________________
४७३
कुतोऽपि प्रयोजनादायातेन, यद्वा 'क्षेत्रान्तः' क्षेत्राभ्यन्तरे अन्यग्रामे भिक्षाचर्यां गतेन, यदि वा क्षेत्रबहिरन्यग्रामे पथि वा वर्त्तमनेन एतेषु स्थानेषु स्वगच्छे वा परच्छे वा ग्लानः श्रुतो भवेत्, श्रुत्वा च ग्लानं यः 'उन्मार्गम्' अटवीगामिनं पन्थानं 'प्रतिपथं वा' येन पथा आयातस्तमेव पन्थानं गच्छति 'मार्गाद्वा' विवक्षितपथादन्यमार्ग सङ्क्रामति स प्राप्नोति आज्ञादीनि दोषपदानि, आदिशब्दादनवस्था-मिथ्यात्व-विराधनापरिग्रहः । एवंकुर्वाणस्य चास्य यद् ग्लानोऽप्रतिजागरितः परितापनादिकं प्राप्नोति तन्निष्पन्नं प्रायश्चित्तम् । अत एवाह
[ भा. १८७२]
उद्देशक :
: १, मूलं - ६, [भा. १८७१]
सोऊण ऊ गिलाणं, पंथे गामे य भिक्खवेलाए । जइ तुरियं नागच्छइ, लग्गइ गरुए य चउमासे ।।
वृश्रुत्वा ग्लानं पथि वा गच्छन् ग्रामे वा प्रविष्टो भिक्षायां वा पर्यटन् यदि 'त्वरितं' तत्क्षणादेव नागच्छति ततः 'लगति' प्राप्नोति स चतुरो मासान् गुरुकान् ।। यत एवमतः
[भा. १८७३ ] जह भमर-महुयरिगणा, निवतंती कुसुमियम्मि चूयवणे । इय होइ निवइअव्वं, गेलने कइयवजढेणं ॥
वृ- यथा भ्रम- मधुकरीगणाः 'कुसुमिते' मुकुरिते 'चूतवने' सहकारवनखण्डे मकरन्दपानलोलुपतया निपतन्ति 'इति' अमुनैव प्रकारेण भगवदाज्ञामनुवर्त्तमानेन कर्मनिर्जरालाभलिप्सया ग्लान्ये समुत्पन्ने 'कैतवजढेन' मायाविप्रमुक्तेन त्वरितं 'निपतितव्यम्' आगन्तव्यं भवति । एवंकुर्वता साधर्मिकवात्सल्यं कृतं भवति, आत्मा च निर्जराद्वारे नियोजितो भवति ॥ तस्य च ग्लानत्वस्य प्रतिबद्धामिमां द्वारगाथामाह
[भा. १८७४] सुद्धे सही इच्छकारे, असत्त सुहिय ओमाण लुद्धे य ।
अनुअत्तणा गिलाणे, चालन संकामणा तत्तो ॥
वृ-प्रथमतः शुद्ध इति द्वारं वक्तव्यम् । ततः 'श्रद्धी' श्रद्धावानिति द्वारम्, तत इच्छाकारद्वारम्, तदनन्तरमशक्तद्वारम्, ततः सुखितद्वारम्, तदनु अपमानद्वारम्, ततोऽपि लुब्धद्वारम्, ततोऽनुवर्त्तना ग्लानस्य उपलक्षणत्वाद् वैद्यस्य च वक्तव्या, ततश्चालना सङ्क्रामणा च ग्लानस्याभिघातव्येति द्वारगाथासमुदायार्थः ॥
अथावयवार्थं प्रतिद्वारं प्रचिकटयिषुः “यथोद्देशं निर्देशः” इति वचनात् प्रथमतः शुद्धद्वारं भावयति
[ भा. १८७५ ] सोऊण ऊ गिलाणं, जो उवयारेण आगओ सुद्धो । जो वे कुज्जा, लग्ग गुरुए सवित्थारे ।।
वृ- श्रुत्वा ग्लानं 'यः' साधुः 'उपचारेण' वक्ष्यमाणलक्षणेन ग्लानसमीपमागतः सः ‘शुद्धः' न प्रायश्चित्तमाक् । यस्तूपेक्षां कुर्यात् सः 'लगति' प्राप्नोति चतुरो गुरुकान् 'सविस्तरान् ' ग्लानारोपणासंयुक्तान् ।। उपचारपदं व्याचष्टे
[भा. १८७६ ] उवचरइ को णऽतिन्नो, अहवा उवचारमित्तगं एइ । उवचरइ व कज्जत्थी, पच्छित्तं वा विसोहेइ ॥
वृ- यत्र ग्लानो वर्त्तते तत्र गत्वा पृच्छति - " को S तिन्नो "त्ति द्वितीयार्थे प्रथमा, 'नुः' इति प्रश्ने, युष्माकं मध्ये ‘अतिन्नं’ग्लानं 'क उपचरति ? ' कः प्रतिजागर्त्ति ? ; यद्वा धातूनामनेकार्थत्वाद्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org