Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४८२
बृहत्कल्प-छेदसूत्रम् -१-१/६ नागरादिग्रहणमिति। “उण्होदगाइयाधुड्डि"त्तिउपवासं कर्तुमसहिष्णुर्यदिरोगेणामुक्तः पारयति तत एष क्रम-उष्णोदके प्रक्षिप्य कूरसिक्थानिअमलितानि ईषन्मलितानि वा सप्त दिनानिएकंवा दिनं दीयन्ते । ततः “किंचि" त्ति उष्णोदके मधुरोल्लणं स्तोकं प्रक्षिप्य तेन सह ओदनं द्वितीये सप्तकेदिनेवादीयते ।एवं तृतीये “बहु"त्तिबहुतरंमधुरोल्लणंउष्णोदकेप्रक्षिप्यदीयते । “भागि"त्ति चतुर्थे सप्तके दिने वा त्रिभागो मधुरोल्लणस्य द्वौ भागावुष्णोदकस्य, “अद्धे"त्ति पञ्चमे सप्तके दिने वा अर्द्ध मधुरोल्लणस्यार्द्धमुष्णोदकस्य, षष्ठे “ओमि"त्ति त्रिभाग उष्णोदकस्य द्वौ भागौ मधुरोल्लणस्य, सप्तमे सप्तके दिने वा “जुत्तं" ति ‘युक्तं' किञ्चिन्मात्रमुष्णोदकं शेषं तु सर्वमपि मधुरोल्लणमित्येवंदीयते। तदनन्तरं द्वितीयाङ्गैरपिसहापथ्यान्यवगाहिमादीनि परिहरन्समुशिति यावत् पुरातनमाहारंपरिणमयतुं समर्थ सम्पन्न इति । एषा उष्णोदकादिका वृद्धिर्द्रष्टव्या । इह च सर्वत्राप्येक दिन विशेषचूर्णि बृहद्भाष्याभिप्रायेण दिनसप्तकंतु चूर्ण्यभिप्रायणेति मन्तव्यम्॥
अथ “अट्ठम" त्ति पदं व्याख्यानयन्नाह[भा.१९०९] जाव न मुक्को ता अनसनं तु मुक्के विऊ अभत्तह्रो ।
असहुस्स अट्ठ छटुं, नाऊण रुयं वजंजोगं ।। वृ-यावदसौ ज्वर-चक्षुरोगादिना रोगेण न मुक्तस्तावद् ‘अनशनम्' अभक्तार्थलक्षणं कर्त्तव्यम् । मुक्तेनापि चैकं दिवसमभक्तार्थो विधेयः । अथासावसहिष्णुस्ततोऽष्टमं वा षष्ठं वा करोति । ज्ञात्वा वा 'रुजं रोगविशेष यद्यत्र योग्यं शोषणमशोषणं वा तत् तत्र कार्यम्॥
यद्येवंकुर्वाणानामसौ रोग उपशाम्यति ततः सुन्दरम्, अथ नोपशाम्यति ततः को विधिः? इत्याह[मा.१९१०] एवं पिकीरमाणे, विजं पुच्छे अठायमाणम्मि।
विजाण अट्ठगं दो, अनिदिइटी अनिड्डियरे ।। वृ-एवमपि क्रियमाणे यदि रोगो न तिष्ठति-नोपशाम्यति ततस्तस्मिन्नतिष्ठति वैद्यं पृच्छति । अथ कियन्तोवैद्या भवन्ति? इत्याह-वैद्यानांखल्वष्टकंमन्तव्यम्। तत्र द्वौ वैद्यौनियमाद् 'अनृद्धिकौ' ऋद्धिरहितौ, 'इतरे' षड् वैद्या ऋद्धिमन्तो अनृद्धिमन्तो वा ।। तदेव वैद्याष्टकं दर्शयति[भा.१९११] संविग्गमसंविग्गे, दिहत्थे लिंगि सावए सन्नी ।
____ अस्सन्नि इड्डि गइरागई य कुसलेण तेगिच्छं॥ वृ-'संविग्नः' उद्यतविहारी १ 'असंविग्नः' तद्विपरीतः २ लिङ्गी' लिङ्गावशेषमात्रः३ श्रावकः' प्रतिपन्नाणुव्रतः ४ 'संज्ञी' अविरतसम्यग्दृष्टि ५ 'असंज्ञी' मिथ्याष्टि, स च त्रिधा-अनभिगृहीतमिथ्याष्टि ६ अभिगृहीतमिथ्याष्टि ७ परतीर्थिकश्चेति ८ । “इडी गइरागई कुसले" त्ति व्याख्यातार्थम् ।।
अनन्तरोक्तक्रमविपर्यासे प्रायश्चित्तमाह[भा.१९१३] वोच्चत्थे चउलहुगा, अगीयत्थे चउरो मासऽनुग्घाया।
चउरोय अनुग्घाया, अकुसलें कुलसेण करणं तु ।। वृ-संविग्नगीतार्थमुक्त्वाअसंविग्नगीतार्थेन कारयति एवमादिविपर्यस्तकरणे चत्वारोलघवः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532