________________
४७०
बृहत्कल्प-छेदसूत्रम् -१-१/६ चासौ प्रथमभङ्गे साधोPङ्गतोऽपि यदि न भवति, एवं 'खुः' अवधारणे पुरःकर्मकृतः कर्मबन्धो दायकग्राहकयोरस्थितस्तटस्थ एव तिष्ठति, यथा लोके ब्रह्मवध इति । इमं लोइयं उदाहरणंइंदेण उडंकरिसिपत्ती स्ववती दिट्ठा । तओ अज्झोववन्नो तीए समं अहिगमं गतो सो तओ निग्गच्छंतो रिसिणा दिट्टो । रुद्रुण रिसिणा तस्स सावो दिन्नो । जम्हा तुमे अगम्मा रिसिपत्ती अभिगया तम्हाते बंभवज्झा उवट्ठिया।सोतीए भीओकुरुखेत्तंपविट्ठो।सा बंभवज्झाकुरुखेत्तस्स पासओ भमइ । सो वि तओ तब्भया न नीति । इंदेन विना सुन्नं इंदट्ठाणं । ततो सव्वे देवा इंदं मग्गमाणा जाणिऊण कुरुखेत्ते उवट्ठिया भणंति-एहि, सणाहं कुरु देवलोग। सो भणइ-मम इओ निग्गच्छंतस्सबंभवज्झा लग्गइ।तओ सा देवेहिं बंभवज्झा चउहा विहत्ता-एको विभागोइत्थीणं रिउकाले ठिओ, बिइओ उदगे काइयंनिसिरंतस्स, तइओबंभणस्स सुरापाणे, चउत्थो गुरुपत्तीए अभिगमे । सा बंभवज्झा एएसु ठिया । दंडो वि देवलोगं गओ । एवं तुब्भं पि पुरेकम्मकओ कम्मबंधदोसो ब्रह्महत्यावद् वेगलो भवति ।। पर एवाह[भा.१८५७] संपत्तीइ वि असती, कम्मं संपत्तिओ विय अकम्मं ।
एवं खुपुरेकम्म, ठवणामित्तंतु चोएइ॥ वृ-यदि सम्प्राप्तावसत्यामपि द्वितीयभङ्गे साधोः पुरःकर्म भवति, सम्प्राप्तावपि च प्रथमभङ्गे यदि 'अकर्म' पुरःकर्म न भवति, ततः एवं 'खुः' अवधारणे इत्थमेव मदीयमनसि प्रतिष्ठितं यदेतत्पुरःकर्म तत् स्थापनामात्रमेव, तुशब्दस्यैवकारार्थत्वात्प्ररूपणामात्रमेवेदमिति ‘नोदयति' प्रेरयति ।। अत्रोच्यते-यत् तावदुक्तम्-“एवं पुरःकर्मकृतः कर्मबन्धस्तटस्थ एव तिष्ठति" तत्र तिष्ठतु नाम, न काचिदस्माकं क्षतिरुपजायते, तथा चात्र स्वदुक्तमेव ईष्टान्तमनूद्यास्माभि स्वाभिमतमर्थं साधयितुमिदमुच्यते[भा.१८५८] इंदेन बंभवज्झा, कया उभीओ अतीए नासंतो।
तो कुरुखेत्तपविट्ठो, सा वि बहि पडिच्छए तं तु॥ [भा.१८५९] निग्गय पुनो वि गिण्हे, कुरुखेत्तं एव संजमो अम्हं ।
जाहे ततो नीइ जीवो, घेप्पइ तो कम्मबंधेणं ॥ वृ-इन्द्रेण ब्रह्महत्या कृता, ततो भीतः सन् तस्या नश्यन् कुरुक्षेत्रं प्रविष्टः । साऽपि ब्रह्महत्या 'तम्' इन्द्रं बहि प्रतीक्षते । यद्यसौ कुरुक्षेत्रान्निर्गच्छति ततो निर्गतं तमिन्द्रं पुनरपि ब्रह्महत्या गृह्णाति। एवमस्माकमपिसंयमः कुरुक्षेत्रम्, कर्मबन्धस्तुब्रह्महत्यासशः ततोयदासंयमकुरुक्षेत्राद् द्वितीय-तृतीयभङ्गयोरशुभाध्यवसायपरिणतो जीवो निर्गच्छति ततो गृह्यतेऽसौ कर्मबन्धेन ब्रह्महत्याकल्पेन, अनिर्गतस्तुप्रथम-चतुर्थभङ्गयोर्न गृह्यते।। यच्चोक्तम्- “स्थापनामानंपुरःकर्म" तदपि न सङ्गच्छते, कुतः? इति चेद् उच्यते[भा.१८६०] जे जे दोसाययणा, ते ते सुत्ते जिनेहि पडिकुट्ठा ।
ते खलु अमायरंतो, सुद्धो इहरा उभइयव्यो। वृ-यानि यानि दोषाणां-प्राणातिपातादीनामायतनानि-स्थानानिपुरःकर्मप्रभृतीनि तानि तानि सूत्रे 'जिनैः' भगवद्भिः ‘प्रतिक्रुष्टानि' निषिद्धानि। अतः 'तानि खलु' दोषायतनानि अनाचरन् साधुः शुद्धो मन्तव्यः । 'इतरथा तु' समाचरन् ‘भक्तव्यः' विकल्पयितव्यः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org