________________
४६६
बृहत्कल्प-छेदसूत्रम् -१-१/६ परिस्फुटम् 'अज्ञाः' मूर्खा, अतत्त्ववेदित्वात्। स्वच्छन्दप्ररूपणानिष्पन्नंचामीषांचतुर्गुरुप्रायश्चित्तम्।। तत्र ये सर्वानपि साधून परिहारं कारयन्ति ते स्वपक्षसाधनसमर्थं विधिमाहु:[भा.१८३८] अद्धाणनिग्गयाई, उब्मामग खमगअक्खरे रिक्खा।
मग्गण कहण परंपर, सुव्वत्तमजाणगा ते वि॥ वृ-यत्र गृहे पुःकर्मकृतंतत्राध्वनिर्गतादयः उद्रामका वा बहिामे भिक्षाटनशीलाः 'अजानन्तो माप्रविक्षन्' इति कृत्वा क्षपकस्तत्रस्थाप्यते।अथ नास्तिक्षपकस्ततः कुड्यादावक्षराणि लिख्यन्ते, यथा-अत्र पुरःकर्म कृतम्, न केनापि भिक्षा ग्राह्येति । अथ तावक्षराणि लिखितुं न जानीतस्ततो रेखा कर्तव्या । अथ कृताऽपि सा केनापि भज्येत ततोऽपरेषां साधूनां मार्गणं कृत्वा मिलितानां कथनीयम्-अमुष्मिन् गृहे पुरःकर्म कृतम् । तेऽपि परम्परया सर्वसाधून ज्ञापयन्ति । इत्थं ये ब्रुवते सुव्यक्तं तेऽप्यज्ञा मन्तव्याः॥
अथैतदेव भावयति[भा.१८३९] उभामग-ऽनुब्भामग-सगच्छ-परगच्छजाणणट्ठाए।
अच्छइ तहयं खमओ, तस्सऽसइ स एव संघाडो॥ वृ-उद्भ्रामकाणां-बाह्यग्रामे भिक्षाटनंविधायापयप्तेि भिक्षामटताम् अनुभद्रामकाणां-मौलग्रामे भिक्षापरिभ्रमणशीलानां स्वगच्छीयानां परगच्छीयानां च सर्वेषां ज्ञापनार्थं क्षपकस्तत्र गृहे निषन्नस्तिष्ठति । स च यो यः सङ्घाटकस्तत्रागच्छति तस्य तस्य कथयति-अत्र पुरःकर्म कृतं वर्तते।अथ नास्तिक्षपकः पारणकं वा तस्य तद्दिने ततो यदर्थं पुरःकर्म कृतं स एव सङ्घाटकस्तत्र तिष्ठति।। [भा.१८४०] जइ एगस्स वि दोसा, अक्खर न उताइँ सव्वतो रिक्खा।
जइ फुसण संकदोसा, हिंडता चेव साहति ॥ वृ-अथ तयोरेकः प्रथम-द्वितीयपरीषहपीडितो न शक्नोति स्थातुम् ततः स प्रतिश्रयं व्रजति द्वितीयस्तु तत्रास्ते । अथैकस्य तस्य तिष्ठतः स्त्रीसमुत्थादयो दोषाः ततः कुड्यादिषु पुरःकर्मकरणसूचकान्यक्षराणि लिख्यन्ते । अथ 'न तु नैव 'तानि' अक्षराणि सर्वेऽपि लिखितुं जानते ततः साधुजनसातिकी रेखा करणीया । यदि तस्याः ‘स्पर्शना' पादोघातेन मर्दना तदिषया आशङ्कादोषा भवेयुः, बहुवचननिर्देशादन्योऽपि रेखांकरोतीत्याद्याशङ्कापरिग्रहः, ततस्तावेव साधूभिक्षामटन्तावपरेषांसाधूनांकथयतः, तेऽपिहिण्डमाना एवपरम्परयासर्वसाधूनां कथयन्ति । इत्थं येषां परिहरणविधिस्ते सुव्यक्तमज्ञा मन्तव्याः ।।
उपसंहरनाह[भा.१८४१] एसा अविही भणिया, सत्तिहा खलु इमा विही होइ ।
तत्थाई चरिमदुए, अत्तट्ठियमाइ गीयस्स ।। वृ-एषा अविधिपरिहरणा सप्तविधा भणिता। 'इयं तु वक्ष्यमाणा विधिपरिहरणा भवति । सा चाष्टविधा । 'तत्र' अष्टानां भङ्गानां मध्याद् यदाद्यं पदं यच्च चरमम्-अन्तिमं प्रकारद्वयं तेषु त्रिषुभेदेषुआत्मार्थिते आदिशब्दात् सङ्क्रामिते चसति गीतार्थस्य ग्रहणंभवति। एतच्च यथास्थानं भावयिष्यते॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org