देसं कालं वयं च घातुंच।
आहार अग्गि-धिबल, समुइंच कहितिजा जस्स। वृ. 'व्याधि' जरादिकं रोगं 'निदानं रोगोत्थानकारणं 'विकारं' प्रवर्द्धमानरोगविशेषं 'देश' ग्लानत्वोत्पत्तिनिबन्धनप्रवात-निवातादिप्रदेशरूपं 'कालं'रोगोत्थानसमयं पूर्वाह्नदिकं 'वयश्च'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532