Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४७८
बृहत्कल्प-छेदसूत्रम् -१-१/६ वृ-क्षेत्रोद्वेजनादोषेण ग्लानप्रायोग्यमलभामाना यदि प्राशुकमवभाषन्ते परिवासयन्ति वा ततश्चत्वारो लघुकाः । अथाप्राशुकमवभाषन्ते परिवासयन्ति वा ततश्चत्वारो गुरुकाः । इह च प्राशुकमेषणीयम् अप्राशुकमनेषणीयम् । आह च निशीथचूर्णिकृत्-इह फासुगं एसणिज्नं ति । अचित्ते अवभाष्यमाणे परिवास्यमाने वा चतुर्लघु । सचित्तेचतुर्गुरु । एवं परीत्ते चतुर्लघु। अनन्ते चतुर्गुरु । अस्नेहे चतुर्लघु । सस्नेहे चतुर्गुरु । अनाहारे चतुर्लघु । आहारे चतुर्गुरु ।।
उक्तं द्रव्यनिष्पन्न प्रायश्चित्तम् । अथ क्षेत्रनिष्पन्नमाह[भा.१८९३] लुद्धस्सऽब्भंतरतो, चाउम्मासा हवंति उग्घाता।
बहिया य अनुग्घाया, दव्वालंभे पसजणया ।। वृ-उत्कृष्टद्रव्यलोभेन क्षेत्रमुद्वेजयतो लुब्धस्य क्षेत्राभ्यन्तरतो ग्लानप्रायोग्येऽलभ्यमाने चत्वारो मासा उद्धाताः । क्षेत्रसय बहिरलभ्यमाने त एव चत्वारो मासाः ‘अनुद्धाताः' गुरवः । अत्र च ग्लानप्रायोग्यस्य द्रव्यस्यालाभे 'प्रसजना' प्रायश्चित्तस्य वृद्धि प्राप्नोति ॥ कथम् ? इत्याह[भा.१८९४] खेत्तबहि अद्धजोअण, वुड्डी दुगुणेण जाव बत्तीसा।
चउगुरुगादी चरिमं, खेत्ते काले इमं होइ ।। वृ-क्षेत्राद् बहिरर्द्धयोजनं गत्वा ततो यदि ग्लानप्रायोग्यं द्रव्यमानयति तदा चतुर्गुरव एव । योजनादानयति षड् लघवः । योजनद्वयादानयति षड् गुरवः । योजनचतुष्टयादानयति च्छेदः । योजनाष्टकादानयति मूलम् । योजनषोडशकादानयति अनवस्थाप्यम् । द्वात्रिंशद् योजनानि गत्वा ग्लानप्रायोग्यमानयति पाराञ्चिकम् । अत एवाह-क्षेत्रबहिरड़योजनादारभ्य द्विगुणेन परिमाणेन क्षेत्रस्य वद्धिस्तावत् कर्तव्या यावद् द्वात्रिंशद् योजनानि । एषु च चतुर्गुरुकादिकं 'चरमं' पाराञ्चिकं यावत् प्रायश्चित्तम् । इत्थं क्षेत्रविषयं प्रायश्चित्तमुक्तम् । 'काले' कालविषयम् 'इदं' वक्ष्यमाणं भवति॥
तत्र तावत् प्रकारान्तरेण क्षेत्रनिष्पन्नमेवाह[भा.१८९५]अंतो बहिं न लब्भइ, ठवणा फासुग महय मुच्छ किच्छ कालगए।
चत्तारिछच्च लहु-गुरु, छेदो मूलं तह दुगंच॥ वृ-क्षेत्रस्यान्तर्वा बहिर्वा ग्लानप्रायोग्यं न लभ्यत इति कृत्वा प्राशुकस्य स्थापनां' परिवासनां करोति चतुर्लघु । तेन परिवासितेन भक्तेन ग्लानो यद्यनागाढं परिताप्यते ततश्चतुर्गुरुकम् । महतीं दुःखासिकामाप्नोति षड्लघु । मूर्छामूळे षड्गुरु । कृच्छ्रप्राणे च्छेदः । कृच्छोच्छ्वासे मूलम् । समवहते-मारणान्तिकसमुद्धातं कुर्वाणे ग्लानेऽनवस्थाप्यम् । कालगते पाराञ्चिकम् ।।
अथ कालनिष्पन्नमाह[भा.१८९६] पढमं राइ ठविते, गुरुगा बिइयादिसत्तिहिं चरिमं ।
परितावणाइ भावे, अप्पत्तिय-कूवणाईया॥ वृ-प्रथमां रात्रि परिवासयतश्चतुर्गुरुकाः । द्वितीयां रात्रिमादौ कृत्वा सप्तभी रात्रिभिश्चरमम् । तद्यथा-द्वितीयां रजनी परिवासयति षड् लघवः, तृतीयस्यां षड् गुरवः, चतुर्थ्या छेदः, पञ्चम्यां मूलम्,षष्ठयामनवस्थाप्यम्, सप्तम्यां पाराञ्चिकम्।अथ भावनिष्पन्नमाह-“परितावणाइ" इत्यादि पश्चार्द्धम्। परितापनादि भावनिष्पनमन्तव्यम्। तथा सपरितापितः सन्नप्रीतिकं करोति चतुर्लघु,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532