________________
४७२
बृहत्कल्प-छेदसूत्रम् -१-१/६ इति सूच्यते ।। उत्स्पर्शनद्वारं व्याचष्टे[भा.१८६७] एमेव य परिभुत्ते, नवे य तंतुग्गए अधोयम्मि ।
उप्फुसिऊणं देते, अत्तट्ठिय सेविए गहणं ।। वृ-य वस्त्रं गृहिणा परिधानादिना परिमलितंतत् परिभुक्तंभण्यते, तद्विपरीतं नवं-तन्तुभ्य उद्गतमात्रम् । ततः परिभुक्तं वा नवं वा तन्तूद्गतमधौतं सद् यद् ‘उत्स्पृश्य' उदकेनाभ्युक्षणं दत्त्वा ददातितत्राप्येवमेव द्रष्टव्यम्, न कल्पतइत्यर्थः । अथात्मार्थितमात्मना वा सेवितं-परिभुक्तं ततो ग्रहणं कर्तव्यम् ॥
अथ विनेयानुग्रहार्थं प्रसङ्गतः पश्चात्कर्मण्यपि विधिमाह[भा.१८६८] संसट्ठमसंसढे, य सावसेसे य निरवसेसे य ।
हत्थे मत्ते दव्वे, सुद्धमसुद्धे तिगट्ठाणा ।। वृ-इह भिक्षादातुः सम्बन्धी हस्तः संसृष्टो वा भवेदसंसृष्टो वा, येनचकांस्यिकादिना मात्रकेण भिक्षां ददाति तदपि संसृष्टमसंसृष्टं वा, द्रव्यमपि सावशेषं वा स्यान्निरवशेषं वा; अतः संसृष्टाऽसंसृष्ट-सावशेष-निरवशेषपदैर्हस्त-मात्रक-द्रव्यविषयैरष्टौ भङ्गा भवन्ति । तद्यथा-संसृष्टो हस्तः संसृष्टं मात्रकं सावशेषं द्रव्यं १ संसृष्टो हस्तः संसष्टं मात्रकं निरवशेषं द्रव्यं २ संसृष्टो हस्तोऽसंसृष्टं मात्रकं सावशेषं द्रव्यं ३ संसृष्टो हस्तोऽसंसृष्टं मात्रकं निरवशेषं द्रव्यं ४, एवमसंसृष्टेनापि हस्तेन चत्वारो भङ्गाः प्राप्यन्ते ८। एतस्यामष्टभङ्गयां यानि 'त्रीणि स्थानानि' हस्तमात्रक-द्रव्यरूपाणि तैर्यत्र पश्चात्कर्मदोषो न भवति ते भङ्गकाः शुद्धा इतरे अशुद्धाः॥
अमुमेवार्थं स्पष्टयति[भा.१८६९] पढमे भंगे गहणं, सेसेसु य जत्थ सावसेसंतु।
अनेसु उ अग्गहणं, अलेव-सुक्खेसु ऊ गहणं ॥ वृ-अस्यामष्टभङ्गयांयःप्रथमो भङ्गस्त्रिभिरपिपदैः शुद्धस्तत्र ग्रहणं भवति।शेषेष्वपि भङ्गकेषु यत्र सावशेषंद्रव्यं भवति तत्र ग्रहीतुंकल्पते, पश्चात्कर्मासम्भवात् । अन्येषु' निरवशेषपदयुक्तेषु भङ्गकेष्वग्रहणम्, न कल्पते ग्रहीतुमिति भावः । इयमत्र भावना-इहहस्तो मात्रकं वा द्वेवास्वयोगेन संसृष्टे वा भवतामसंसृष्टे वान तद्वशेन पश्चात्कर्म सम्भवति, किं तर्हि ? द्रव्यवशे । तथाहि-यत्र द्रव्यं सावशेषं तत्रैते साध्वर्थं खरण्टिते अपिनदात्री प्रक्षालयति, भूयोऽपि परिवेषणसम्भवात्; यत्रतु निरवशेषं द्रव्यं तत्र साधुदानानन्तरं नियमतो हस्तं मात्रकं वाप्रक्षालयति । ततो द्वितीयादिषु समेषु भङ्गेषुपश्चात्कर्मसम्भवान्न कल्पते, प्रथमादिषु तु भङ्गेषु तदसम्भवात् कल्पते ग्रहीतुमिति । यदि चैतेष्वपि यद् ‘अलेपकृतं' सक्तु-मण्डकादि यच्च 'शुष्कं सप्रसङ्गं पुरःकर्मद्वारम् ।
अथ ग्लान्यद्वारं बिभावयिषुराह[भा.१८७०] सग्गामे सउवसए, सग्गामे परउवस्सए चेव। ।
खेत्तंतो अन्नगामे, खेत्तबहि सगच्छ परगच्छे । [भा.१८७१] सोऊण ऊ गिलाणं, उम्मग्गं गच्छ पडिवहं वा वि।
__मग्गाओ वा मग्गं, संकमई आणमाईणि ॥ कृ-स्वग्रामेस्वोपाश्रयेतिष्ठता श्रुतम्, यथा-अमुकत्र ग्लानइति, स्वग्रामे वापरेषां-साधूनामुपाश्रये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org