SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं- ६, [ भा. १८४१ ] के पुनस्तेऽष्टौ भेदाः ? उच्यन्ते [ भा. १८४२ ] एगस्स बीयगहणे १, पसजणा तत्थ होइ २ कब्बट्ठी ३ । वारण ललियासणिओ ४, गंतूणं ५ कम्म ६ हत्थ ७ उप्फोसे ८ ॥ वृ- ‘“एगस्से’ति विभक्तिव्यत्ययादेकेन पुरःकर्मणि कृते यदि द्वितीयो ददाति तदा तस्य द्वितीयस्य हस्ताद् ग्रहणे विधिर्वक्तव्यः १ । तथा "पसजण "त्ति अगीतार्थभिप्रायेण "तत्थ" त्ति 'तत्र' द्वितीयेऽपि दायके 'प्रसजना' प्रसङ्गदोषो भवतीति वक्तव्यम् २ । “कप्पट्ठि "त्ति ‘कल्पस्थिकाः’ तरुणस्त्रियः केलिप्रियतया अभीक्ष्णं पुरः कर्म यथा कुर्वन्ति तथा निरूपणीयम् ३।‘“वारण ललियासणिओ’'त्ति यदि साधुः 'त्वं मा देहि एषा दास्यति' इत्यविधिना पुरः कर्मकारिणीं वारयति तदा ललिताशनिक इति तया यथा गण्यते तथा वक्तव्यम् ४ । “गंतूणं” ति 'गत्वा प्रतिनिवृत्तायास्मै दास्यामि' इति बुध्या यदि दाता हस्तगृहीतया भिक्षया तिष्ठति तदा न कल्पते इति वाच्यम् ५। “कम्मे”त्ति द्रव्यभावभेदभिन्नं पुरः कर्म यथा भवति तथा दर्शनीयम् ६ । “हत्थ” त्ति तत्र पुर- कर्मणि किं हस्ते उपघातः ? उत मात्रके ? इत्यादि चिन्तनीयम् ७ । “उप्फोसे "त्ति उत्स्पर्शनं-छन्दनं तद् वस्त्रविषयं वक्तव्यम् इति द्वारगाथासमासार्थः । अथ विस्तरार्थमभिधित्सुराह[भा. १८४३ ] एगेन समारद्धे, अन्नो पुन जो तहिं सयं देइ । जयऽ जागा भवंती, परिहरियव्वं पयत्तेण ॥ वृ- 'एकेन' दायकेन पुर- कर्मणि समारब्धे साधुना प्रतिषिद्धे तद् द्रव्यं यद्यन्यः स्वयमेव कश्चिद् ददाति तदा ते साधवो यदि 'अज्ञाः' अगीतार्था अगीतार्थमिश्रावा भवन्ति ततः परिहर्त्तव्यं प्रयत्नेन ॥ इदमेव व्यतिरेकेणाह [भा. १८४४ ] समणेहिं अभणतो, गिरिभणिओ अप्पणी व छंदेणं । •मोत्तु अजाणग मीसे, गिण्हंति उ जाणगा साहू ।। वृ- पुरःकर्मकारिणि प्रतिषिद्धे 'श्रमणैः साधुभिरभण्यमानो यद्यन्यो दाता गृहिणा केनापि भणित आत्मनो वा 'छन्देन' अभिप्रायेण ददाति तदा मुक्त्वा 'अज्ञान्' अमीतार्थान् 'मिश्राँश्च' अगीतार्थमिश्रान् 'ज्ञायकाः ' गीतार्थास्तद् द्रव्यमात्मार्थितं गृह्णन्ति ॥ अथ किमर्थमगीतार्थेषु न गृह्यते ? इति सम्बन्धायातं प्रसजनाद्वारं विवृण्वन् तावद - गीतार्थाभिप्रायमाह ४६७ [भा. १८४५ ] अम्हट्ठसमारद्धे, तद्दव्वऽन्नेन किह नु निद्दोसं । सविसन्नाहरणेणं, मुज्झइ एवं अजाणतो ॥ वृ- अस्माकमर्थायाप्काये समारब्धे सति दायकेन यद् द्रव्यं गृहीतं तद् अन्येन दीयमानं कथं नु निर्दोषम् ? सदोषमेवेति भावः । कुतः ? इत्याह- 'सविषान्नाहरणेन' सविषं यद् अन्नं तद्द टान्तेन । यथा हि वैरिणोऽर्थाय केनचिद् विषयुक्तं भक्तं कृतं तद् अन्येन दीयमानं किं सदोषं न भवति ? एवमस्मदर्थमुदकस्यारम्भं कृत्वा या भिक्षा गृहीता तां यद्यन्यो ददाति तदा किं दोषो न प्रसजति ? इति । एवमजानन्नगीतार्थो मुह्यति, न पुनर्भायति, यथा- तद् अन्येन दीयमानं पुरः कर्मैव न भवति । यतएवमतोऽ गीतार्थेषु मिश्रेषु वा परिहर्त्तव्यम् ।। गीतार्थेषु विधिमाहएगेन समारद्धे, अन्नो पुन जो तहिं सयं देइ । [भा. १८४६ ] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy