________________
४६९
उद्देशकः १, मूलं-६, [भा. १८५१]
दाहं ति पडिनियत्ते, तस्स व अन्नस्स व न कप्पे ।। वृ-पुरःकर्मणि कृते प्रतिषिद्धो दायको यदि भणेत्-अन्यस्मै साधवे दास्यामीति । ततः प्रतिनिवृत्तस्य तस्य वा अन्यस्य वा न कल्पते ।। तथा[भा.१८५२] भिक्खयरस्सऽन्नस्स व, पुव्वं दाऊण जइ दए तस्स ।
सो दाया तं वेलं, परिहरियव्वो पयत्तेणं॥ वृ-पुरःकर्मणिकृतेपूर्वमन्यस्य भिक्षाचरस्य भिक्षां दत्त्वा पश्चादच्छिन्नव्यापारः तस्य' साधोभिक्षां दद्यात्, स दाता तस्यां वेलायां प्रयत्नेन परिहर्त्तव्य इति ।।
अमुमेवार्थं किञ्चिद्विशेषयुक्तमाह[भा.१८५३] अन्नस्स व दाहामी, अन्नस्स व संजमस्स न वि कप्पे।
अत्तट्ठिए व चरगाइणं च दाहं ति तो कप्पे॥ वृ-अन्यस्मै वा साधवेदास्यामीति यदि सङ्कल्पयति तदा अन्यस्यापिसंयतस्य नैव कल्पते। अथ आत्मार्थयति 'चरकादीनां वा दास्यामि' इति सङ्कल्पयति ततः परिणते हस्ते मात्रके वा कल्पते ॥अथ कर्मेति द्वारं विवृणोति[भा.१८५४] दव्वेण य भावेण य, चउक्कभयणा भवे पुरेकम्मे ।
सागरिय भावपरिणय, तइओ भावे य कम्मे य॥ वृ-द्रव्येण च भावेन च 'चतुष्कभजना' चतुर्भङ्गीरचना पुरःकर्मणि भवति । तद्यथा-द्रव्यतः पुरःकर्म न भावतः १ भावतः पुरःकर्म न द्रव्यतः २ द्रव्यतोऽपि भावतोऽपि पुरःकर्म ३ न द्रव्यतो न भावतः पुरःकर्म ४ । अथामीषां भावना-“सागरिय"त्ति ये शौचवादिनोऽभाविताश्च गृहस्थास्तेपुरःकर्मणिकृते यदि न गृह्यतेततः अशुचयोऽमी' इति मन्येरन्; इत्थं सागारिकभयात् पुर-कर्मकृतेन हस्तादिना भक्तादिकं गृहीत्वाऽपि परिष्ठापयत द्रव्यतः पुरःकर्म भवतिन भावत इति । "भावपरिणय'त्ति भिक्षामवतरन् 'पुरःकर्मकृतमपि भक्तादिकं ग्रहीष्ये' इति भावेन परिणतस्तथापि पुरःकर्मकृतं ग्रहीष्यामि' इति भावपरिणतो भिक्षामवतीर्ण प्राप्तं च तेन पुरःकर्मकृतमिति तृतीयभङ्गो द्रष्टव्यः॥ [भा.१८५५] सुन्नो चउत्थ भंगो, मन्झिल्ला दोन्निवी पडिक्कुट्टा ।
सपत्तीइ वि असती, गहणपरिणते पुरेकम्मं ।। वृ-चतुर्थस्तु (भङ्गः) पुरःकर्म प्रतीत्योभयथाऽपि शून्यः, अयं चात्र निरवद्यः प्रतिपत्तव्यः । 'मध्यमौ' द्वितीय-तृतीयभङ्गौ द्वावपि प्रतिक्रुष्टौ प्रतिषिद्धौ, भावस्याविशुद्धत्वात् । प्रथमभङ्गस्तु शुद्धइव मन्तव्यः,प्रयोजनापेक्षत्वात् । द्वितीयभङ्गेतु “संपत्तीइविअसईगहणपरिणए पुरेकम्म"ति द्रव्यतः सम्प्राप्तावसत्यामपि भावतो ग्रहणपरिणतस्य पुरःकर्म भवति ।।
अस्यैव नियुक्तिगाथाद्वयस्य भावार्थमाक्षेप-परिहाराभ्यां स्पष्टयितुमाह[भा.१८५६] पुरकम्मम्मि कयम्मी, जइ गिण्हइ जइ यतस्स तं होइ ।
___ एवं खु कम्मबंधो, चिट्ठइ लोए व बंभवहो ।। वृ-पुरःकर्मणि कृते यदि गृह्णाति, यदि च 'तस्य' यतेः 'तत्' पुरःकर्मग्रहणं प्रतिभावो भवति तदा तृतीयभङ्गो भवतीति वाक्यशेषः । आह पुरःकर्मदोषस्ताव दायकस्य न भवति, कृतोऽपि
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org