________________
४७६
बृहत्कल्प-छेदसूत्रम् -१-१/६
प्रदत्तः-यदि तेषां ग्लानो वर्तते ततस्त्वं त्य प्रतिचरणाय किं न गतः? । स प्राह-'बहुशः' भूयो भूयः पृच्छयमाना अपि ते साधवः कदापि ममेच्छाकारं न कुर्वन्ति, अन्यच्च अहमनभ्यर्थितस्तत्र गतः, तैश्च प्रतिमुण्डितः-निषिद्धः, यथा-पूर्णं भवता वैयावृत्त्यकरणेति, एवं प्रतिमुण्डनया महद् मानसंदुःखमुत्पद्यते, ‘याशंचाहंग्लानस्यवैयावृत्त्यंकरोमिईशमन्यः कोऽपिन वेत्ति' एवमात्मानं श्लाधितुं 'दुःख' दुष्करं भवति, अतः कथमनभ्यर्थितस्तत्र गच्छामि ? इति ।
ततः स्थविरैस्तस्यपुरतो महर्द्धिको राजातस्य दृष्टान्तः कृतः। यथा-एगोराया कत्तियपुनिमाए मरुयाणंदाणं देइ । एगो मरुगो चोट्सविजाठाणपारगो भोइयाए भणिओ-तुमं सव्वमरुगाहिवो, वच्च रायसमीवं, उत्तमं तेदानंदाहिइ त्ति । सो मरुओ भणाइ-एगं ताव रायकिव्विसं गिण्हामि, बिइयं अमिमंतिओ गच्छामि, जइ से पिति-पितामहस्स अनुग्गहेण पओअणं तो मंआगंतुं तत्थ नेहिइ, इह ठियस्स वा मे दाहिइ । भोइयाए भणिओ-तस्स अस्थि बहू मरुगा तुज्झ सरिच्छा अनुग्गहकारिणो, जइ अप्पणो तद्दविणेण कजं तो गच्छ । जहा सो मरुओ अब्भत्थणं मग्गंतो इहलोइयाणंकामभोगाणंअनाभागीजाओ, एवंतुमंपिअब्भत्थणंमग्गंतोनिज्जरालाहस्सअनाभागी भविस्ससि ।। इत्थमुपलभ्य चतुर्गुरुकारोपणां सविस्तरां' परितापमादिप्रायश्चित्तविस्तरयुक्तां तस्य प्रयच्छन्ति ॥
गतमिच्छाकारद्वारम् । अथाशक्तद्वारमाह[भा.१८८५] किं काहामि वराओ, अहं खु ओमाणकारओ होहं ।
एवं तत्थ भणंते, चाउम्मासा भवे गुरुगा। वृ-कोऽपि साधुः कुल-गण-सङ्घस्थविरैस्तथैव पृष्टः प्राह-क्षमाश्रमणाः ! लोके यः सर्वथा अशक्तः-पडप्रायः स वराक उच्यते, सोऽहं वराकस्ताद्दशस्तत्र गतः किं करिष्यामि? नवरमहं तत्र प्राप्तोऽवमानकारको भविष्यामि । एवं तत्र स्थविराणां पुरतो भणतस्तस्य चतुर्मासा गुरवो भवन्ति ।। स च स्थविरैरित्थमभिधातव्यः[भा.१८८६] उव्वत्त-खेल-संथार-जग्गणे पीस-भाणधरणे य।
तस्स पडिजग्गयाण व, पडिलेहेउं पिसि असत्तो ।। वृ-आर्य ! किं ग्लानस्योद्वर्तनमपि कर्तुं न शक्नोषि ? एवं खेलमल्लकस्य भस्मना भरणं भस्मपरिष्ठापनं वा संस्तारकस्य रचनं जागरणं-रात्रौ प्रहरकप्रदानं पेषणम्-औषधीनां चूर्णनं माणधरम-सपान-भोजनभाजनानांधारणं 'तस्य' ग्लानस्यप्रतिजागरकाणांवा साधूनामुपधिमपि प्रत्युपेक्षितुमशक्तः? येनेदं ब्रवीषि-किं करिष्यामि वराकोऽहम् ? इति ।।
अथ सुखितद्वारमाह[भा.१८८७] सहिया मोतिय भणती, अच्छह वीसत्थया सुहं सव्वे ।
एवं तत्थ भणंते, पायच्छित्तं भवे तिविहं ।। वृ-एकत्र क्षेत्रे मासकल्पस्थितैः साधुभिः, श्रुतम्-अमुकत्र ग्लान इति । तत्र केऽपि साधवो भणन्ति-ग्लानं प्रतिजागरका व्रजामो वयम् । इतरः कोऽपि भणति-सुखितानास्मान् दुःखितान् कुरुत्, यूयमपि सर्वे 'विश्स्ताः' निरुद्विग्नाः ‘सुखं' सुखेन तिष्ठत किंतत्र गत्वा मुधैवदुःखस्यात्मानं प्रयच्छामः ? किं युष्माकमयं श्लोको न कर्णकोटरमुपागमत् ? । यथाJain Education International
For Private & Personal Use Only
www.jainelibrary.org