________________
४७५
उद्देशकः १, मूलं-६, [भा. १८८१] [भा.१८८१] दाऊणं वा गच्छइ, सीसेण व वायएहि वा वाए।
तत्थऽन्नत्थ व काले, सोहिए सव्वुद्दिसइ हटे ॥ वृ-सूत्रार्थपौरुष्यौ दत्त्वा ग्लानस्य समीपं गच्छति, गत्वा च चिकित्सां करोति । अथ दूरे ग्लानस्य प्रतिश्रयस्ततः सूत्रपौरुषीं दत्त्वा अर्थपौरुषी शिष्येण दापयति । अथ दवीयान् स प्रतिश्रयस्ततो द्वे अपि पौरुष्यौ शिष्येण दापयति । अथात्मीयः शिष्यो वाचनां दातुमशक्तस्ततो येषां वाचकानाम्-आचार्याणां स ग्लानस्तैः सूत्रमर्थं वा स्वशिष्यान् वाचयति । अथ तेषामपि नास्ति वाचनाप्रदाने शक्तिस्ततो यदि तेऽनागाढयोगवाहिनस्तदा तेषां योगो निक्षिप्यते । अथागाढयोगवाहिनस्ततोऽयं विधि- "तत्थऽन्नत्थव" इत्यादि ।यत्र क्षेत्रे सग्लानस्तत्रान्यत्र वा क्षेत्रेस्थितास्ते आगाढयोगवाहिनआचार्येणवक्तव्याः, यथा-आर्या! कालंशोधयत।ततस्तैर्यथावत् कालग्रहणं कृत्वा यावतो दिवसान् कालःशोधितस्तावतां दिवसानामुद्देशनकालान् सर्वानप्याचार्यो ग्लाने ‘हृष्टे' प्रगुणीभूते सति एकदिवसेनैवोद्दिशति, यावन्ति पुनर्दिनानि कालग्रहणे प्रमादः कृतो गृह्यमाणे वा कालो न शुद्धः तेषामुद्देशनकाला न उद्दिश्यन्ते ।।
तत्र क्षेत्रे संस्तरणाभावेऽन्यत्र गच्छतां विधिमाह[भा.१८८२] निग्गमणे चउभंगो, अद्धा सव्वे वि निंति दोण्हं पि ।
भिक्ख-वसहीइ असती, तस्सानुमए ठविजा उ ।। वृ-ततः क्षेत्राद् निर्गमने चतुर्भङ्गी भवति । गाथायां पुंस्त्वनिर्देशः प्राकृतत्वात् । वास्तव्याः संस्तरन्ति नागन्तुकाः १ आगन्तुकाः संस्तरन्तिन वास्तव्याः २ न वास्तव्यानचागन्तुकाः संस्तरन्ति ३ वास्तव्या अप्यागन्तुका अपि संस्तरन्ति ४ । तत्र यत्र द्वयेऽपि संस्तरन्ति तत्र विधि प्रागेवोक्तः । यत्र तुन संस्तरन्ति तत्रायं विधि-प्रथमभङ्गे आगन्तुकानां द्वितीयभङ्गे वास्तव्यानामर्द्ध वा यावन्तोवा न संस्तरन्ति तावन्तो निर्गच्छन्ति, तृतीयभङ्गे द्वयोरपि वर्गयोरद्धाः सर्वेवा ग्लानं सप्रतिचरं मुक्त्वा निर्गच्छन्ति । एवं भिक्षाया वसतेश्च ‘असति' अभावे निर्गमनं द्रष्टव्यम । के पुनस्तत्र ग्लानसन्निधौ स्थापनीयाः ? इत्याह-'तस्य' ग्लानस्य ये 'अनुमताः' अभिप्रेतास्तान् प्रतिचरकान् ग्लानस्य समीपे स्थापयेत् ॥
गतं श्रद्धावानिति द्वारम् । अथेच्छाकारद्वारमाह[भा.१८८३] अभणितो कोइ न इच्छइ, पत्ते थेरेहि होउवालंभो।
दिटुंतो महिड्डीए, सवित्थरारोवणं कुञा ॥ [भा.१८८४] बहुसो पुच्छिज्जंता, इच्छाकारं न ते मम करिति ।
पडिमुंडणा य दुक्खं, दुक्खं च सलाहिउं अप्पा ।। वृ-कोऽपि साधुर्वैयावृत्त्यकुशलः, परमन्येन अभणितः' 'आर्य! एहि इच्छाकारेण ग्लानस्य वैयावृत्त्यं कुरु' इत्यनुक्तः सन् नेच्छति वैयावृत्यं कर्तुम्, स च श्रुत्वाऽपि ग्लानं न तस्य समीपं गतः । कुल-गण-सङ्घस्थविराश्चये कारणभूताः पुरुषाः ‘कुत्र सामाचार्यसीदन्ति? कुत्रचोत्सर्पन्ति?' इति प्रतिचरणाय गच्छान्तरेषु पर्यटन्ति ते तत्र प्राप्ताः, तैश्च स पृष्टः-आर्य ! उत्सर्पन्ति ते ज्ञानदर्शन-चारित्राणि? सन्ति वा केचित् प्रत्यासन्नपरिसरे साधवो ग्लानो वा कुत्रापि भवता श्रुतः? इति।सप्राह-इतः प्रत्यासन्न एळ ग्रामेसन्तिसाधवः, तेषांचास्त्येको ग्लान इति।ततस्तैस्तस्योपालम्भः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org