________________
बृहत्कल्प-छेदसूत्रम् - १-१/६
'उपचरति' पृच्छति को नु युष्माकं मध्ये “अतिन्नो ?” ग्लानो येनाहं तं प्रतिजागर्मि ? | अथवा 'उपचारमात्रं' लोकोपचारमेव केवलमनुवर्त्तयितुं ग्लानसमीपम् 'एति' आगच्छति । यदि वा कार्यार्थी सन्नुपचरति । किमुक्तं भवति ? - कार्यं किमपि ज्ञान दर्शनादिकं तत्समीपादीहमानः प्रतिजागर्ति । 'प्रायश्चित्तं वा मे भविष्यति यदि न गमिष्यामि' इति विचिन्त्यागत्य च प्रायश्चित्तं विशोधयति । एष सर्वोऽप्युपचारो द्रष्टव्यः ॥
अथ श्रद्धावानिति द्वारमाह
[भा. १८७७]
४७४
सोऊण ऊ गिलाणं, तुरंतो आगओ दवदवस्स । संदिसह किं करेमी, कम्मि व अट्ठे निउज्जामि ॥
[भा. १८७८ ] पडिचरिहामि गिलाणं, गेलने वावडाण वा काहं । तित्थानुसज्जणा खलु, भत्ती य कया हवइ एवं ||
वृ- 'ग्लानं प्रतिजाग्रदहं महतीं निर्जरामासादयिष्यामि' इत्येवंविधया धर्मश्रद्धया युक्तः श्रद्धावानुच्यते । स च श्रुत्वा ग्लानं 'त्वरमाणः' श्रवणानन्तरं शेषकार्याणि विहाय पन्थानं प्रतिपन्नः सन् “दवदवस्स” त्ति द्रुतं द्रुतं गच्छन् झगिति ग्लानसमीपमागतस्ततो ग्लानप्रतिचारकानाचार्यान् वा गत्वा भणति-सन्दिशत भगवन्तः ! किं करोम्यहं ? कस्मिन् वा 'अर्थे' ग्लानसम्बन्धिनि प्रयोजने युष्माभिरहं नियोज्ये ?, अहं तावदनेनाभिप्रायेणायातः, यथा प्रतिजागरिष्यामि ग्लानं ग्लानवैयावृत्त्ये वा व्यापृता ये साधवस्तेषां भक्त-पानप्रदान-विश्रामणादिना वैयावृत्त्यं करिष्यामि। एवंकुर्वता तीर्थस्यानुसजना- अनुवर्त्तना कृता भवति, भक्तिश्च भगवतां तीर्थकृतां कृता भवति, “जे गिलाणं पडियरइ से ममं णाणेणं दंसणेणं चरित्तेणं पडिवज्जइ" इत्यादिभगवदाज्ञाऽऽराधनात्। इत्थं तेनोक्ते यदि ते स्वयमेव ग्लानवैयावृत्त्यं कर्तुं प्रभवन्ति ततो ब्रुवते -आर्य ! व्रजतु यथास्थानं भवान्, वयं ग्लानस्य सकलमपि वैयावृत्त्यं कुर्वाणाः स्म इति ॥
[भा. १८७९]
अथ ते न प्रभवन्ति यदि वाऽसावेवंविधगुणोपेतो वर्त्ततेसंजोगदिट्ठाढी, तेनुवलद्धा व दव्वसंजोगा । सत्थं व तेणऽधीय, वेज्जोवा सो पुरा आसि ।।
वृ- संयोगाः - औषधद्रव्यमीलनप्रयोगास्तद्विषयो दृष्टः पाठः - चिकित्साशास्त्वायवविशेषो येन स संयोगध्ष्टपाठः, आर्षत्वाद् गाथायामिनप्रत्ययः, यदि वा तेन द्रव्यसंयोगाः कुतोऽपि सातिशयज्ञानविशेषादुपलब्धाः, 'शास्त्रं वा' चरक-सुश्रुतादिकं सकलमपि तेनाधीतम्, वैद्यो वा सः 'पुरा' पूर्वं गृहाश्रम आसीत्, ततो न विसर्जनीयः ॥
[भा. १८८०] अत्थिय से योगवाही, गेलन्नतिगिच्छणाए सो कुसलो । सीसे वावारेत्ता, तेगिच्छं तेण कायव्वं ॥
वृ- यदि 'तस्य' आघन्तुकस्य गच्छे योगवाहिनः सन्ति, स च स्वयं ग्लान्यचिकित्सायां कुशलः, ततः शिष्यान् सूत्रार्थपौरुषीप्रदानादौ व्यापार्य स्वयं तेन ग्लानस्य 'चैकित्स्यं' चिकित्साकर्म कर्त्तव्यम् । उपलक्षणमिदम्, तेन कुल-गण-सङ्घप्रयोजनेषु गुरुकार्यप्रेषणे वस्त्र पात्राद्युत्पादने वा यो यत्र योग्यस्तं तत्र व्यापार्य सर्वप्रयत्नेन स्वयं ग्लानस्य चिकित्साकर्म कर्त्तव्यम् ॥
सूत्रार्थपौरुषीव्यापारणे विधिमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org