________________
उद्देशक : १, मूलं -६, [भा. १८६१ ]
[ भा. १८६१ ] का भयणा जइ कारणि, जयणाए अकप्प किंचि पडिसेवे । तो सुद्द इहरा पुन, न सुज्झए दप्पओ सेवं ।
वृ- का पुनः ‘भजना ?' विकल्पना ? | सूरिराह- कारणे यतनया पुरः कर्मादि किञ्चिदकल्प्यं यदि प्रतिसेवेत ततः शुद्धः । 'इतरथा पुनः' अयतनया दर्पतो वा सेवमानो न शुध्यति ॥
४७१
अथ पुरःकर्मवर्जने कारणमुपदर्शयति
[भा. १८६२ ] समणुन्नापरिसंकी, अवि य पसंगं गिहीण वारिंता । गिण्हंति असढभावा, सुविसुद्धं एसियं समणा ।।
वृ-समनुज्ञा नाम-पुरःकर्मकृतं गृह्णतामप्कायविराधनानुमतिस्तत्परिशङ्क्रिनः तद्दोषभीताः पुरः कर्म परिहरन्ति । अपि च यदि पुरः कर्मकृतां भिक्षां ग्रहीष्यामस्ततो गृहिणां भूयः पुरः कर्मकरणे प्रसङ्गो भवति अतस्तं 'वारयन्तः तद्ग्रहणेनार्थात् प्रतिषेधयन्तोऽशठभावाः सन्तः श्रमणाः सुविशुद्धमेषणीयं गृह्णन्ति ॥ अथ हस्तद्वारं विवृणोति
[भा. १८६३]
किं उवघातो हत्थे, मत्ते दव्वे उदाहु उदगम्मि । तिन्नि वि ठाणा सुद्धा, उदगम्मि अनेसणा भणिया ||
वृ- शिष्यः प्रश्नयति-पुरः कर्मणि कृते किं हस्ते 'उपघातः' अनेषणीयता ? उत मात्रके ? आहोश्चिद् द्रव्ये ? उताहो उदके ? । सूरिराह- हस्त मात्रक द्रव्याणि त्रीण्यपि स्थानानि 'शुद्धानि ' नैतान्यनेष - णीयानि, किन्तूदकेऽनेषणीयता भणिता ॥ अत्रैौपपत्तिमाह
[भा. १८६४ ] जम्हा तु हत्थ - मत्तेहि कप्पती तेहि चैव तं दव्वं । अत्तट्ठिय परिभुत्तं, परिणत तम्हा दगमनेसिं ॥।
वृ-यस्मात् ताभ्यामेव हस्त-मात्रकाभ्यां तदेव द्रव्यमात्मार्थितं सत् परिमुक्तशेषंवा परिणतेऽप्काये कल्पते, तस्मादुदकमेबानेषणीयं न हस्त-मात्रक द्रव्याणीति ॥
एवमशनादिविषयो विधिरुक्तः । सम्प्रति । निर्युक्तिगाथया वस्त्रविषयं तमेवाह[भा. १८६५] कि वा उवघातो धोए, स्ते चोक्खे सुइम्मि व कयम्मि ।
अत्तट्ठिय संकामिय गहणं, गीयत्थ संविग्गे ॥
वृ- 'धीतं ' मलिनं सत् प्रक्षालितम्, 'रक्तं' धातुप्रभृतिभिर्द्रव्यै रक्तीकृतम्, 'चोक्खं ' रजकपार्थ्यादतीवोज्वलं कारितम्, 'सुचिकम्' अशुच्यादिनोपलिप्तं सत् पवित्रीकृतम्, एतानि साध्वर्थं वस्त्रे कृतानि भवेयुः । ततश्च शिष्यः पृच्छति-किं धौते उपघातः ? उत रक्ते ? उताहो चोक्खे? आहोश्चित् शुचीकृते? । अत्रापि तदेव निर्वचनम्, नैतेषां चतुर्णामेकतरस्मिन्नप्युपघातः, किन्तूदक एव । यत एतदपि साधुना प्रतिषिद्धं सद् यद्यात्मार्थितं सङ्क्रामितं वा अन्यस्मै दत्तं ततो गीतार्थसंविग्नस्य ग्रहणं भवति नान्यस्य ॥ किमर्थमेतद् ग्रहणम् ? इति चेद् उच्यतेगीयत्थग्गहणेणं, अत्तट्ठियमाइ गिण्हई गीतो ।
[भा. १८६६ ]
संविग्गग्हणेणं, तं गिण्हंतो वि संविग्गो ॥
वृ- गीतार्थग्रहणेनैतद् ज्ञाप्यते - आत्मार्थितं सङ्क्रामितं वा गीतार्थो गृह्णाति नागीतार्थ : । संविग्नग्रहणेन तु 'तद्' आत्मार्थितादिकं गृह्णन्नपि 'संविग्नः ' मोक्षाभिलाष्येव असौ नासंविग्न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
।