Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४६४
बृहत्कल्प-छेदसूत्रम् -१-१/६ अथवा “संकामिय" त्ति तदनेषणाकृतं द्रव्यं स दाताअन्यस्मै परिवेषयेत् स यदि दद्यात्तत एवं सङ्क्रामितंसत्कल्पते। एतच्च ग्रहणं गीतार्थस्यानुज्ञातम्, यतोगीतार्थस्तद्रव्यमित्थं गृह्णानोऽपि संविग्नो भवति॥
एतदेवान्त्यपदं भाष्यकारो भावयति[भा.१८२७] गीयत्थग्गहणेणं, अत्तट्ठियमाइ गिण्हई गीतो।
संविग्गग्हणेणं, तं गिण्हंतो वि संविग्गो।। वृ-गीतार्थग्रहणेन कृतेनैतद् ज्ञापितं यद् आत्मार्थितम्, आदिशब्दात् सङ्क्रामितं च तद् आगमप्रमाणतोगीतार्थएवगृह्णाति नागीतार्थः। संविग्नग्रहणेनतु तद्' आत्मार्थितादिगृह्णानोऽपि गीतार्थसंविग्नोभवतिनासंविग्न इत्युक्तं भवति । इत्थंपुनःपुरतः कृतमपिनपुरःकर्मभवतीति दर्शयति[भा.१८२८] पुरतो वि हुजं धोयं, अत्तहाए न तं पुरेकम्मं ।
तं उदउल्लं ससिणिद्धगं व सुक्खेतहिं गहणं ॥ वृ-यत् 'पुरतोऽपि' साधोरगतोऽप्यात्मार्थं धौतं तत् पुरःकर्म न भवति, किन्तु तद् उदका सस्निग्धं वा मन्तव्यम् । 'उदकाई' बिन्दुसहितम्, 'सस्निग्धं' बिन्दुरहितम् । तस्मिन्नुभयेऽपि 'शुष्के' परिणते ग्रहणं कर्त्तव्यम् ।
पुरःकर्मोदकायोर्विशेषमाह[भा.१८२९] तुल्ले वि समारंभे, सुक्के गहणेक्क एक पडिसेहो।
अन्नत्थ छूढ ताविय, अत्तढे होइ खिप्पं तु। वृ-उदकार्द्र-पुरःकर्मणोस्तुल्येऽप्यप्कायसमारम्भे ‘एकस्मिन् उदकार्दै शुष्केसतिग्रहणं भवति 'एकस्मिन्' पुरःकर्मणि पुनः शुष्केऽप्यनात्मार्थिते ग्रहणस्य प्रतिषेधः । तथाहि-संयतार्थं द्वाभ्यां पृथक्पृथक्पङ्क्तौ पुरःकर्म कृतम्, तच्च परिणतम् उदकार्द्र-सस्निग्धौ न स्तः, परं येनात्मार्थितं तस्य हस्तात् कल्पते, येन तुनात्मार्थितंतस्य हस्ताद् न कल्पते । एवं चिरकालिकेपुरःकर्मण्युक्तम्। यत्रतुहस्तोमात्रकंवातत्क्षणमेव 'अन्यत्र तक्रादीप्राशुकद्रव्ये प्रक्षिप्तमग्निनावा तापितंतत्रात्मार्थिते क्षिप्रमपि ग्रहणं कर्त्तव्यम्॥
गतं कस्येति द्वारम् । अथारोपणाद्वारमाह[भा.१८३०] चाउम्मासुक्कोसे, मासिय मज्झे य पंचग जहन्ने ।
पुरकम्मे उदउल्ले, ससिणिद्धाऽऽरोवणा भणिया । उदकसमारम्भे पुर-कर्मोत्कृष्टमपराधपदम्, उदकाई मध्यमम्, सस्निग्धं जघन्यम् । उत्कृष्टे चत्वारोमासालघवः, मध्यमेलघुमासिकम्, जघन्येपञ्चरात्रिन्दिवानि।एवंपुरःकर्मोदकासस्निग्धेषु यथाक्रममारोपणा भणिता॥
अथ परिहरणाद्वारमाह[भा.१८३१] परिहरणा वि य दुविहा, विहि-अविहीए अहोइ नायव्वा ।
पढमिल्लुगस्स सव्वं, बिइयस्स य तम्मि गच्छम्मि । [भा.१८३२] तइयस्स जावजीवं, चउथस्स यतं न कप्पए दव्वं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532