________________
उद्देशक : १, मूलं -६, [भा. १९१३]
४८३
गीतार्थं मुक्त्वा अगीतार्थेन कारयति चत्वारो मासा अनुद्धाताः । कुशलं विहायाकुशलेन कारयति चत्वारोऽनुद्धा मासाः । यत एवमतः कुशलेन चिकित्साकरणमनुज्ञातम् ॥ अथ वैद्यसमीपं गच्छतां विधिमभिधित्सुराह
[भा. १९१४] चोयगपुच्छा गमने, पमाण उवगरण सउण वावारे । संगारो य गिहीणं, उवएसो चेव तुलना य ॥
वृ-प्रथमतो नोदकपृच्छा वक्तव्या, ततो गमनं वैद्यसकाशे साधूनाम्, ततस्तेषामेव प्रमाणम्, तत उपकरणम्, ततः शकुनाः, तदननत्रं वैद्यस्य 'व्यापारः' प्रशस्ता ऽप्रशस्तरूपः, ततः ‘सङ्गारः ’ सङ्क्रतो गृहिणां पश्चात्कृतादीनां यथा कर्त्तव्यः, ततो वैद्येनौपधादिविषय उपदेशो यथा दीयते, ततस्तमुपदेशं श्रुत्वा यथा स्वयं तुलना कर्त्तव्या, तदेतत् सर्वमपि वक्तव्यमिति द्वारगाथासमासार्थः ।
अथ विस्तरार्थः प्रतिपाद्यते-तत्र प्रथमं नोदकपृच्छाद्वारम्, शिष्यः पृच्छति किं ग्लानो वैद्यसमीपं नीयताम् ? अथ वैद्य एव ग्लानसकाशमानीयताम् ? अत्र कश्चिदाचार्यदेशीयः प्रतिवचनमाह[ भा. १९१५ ] पाहुडिय त्ति य एगो, नेयव्वो गिलाणओ उ विजघरं ।
एवं तत्थ भणंते, चाउम्मासा भवे गुरुगा ॥
वृ- 'एकः' कश्चित् प्राह-वैद्ये ग्लानान्तिकमानीयमाने 'प्राभृतिका' वक्ष्यमाणलक्षणा भवति, तोलान एव वैद्यगृह नेतव्यः । इत्थमाचार्यदेशीयेनोक्ते सूरिराह एवं 'तत्र' ग्लाननयनविषये भणतो भवतश्चत्वारो मासा गुरुका भवन्ति ॥
केयं पुनः प्राभृतिका ? इत्यत आह
[ भा. १९१६ ] रह-हत्थि जान-तुरएअनुरंगाईहि इंति कायवहो । आसन मट्टिय उदए, कुरुकुय सघरे उ परजोगो ॥
वृ-रथ- हस्तिनौ-प्रतीतौ यानं-शिबिकादिकं तुरगः-प्रसिद्धः अनुरङ्गा- गन्त्री एतैः आदिशब्दादपरेण वा विच्छर्देन ‘आयाति’ आगच्छति वैद्ये कायानां पृथिव्यादीनां वधो भवति । तथा समायातस्यासनं दातव्यम् । ग्लानस्य च शरीरे परामृष्टे व्रणादिपाटने वा कृते कुरुकुचाकारापणे मृत्तिकाया उदकस्य च वधो भवति । तथा समायातस्यासनं दातव्यम् । ग्लानस्य च शरीरे परामृष्टे व्रणादिपाटने वा कृते कुरुकुचाकारापणे मृत्तिकाया उदकस्य च वधो भवति । स्वगृहे तु परयोगो भवति, परप्रयोगेण सर्वमपि भवति न साधूनां किमप्यधिकरणं भवतीत्यर्थः । एषा प्राभृतिका वैद्ये ग्लानसमीपमानीयमाने यतो भवति ॥
अतः किम् ? इत्याह[भा. १९१७]
लिंगत्थमाइयाणं, छण्हं वेज्राण गम्मऊ मूलं ।
संविग्गमसंविग्गे, उवस्सगं चेव आनेजा ॥
वृ-लिङ्गस्थादीनां षन्नामपि वैद्यानां गृहं ग्लानं गृहीत्वा गम्यताम् नैते उपशार्यमानेतव्याः, अधिकरणदोषभयात्। संविग्नोऽसंविग्नश्च एतौ द्वाप्युपाश्रयमेवानयेत्, दोषाभावात् ॥
एवं परेणोक्ते सूरिराह
[भा.१९१८] वाता-ऽऽतवपरितावण, मयपुच्छा सुत्र किं सुसानकुडी ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org