Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 480
________________ ४७७ उद्देशक : १, मूलं-६, [भा. १८८७] सर्वस्य सर्वकार, स्वार्थविघाती परस्य हितकारी । सर्वस्य च विश्वासी, मूर्यो यो नाम विज्ञेयः॥ एवं तत्रतस्य भणतस्त्रिविधं प्रायश्चित्तं भवति । तद्यथा-यद्याचार्य एवं ब्रवीति ततश्चतुर्गुरु, उपाध्यायो ब्रवीति चतुर्लघु, भिक्षुर्ब्रवीति मासगुरु ॥अथापमानद्वारमाह[भा.१८८८] भत्तादिसंकिलेसो, अवस्स अम्हे वि तत्थ न तरामो। काहिंति केत्तियाणं, तेणं चिय तेसु अद्दन्ना ।। कृतथैव ग्लानं श्रुत्वाकेचिद्भणन्ति-व्रजामोग्लानप्रतिजागरणार्थम् । अपरेब्रुवते-तत्राऽन्येऽपि ग्लानं श्रुत्वा बहवः प्रतिचारकाः समाया भविष्यन्ति ततो महान् भक्त-पानादिसंक्लेशो भविता, 'अवश्यम्' असन्दिग्धंवयमपितत्र गताः ‘नतरामः' ननिर्वहामः, ग्लान प्रतिचारणार्थमागतानां कियतां वा ते वास्तव्या विश्रामणादि प्राघूर्णककर्म करिष्यन्ति ? यतः ते 'तेनैव' ग्लानेन 'तेषु' कार्येषु अद्दन्नाः' आकुलीभूताः॥ [भा.१८८९] अम्हेहि तहि गएहिं, ओमाणं उग्गमाइणो दोसा। एवं तत्थ भणंते, चाउम्मासा भवे गुरुगा। वृ-तथा-अस्माभिरपि तत्र गतैर्नियमाद् ‘अवमानम्' अवमम् ‘उद्गमदोषाश्च' आधाकर्ममिश्रजातप्रभृतयः आदिशब्दादेषणादोषाश्च भविष्यन्ति । एवं तत्र तेषां भणतां चत्वारो मासा गुरुका भवेयुः॥ अथ लुब्धद्वारमाह[भा.१८९०] अम्हे मो निज्जरट्ठी, अच्छह तुब्भे वयं से काहामो। अस्थिय अभाविया णे, ते विय नाहिंति काऊण ।। वृ- मासकल्पस्थितैः साधुभिः श्रुत्, यथा-अमुकत्र ग्रामे ग्लानः सञ्जातोऽस्ति । तच्च क्षेत्रं वसति-पानक-गोरसादिभि सर्वैरपि गुणैरुपेतम्, ततस्ते लोभाभिभूतचेतसश्चिन्तयन्ति'ग्लानमिषमन्तरेण न शक्यते क्षेत्रमिदं प्रेरयितुम्, अतो गच्छामो वयम्' इति चिन्तयित्वा तत्र गत्वा भणन्ति-वयं निर्जरार्थिनः' ग्लानवैयावृतत्यकरणेन कर्मक्षयमभिलषमाणा इहायाताः स्मः, अतो यूयं तिष्ठथ वयं "से" तस्य ग्लानस्य वैयावृत्यं करिष्यामः, सन्ति चास्माकमभाविताः शैक्षास्तेऽपि चास्मान् वैयावृत्त्यं कुर्वतो दृष्टवा ज्ञास्यन्ति। [भा.१८९१] एवं गिलाणलक्खेण संठिया पाहुण त्ति उक्कोसं । मग्गंता चमढिंती,तेसिं चारोवणा चउहा। वृ-एवं ग्लानसम्बन्धि यद् लक्ष्यं-मिषं तेन तत्र संस्थिताः सन्तः प्राधूर्णका इति कृत्वा लोकाद् 'उत्कृष्टं' स्निग्ध-मधुरद्रव्यं लभन्ते, अथ न स्वयं लोकः प्रयच्छति ततः ‘मार्गयन्तः' 'प्राधूर्णका वयम्' इति मिषेमावभाषमाणास्तत् क्षेत्रं चमढयन्ति, चमढिते च क्षेत्रे ग्लानप्रायोग्यं न लभ्यते ततस्तेषामियं चतुर्विधाऽऽरोपणा कर्तव्या। तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च । तत्र द्रव्यतस्तावदाह[भा.१८९२] फासुगमफासुगेवा, अचित्त चित्ते परित्तऽनंते य । असिनेह-सिनेहकए, अनहारा-55हार लहु-गुरुगा। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532