Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४८०
बृहत्कल्प-छेदसूत्रम् -१-१/६ ___ असंथरनेसणमादी, छन्नं कडजोगि गीयत्थे । वृ-प्रथमतस्तत्रैव ग्रामे ग्लानप्रायोग्यमन्वेषणीयम् । तत्र यदि न लभ्यते तदाऽन्यग्रामेऽपि । अथासावन्यग्रामो दूरतरस्ततः "वत्थंतर"त्ति 'अन्तरा' अपान्तरालग्रामे उषित्वा द्वितीये दिने आवयन्ति । अथैवमप्यसंस्तरणं भवति ततः “संथरंत जयणाए"त्ति अकारप्रश्लेषादसंस्तरतोग्लानस्यार्थाय 'यतनया' पञ्चकपरिहाण्या गृह्णन्ति।अथ ग्लानार्थव्यापूतानांप्रतिचरकाणामसंस्तरणं ततः “एसमाइ"त्ति एषणादोषेषु आदिशब्दाद् उद्गमादिदोषेषु च पञ्चकपरिहाम्या यतितव्यम् । अथ प्रतिदिवसं ग्लानप्रायोग्यं न लभ्यते ततः ‘छन्नम्' अप्रकटं कृतयोगी गीतार्थो वा तप्रायोग्यं द्रव्यं परिवासयति । इह आकर्णितच्छेदश्रुतार्थ प्रत्युच्चारणाऽसमर्थ कृतयोगी । यस्तु च्छेदश्रुतार्थं श्रुत्वा प्रत्युच्चरयितुमीशः स गीतार्थ उच्यते । एष द्वारगाथासमासार्थः ।।
अथैनामेव विवरीषुराह[भा.१९०३] पडिलेह पोरुसीओ, वि अकाउं मग्गणा उ सग्गामे।
खित्तंतो तद्दिवसं, असइ विणासे व तत्थ वसे ॥ वृ-अपिशब्दः सम्भावनायाम् । यदि सुलभं द्रव्यं ततः प्रत्युपेक्षणां सूत्रार्थपौरुष्यौ च कृत्वा स्वग्रामेऽनवभाषितस्य मार्गणा कर्तव्या अथैवं न लभ्यते ततोऽर्थपौरुषीं हापयित्वा, यद्येवमपि न लभ्यते ततः सूत्रपौरुषीं परिहाप्योत्पादनीयम् । अथ तथापि न लभ्यते दुर्लभंवा तद्रव्यं ततः प्रत्युपेक्षणांद्वे अपिच पौरुष्यौ अकृत्वा स्वग्रामेऽनवभाषितं मार्गयन्ति।अथ स्वग्रामेऽनवभाषितं न लभ्यते ततः 'क्षेत्रान्तः' सक्रोशयोजनक्षेत्राभ्यन्तरे परग्रामे पौरुषीद्वयमपिकृत्वा अनवभाषितमुत्पादयन्ति, अत्राप्यर्थपौरुष्यादिहापना तथैव द्रष्टव्या। अथ तत्राप्यनवभाषितंन लभ्यते ततः स्वक्षेत्रे स्वग्राम-परग्रामयोरवभाषितमुत्पाद्य तद्दिवसमानयन्ति । अथ स्वक्षेत्रे तद्दिवसं न प्राप्यते ततः परक्षेत्रादपितद्दिवसमानेतव्यम्। अथ क्षेत्रबहिर्वतिनो यतोग्रामादेरानीयते तद्न प्रत्यासन्नं किन्तु दूरतरं न तद्दिवसं गत्वा ततः प्रत्यायातुं शक्यते, विनाशि वा तद् द्रव्यं दुग्धादिकम् ततः प्रत्यासन्नग्रामस्यासति विनाशिनिवा द्रव्ये ग्रहीतव्ये अपराह्ने गत्वा तत्र रात्रौ वसेत्, उषित्वा च सूर्योदयवेलायां गृहीत्वा द्वितीये दिने तत्रानयन्ति । अथ दवीयस्तरं तत् क्षेत्रमविनाशि द्रव्यं च ग्रहीतव्यम्ततोऽपान्तरालग्रामेरजन्यामुषिताः सूर्योदयेतत्रगत्वा तद्रव्यंगृहीत्वा भूयः समागच्छन्ति।
एतदेवाह[भा.१९०४] खित्तबहिया व आने, विसोहिकोडिं वतिच्छितो काढे ।
पइदिवसमलभंते, कम्मं समइच्छिओ ठवए । वृ-क्षेत्रबहिर्वा गत्वा प्रथममनवभाषितं ततोऽवभाषितं पूर्वं तद्दिवसे ततो द्वितीयेऽपि दिवसेऽनन्तरोक्तया नीत्या यथायोगमानयेत्। एष विधिरेषणीयविषयो भणितः। अथैषणीयेन नासौ ग्लानःसंस्तरतिततःसक्रोशयोजनक्षेत्रस्यान्तः स्वग्राम-परग्रामयोः पञ्चकपरिहाण्या तदप्राप्ती क्षेत्रबहिरपि पञ्चकपरिहाण्या तद्दिवसं ग्लानप्रायोग्यमुत्पादयन्ति । एवं यदा प्रायश्चित्तानुलोम्येन क्रीतकृताऽभ्याहृतादिका विशोधिकोटी व्यतिक्रान्तो भवति तदा “काढि"त्ति ग्लानयोग्यमौषधादिकमन्येन स्वयंवायतनयाक्वाथयेत् । एवं प्रतिदिवसमसमलभ्यमाने यदा आधाकर्मापि समतिक्रान्तो भवति, तदपिप्रतिदिवसंनप्राप्यतइत्यर्थः, ततो विशुद्धमविशुद्धंवा ग्लानप्रायोग्यं
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532