________________
उद्देशक : १, मूलं -६, [भा. १९०४ ]
द्रव्यमुत्पाद्यस्थापयेत् । ये तु ग्लानस्य प्रतिचरकास्ते यदि ग्लानकार्यव्यापृताः परक्षेत्रं वा व्रजन्तः स्वार्थमहिण्डमाना न संस्तरन्ति तत एषणादिदोषेषु पञ्चकपरिहाणियतनया गृह्णन्ति ॥
यत् तद् ग्लानार्थं रिवास्यते तत् कीध्शे स्थाने स्थाप्यते ? इत्याह
[भा. १९०५] उव्वरगस्स उ असती, चिलिमिणि उभयं च तं जह न पासे । तस्सऽ सइ पुराणादिसु, ठविंति तद्दिवस पडिलेहा ॥
वृ- कृतयोगिना गीतार्थेन वा तद् अन्यस्मिन् गृहापवरके स्थापनीयम् । अथ नास्ति पृथगपवरकस्ततो वसतावेव योऽपरिभोग्यः कोणकस्तत्र चिलिमिलिकया आवृत्त्य 'उभयं’ ग्लाना-ऽगीतार्थलक्षणं यथा न पश्यति तथा स्थाप्यम् । यदि ग्लानस्तत् पश्यति तदा स यदा तदा तस्याभ्यवहारं कुर्यात् । अगीतार्थस्य तु तद् दृष्ट्वा विपरिणामा ऽप्रत्यवादयो दोषा भवेयुः । "तस्सऽ सइ "त्ति 'तस्य' अपरिभोग्यस्थानस्याभावे पुराणः पश्चात्कृतस्तस्य गृहे दिशब्दाद् मातापितृसमानेषु गृहेषु स्थापयन्ति । तस्य च तत्र स्थापितस्य तद्दिवसं प्रत्युपेक्षणा कर्त्तव्या । तद्दिवसं नाम प्रतिदनम् । यदुक्तं देश्याम्-तद्दिवसं अनुदिअहे इति ।।
अथ " आनेउं दोहि वी कुज्जा" इत्यस्यव्याख्यानमाह
[ भा. १९०६ ]
फासुगमफासुगेण व अचित्तेतर परित्तऽनंतेनं । आहार- तद्दिनेतर, सिहेण इअरेण वा करणं ॥
वृ- प्राशुकेन अप्राशुकेन वा अचित्तेन 'इतरेण वा' सचित्तन परीत्तेन अनन्तेन वा आहारेण अनाहारेण वा तद्दैवसिकेन 'इतरेण वा' परिवासितेन सस्नेहेन 'इतरेण वा' अस्नेहेन ग्लानस्य चिकितसायाः करणमनुज्ञातम ॥
गता ग्लानानुवर्त्तना । अथ वैद्यानुवर्त्तनामभिधित्सुः प्रस्तावनां रचयन्नाहविजं न चेव पुच्छह, जाणंता बिंति तस्स उवदेसो ।
[भा. १९०७]
४८१
दट्ठ- पिलगाइएसु व, अजानगा पुच्छए विजं ॥
वृ- ग्लानो ब्रूयात्-यूयं वैद्यं नैव पृच्छथ, आत्मच्छन्देनैव प्रतिचरणं कुरुथ । ततो यदि साधवो जानन्तः चिकितिसायां कुशलास्ततो ब्रुवते - अस्मार्वैद्यः प्रागेव पृष्टस्तस्यैवायमुपदेश इति । यद्वा प्रतिश्रयान्निर्गत्य किनयन्तमपि भूभागं गत्वा मुहूर्तमात्रं तत्र स्थित्वा समागत्य ब्रुवते - अयंवैद्येनोपदेशो दत्त इति । तथा दष्टं-सर्पडङ्क्रः पिलगं गण्डः आदिग्रहणेन शीतलिका दुष्टवातो वेत्यादिपरिग्रहः, एतेष्वपि यदि ज्ञास्ततः स्वमेव कुर्वन्ति । अथाज्ञास्ततो वैद्यं पृच्छन्ति ॥
अत्र शिष्यः पृच्छति
[भा. १९०८] किह उप्पन्नो गिलाणो, अट्ठम उण्होदगाइया वुड्डी । किंचि बहु भागमद्धे, ओमे जुत्तं परिहरंतो ॥
वृ- 'कथं ? ' केन हेतुना ग्लान उत्पन्नः ? इति । सूरिराह-भूयांसः खलु रोगातङ्क्रा यद्वशाद् ग्लानत्वमुपजायते । तत्र “शुष्यतस्त्रीणि शुष्यन्ति, चक्षूरोगो ज्वरो व्रणः ।" इति वचनाद् यदि ज्वरादिको विशोषणसाध्यो रोगः ततो जघन्येनाप्यष्टमं कारयितव्यः । यच्च यस्य रोगस्य पथ्यं तत् तस्य कार्यम्, यथा- वातरोगिणो घृतादिपानं पित्तरोगिणः शर्कराद्युपयोजनं श्लेष्मरोगिणो
18 31
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org