________________
४६८
बृहत्कल्प-छेदसूत्रम् - १-१/६
जइ जाणगा उ साहू, परिभोत्तुं जे सुहं होइ ॥
वृ- एकेन पुर-कर्मणि समारब्धे यद्यन्यः स्वयं ददाति यदि च 'ज्ञायकाः' गीतार्था साधवस्ततः परिभोक्तुं "जे" इतिपादपूरणे सुखं भवति, परिभोक्तव्यं तदिति भावः ॥ अथवागीयत्थेसु वि भयणा, अन्नो अन्नं व तेण मत्तेणं । विप्परिणयम्मि कप्पर, ससिणिद्धदउल्ल पडिकुट्ठा ॥
[भा. १८४७ ]
वृ-गीतार्थेष्वपि भजना कार्या । कथम् ? इत्याह- 'अन्यः' पुरुषोऽन्यद् वा तद् वा द्रव्यं 'तेन' पुरःकर्मकृतेन मात्रकेण यदि ददाति तदा विपरिणतेऽप्काये आत्मार्थिते च सति कल्पते । यदि तु सस्निग्धमुदकार्द्रं वा दायकस्य पाणितलं भवति ततः प्रतिकुष्टा सा भिक्षा, न कल्पत इत्यर्थः ॥ अथ कल्पस्थिकाद्वारं व्याख्याति
[भा. १८४८ ] तरुणीउ पिंडियाओ, कंदप्पा जइ करे पुरेकम्मं । पढम-विइयासु मोत्तुं, सेसे आवज चउलहुगा ।।
वृ- काश्चित् 'तरुण्यः' युवतयः 'पिण्डिताः' एकत्र मिलिताः साधुं समायान्तं दृष्ट्वा परस्परं जल्पन्ति-‘एतेषां तावदेतदर्थं धौतेन हस्तेन मात्रकेण वा दीयमानंन कल्पते, अतः पश्यामस्तवदेनम्, अस्माभि स्वलीकृतः किमेष करोति ? ' इत्येकया तासं मध्यादुत्थाय पुरः कर्म कृतम्, ततः साधुः प्रतिनिवर्त्तितुं लग्नः; द्वितीयाब्रवीति-प्रतीक्षस्व भगवन् ! अहं ते दास्यामि; ततो भूयोऽप्यागतस्य तस्य तयाऽपि पुरः कर्म कृतम्; ततः प्रतिनिवर्त्तमानं यदि तृतीया काचिदाकारयति तदा ज्ञातव्यम्, यथा-एता मां खलीकुर्वन्ति; अतो न प्रतिनिवर्त्तितव्यम् । अत एवाह-यदि ताः कन्दर्पात् पुरः कर्म कुर्वीरन् ततः प्रथम-द्वितीये तरुण्यौ मुक्त्वा शेषाभिराकारितः प्रतिनिवर्त्तमान आपद्यते चतुर्लघुकम् ॥ अथवारणललिताशनिकद्वारं व्याचष्टे
[ भा. १८४९ ] पुरकम्मम्मि कयम्मी, जइ भन्नि मा तुमं इमा देउ । संकापदं व होज्जा, ललितासणिओ व सुव्वत्तं ॥
वृ- पुरः कर्मणि कृते यदि साधुना दात्री भण्यते 'मा दास्त्वम् इयं ददातु ' ततः सा चिन्तयतिअहं विरूपा वृद्धा वा अतो नास्मै प्रतिभामि, इयं तु सुरूपा यौवनमधिरूढा प्रतिभासते । शङ्क्रापदं वा तस्याश्चेतसि भवेत् किमेष एतया सह घटितो यदेवमस्याः पाश्र्वाद् भिक्षां ग्रहीतुमिच्छति ? यदि वा ब्रूयात्-भवान् सुव्यक्तं ललिताशनिको लक्ष्यते यदेवं यथाभिलषितां परिवेषिकामभिकाङ्खसि ॥ अथ गत्वेतिद्वारं व्याख्यानयति
[ भा. १८५० ]
तूणपडिनियत्तो, सो वा अन्नो व से तयं देइ । अन्नरस व दिजिहिई, परिहरियव्वं पयत्तेणं ॥
वृ-कृतपुरःकर्मा दायको भिक्षां ददानः साधुना प्रतिषिद्धश्चिन्तयति- 'यदेष साधुरस्यां गृहपङ्क्तौ गत्वा प्रतिनिवृत्तः समायास्यति तदा दास्यामि' इति तद् द्रव्यं स वा अन्यो वा दायकः “से” तस्या साधोर्ददाति तदा न कल्पते । अथ यद्येष न गृह्णाति ततः 'अन्यस्य' साधोर्दास्यते इति सङ्क्रल्पयति ततस्तेनापि परिहर्त्तव्यं तद् भक्तं प्रयलेन । एषा निर्युक्तिगाथा ।।
अस्या एव भाष्यकारो व्याख्यानमाह
[भा. १८५१] पुरकम्मम्मि कयम्मी, पडिसिद्धो जइ भणिज अन्नस्स ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org