Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 478
________________ ४७५ उद्देशकः १, मूलं-६, [भा. १८८१] [भा.१८८१] दाऊणं वा गच्छइ, सीसेण व वायएहि वा वाए। तत्थऽन्नत्थ व काले, सोहिए सव्वुद्दिसइ हटे ॥ वृ-सूत्रार्थपौरुष्यौ दत्त्वा ग्लानस्य समीपं गच्छति, गत्वा च चिकित्सां करोति । अथ दूरे ग्लानस्य प्रतिश्रयस्ततः सूत्रपौरुषीं दत्त्वा अर्थपौरुषी शिष्येण दापयति । अथ दवीयान् स प्रतिश्रयस्ततो द्वे अपि पौरुष्यौ शिष्येण दापयति । अथात्मीयः शिष्यो वाचनां दातुमशक्तस्ततो येषां वाचकानाम्-आचार्याणां स ग्लानस्तैः सूत्रमर्थं वा स्वशिष्यान् वाचयति । अथ तेषामपि नास्ति वाचनाप्रदाने शक्तिस्ततो यदि तेऽनागाढयोगवाहिनस्तदा तेषां योगो निक्षिप्यते । अथागाढयोगवाहिनस्ततोऽयं विधि- "तत्थऽन्नत्थव" इत्यादि ।यत्र क्षेत्रे सग्लानस्तत्रान्यत्र वा क्षेत्रेस्थितास्ते आगाढयोगवाहिनआचार्येणवक्तव्याः, यथा-आर्या! कालंशोधयत।ततस्तैर्यथावत् कालग्रहणं कृत्वा यावतो दिवसान् कालःशोधितस्तावतां दिवसानामुद्देशनकालान् सर्वानप्याचार्यो ग्लाने ‘हृष्टे' प्रगुणीभूते सति एकदिवसेनैवोद्दिशति, यावन्ति पुनर्दिनानि कालग्रहणे प्रमादः कृतो गृह्यमाणे वा कालो न शुद्धः तेषामुद्देशनकाला न उद्दिश्यन्ते ।। तत्र क्षेत्रे संस्तरणाभावेऽन्यत्र गच्छतां विधिमाह[भा.१८८२] निग्गमणे चउभंगो, अद्धा सव्वे वि निंति दोण्हं पि । भिक्ख-वसहीइ असती, तस्सानुमए ठविजा उ ।। वृ-ततः क्षेत्राद् निर्गमने चतुर्भङ्गी भवति । गाथायां पुंस्त्वनिर्देशः प्राकृतत्वात् । वास्तव्याः संस्तरन्ति नागन्तुकाः १ आगन्तुकाः संस्तरन्तिन वास्तव्याः २ न वास्तव्यानचागन्तुकाः संस्तरन्ति ३ वास्तव्या अप्यागन्तुका अपि संस्तरन्ति ४ । तत्र यत्र द्वयेऽपि संस्तरन्ति तत्र विधि प्रागेवोक्तः । यत्र तुन संस्तरन्ति तत्रायं विधि-प्रथमभङ्गे आगन्तुकानां द्वितीयभङ्गे वास्तव्यानामर्द्ध वा यावन्तोवा न संस्तरन्ति तावन्तो निर्गच्छन्ति, तृतीयभङ्गे द्वयोरपि वर्गयोरद्धाः सर्वेवा ग्लानं सप्रतिचरं मुक्त्वा निर्गच्छन्ति । एवं भिक्षाया वसतेश्च ‘असति' अभावे निर्गमनं द्रष्टव्यम । के पुनस्तत्र ग्लानसन्निधौ स्थापनीयाः ? इत्याह-'तस्य' ग्लानस्य ये 'अनुमताः' अभिप्रेतास्तान् प्रतिचरकान् ग्लानस्य समीपे स्थापयेत् ॥ गतं श्रद्धावानिति द्वारम् । अथेच्छाकारद्वारमाह[भा.१८८३] अभणितो कोइ न इच्छइ, पत्ते थेरेहि होउवालंभो। दिटुंतो महिड्डीए, सवित्थरारोवणं कुञा ॥ [भा.१८८४] बहुसो पुच्छिज्जंता, इच्छाकारं न ते मम करिति । पडिमुंडणा य दुक्खं, दुक्खं च सलाहिउं अप्पा ।। वृ-कोऽपि साधुर्वैयावृत्त्यकुशलः, परमन्येन अभणितः' 'आर्य! एहि इच्छाकारेण ग्लानस्य वैयावृत्त्यं कुरु' इत्यनुक्तः सन् नेच्छति वैयावृत्यं कर्तुम्, स च श्रुत्वाऽपि ग्लानं न तस्य समीपं गतः । कुल-गण-सङ्घस्थविराश्चये कारणभूताः पुरुषाः ‘कुत्र सामाचार्यसीदन्ति? कुत्रचोत्सर्पन्ति?' इति प्रतिचरणाय गच्छान्तरेषु पर्यटन्ति ते तत्र प्राप्ताः, तैश्च स पृष्टः-आर्य ! उत्सर्पन्ति ते ज्ञानदर्शन-चारित्राणि? सन्ति वा केचित् प्रत्यासन्नपरिसरे साधवो ग्लानो वा कुत्रापि भवता श्रुतः? इति।सप्राह-इतः प्रत्यासन्न एळ ग्रामेसन्तिसाधवः, तेषांचास्त्येको ग्लान इति।ततस्तैस्तस्योपालम्भः For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532