Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 477
________________ बृहत्कल्प-छेदसूत्रम् - १-१/६ 'उपचरति' पृच्छति को नु युष्माकं मध्ये “अतिन्नो ?” ग्लानो येनाहं तं प्रतिजागर्मि ? | अथवा 'उपचारमात्रं' लोकोपचारमेव केवलमनुवर्त्तयितुं ग्लानसमीपम् 'एति' आगच्छति । यदि वा कार्यार्थी सन्नुपचरति । किमुक्तं भवति ? - कार्यं किमपि ज्ञान दर्शनादिकं तत्समीपादीहमानः प्रतिजागर्ति । 'प्रायश्चित्तं वा मे भविष्यति यदि न गमिष्यामि' इति विचिन्त्यागत्य च प्रायश्चित्तं विशोधयति । एष सर्वोऽप्युपचारो द्रष्टव्यः ॥ अथ श्रद्धावानिति द्वारमाह [भा. १८७७] ४७४ सोऊण ऊ गिलाणं, तुरंतो आगओ दवदवस्स । संदिसह किं करेमी, कम्मि व अट्ठे निउज्जामि ॥ [भा. १८७८ ] पडिचरिहामि गिलाणं, गेलने वावडाण वा काहं । तित्थानुसज्जणा खलु, भत्ती य कया हवइ एवं || वृ- 'ग्लानं प्रतिजाग्रदहं महतीं निर्जरामासादयिष्यामि' इत्येवंविधया धर्मश्रद्धया युक्तः श्रद्धावानुच्यते । स च श्रुत्वा ग्लानं 'त्वरमाणः' श्रवणानन्तरं शेषकार्याणि विहाय पन्थानं प्रतिपन्नः सन् “दवदवस्स” त्ति द्रुतं द्रुतं गच्छन् झगिति ग्लानसमीपमागतस्ततो ग्लानप्रतिचारकानाचार्यान् वा गत्वा भणति-सन्दिशत भगवन्तः ! किं करोम्यहं ? कस्मिन् वा 'अर्थे' ग्लानसम्बन्धिनि प्रयोजने युष्माभिरहं नियोज्ये ?, अहं तावदनेनाभिप्रायेणायातः, यथा प्रतिजागरिष्यामि ग्लानं ग्लानवैयावृत्त्ये वा व्यापृता ये साधवस्तेषां भक्त-पानप्रदान-विश्रामणादिना वैयावृत्त्यं करिष्यामि। एवंकुर्वता तीर्थस्यानुसजना- अनुवर्त्तना कृता भवति, भक्तिश्च भगवतां तीर्थकृतां कृता भवति, “जे गिलाणं पडियरइ से ममं णाणेणं दंसणेणं चरित्तेणं पडिवज्जइ" इत्यादिभगवदाज्ञाऽऽराधनात्। इत्थं तेनोक्ते यदि ते स्वयमेव ग्लानवैयावृत्त्यं कर्तुं प्रभवन्ति ततो ब्रुवते -आर्य ! व्रजतु यथास्थानं भवान्, वयं ग्लानस्य सकलमपि वैयावृत्त्यं कुर्वाणाः स्म इति ॥ [भा. १८७९] अथ ते न प्रभवन्ति यदि वाऽसावेवंविधगुणोपेतो वर्त्ततेसंजोगदिट्ठाढी, तेनुवलद्धा व दव्वसंजोगा । सत्थं व तेणऽधीय, वेज्जोवा सो पुरा आसि ।। वृ- संयोगाः - औषधद्रव्यमीलनप्रयोगास्तद्विषयो दृष्टः पाठः - चिकित्साशास्त्वायवविशेषो येन स संयोगध्ष्टपाठः, आर्षत्वाद् गाथायामिनप्रत्ययः, यदि वा तेन द्रव्यसंयोगाः कुतोऽपि सातिशयज्ञानविशेषादुपलब्धाः, 'शास्त्रं वा' चरक-सुश्रुतादिकं सकलमपि तेनाधीतम्, वैद्यो वा सः 'पुरा' पूर्वं गृहाश्रम आसीत्, ततो न विसर्जनीयः ॥ [भा. १८८०] अत्थिय से योगवाही, गेलन्नतिगिच्छणाए सो कुसलो । सीसे वावारेत्ता, तेगिच्छं तेण कायव्वं ॥ वृ- यदि 'तस्य' आघन्तुकस्य गच्छे योगवाहिनः सन्ति, स च स्वयं ग्लान्यचिकित्सायां कुशलः, ततः शिष्यान् सूत्रार्थपौरुषीप्रदानादौ व्यापार्य स्वयं तेन ग्लानस्य 'चैकित्स्यं' चिकित्साकर्म कर्त्तव्यम् । उपलक्षणमिदम्, तेन कुल-गण-सङ्घप्रयोजनेषु गुरुकार्यप्रेषणे वस्त्र पात्राद्युत्पादने वा यो यत्र योग्यस्तं तत्र व्यापार्य सर्वप्रयत्नेन स्वयं ग्लानस्य चिकित्साकर्म कर्त्तव्यम् ॥ सूत्रार्थपौरुषीव्यापारणे विधिमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532