Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 471
________________ ४६८ बृहत्कल्प-छेदसूत्रम् - १-१/६ जइ जाणगा उ साहू, परिभोत्तुं जे सुहं होइ ॥ वृ- एकेन पुर-कर्मणि समारब्धे यद्यन्यः स्वयं ददाति यदि च 'ज्ञायकाः' गीतार्था साधवस्ततः परिभोक्तुं "जे" इतिपादपूरणे सुखं भवति, परिभोक्तव्यं तदिति भावः ॥ अथवागीयत्थेसु वि भयणा, अन्नो अन्नं व तेण मत्तेणं । विप्परिणयम्मि कप्पर, ससिणिद्धदउल्ल पडिकुट्ठा ॥ [भा. १८४७ ] वृ-गीतार्थेष्वपि भजना कार्या । कथम् ? इत्याह- 'अन्यः' पुरुषोऽन्यद् वा तद् वा द्रव्यं 'तेन' पुरःकर्मकृतेन मात्रकेण यदि ददाति तदा विपरिणतेऽप्काये आत्मार्थिते च सति कल्पते । यदि तु सस्निग्धमुदकार्द्रं वा दायकस्य पाणितलं भवति ततः प्रतिकुष्टा सा भिक्षा, न कल्पत इत्यर्थः ॥ अथ कल्पस्थिकाद्वारं व्याख्याति [भा. १८४८ ] तरुणीउ पिंडियाओ, कंदप्पा जइ करे पुरेकम्मं । पढम-विइयासु मोत्तुं, सेसे आवज चउलहुगा ।। वृ- काश्चित् 'तरुण्यः' युवतयः 'पिण्डिताः' एकत्र मिलिताः साधुं समायान्तं दृष्ट्वा परस्परं जल्पन्ति-‘एतेषां तावदेतदर्थं धौतेन हस्तेन मात्रकेण वा दीयमानंन कल्पते, अतः पश्यामस्तवदेनम्, अस्माभि स्वलीकृतः किमेष करोति ? ' इत्येकया तासं मध्यादुत्थाय पुरः कर्म कृतम्, ततः साधुः प्रतिनिवर्त्तितुं लग्नः; द्वितीयाब्रवीति-प्रतीक्षस्व भगवन् ! अहं ते दास्यामि; ततो भूयोऽप्यागतस्य तस्य तयाऽपि पुरः कर्म कृतम्; ततः प्रतिनिवर्त्तमानं यदि तृतीया काचिदाकारयति तदा ज्ञातव्यम्, यथा-एता मां खलीकुर्वन्ति; अतो न प्रतिनिवर्त्तितव्यम् । अत एवाह-यदि ताः कन्दर्पात् पुरः कर्म कुर्वीरन् ततः प्रथम-द्वितीये तरुण्यौ मुक्त्वा शेषाभिराकारितः प्रतिनिवर्त्तमान आपद्यते चतुर्लघुकम् ॥ अथवारणललिताशनिकद्वारं व्याचष्टे [ भा. १८४९ ] पुरकम्मम्मि कयम्मी, जइ भन्नि मा तुमं इमा देउ । संकापदं व होज्जा, ललितासणिओ व सुव्वत्तं ॥ वृ- पुरः कर्मणि कृते यदि साधुना दात्री भण्यते 'मा दास्त्वम् इयं ददातु ' ततः सा चिन्तयतिअहं विरूपा वृद्धा वा अतो नास्मै प्रतिभामि, इयं तु सुरूपा यौवनमधिरूढा प्रतिभासते । शङ्क्रापदं वा तस्याश्चेतसि भवेत् किमेष एतया सह घटितो यदेवमस्याः पाश्र्वाद् भिक्षां ग्रहीतुमिच्छति ? यदि वा ब्रूयात्-भवान् सुव्यक्तं ललिताशनिको लक्ष्यते यदेवं यथाभिलषितां परिवेषिकामभिकाङ्खसि ॥ अथ गत्वेतिद्वारं व्याख्यानयति [ भा. १८५० ] तूणपडिनियत्तो, सो वा अन्नो व से तयं देइ । अन्नरस व दिजिहिई, परिहरियव्वं पयत्तेणं ॥ वृ-कृतपुरःकर्मा दायको भिक्षां ददानः साधुना प्रतिषिद्धश्चिन्तयति- 'यदेष साधुरस्यां गृहपङ्क्तौ गत्वा प्रतिनिवृत्तः समायास्यति तदा दास्यामि' इति तद् द्रव्यं स वा अन्यो वा दायकः “से” तस्या साधोर्ददाति तदा न कल्पते । अथ यद्येष न गृह्णाति ततः 'अन्यस्य' साधोर्दास्यते इति सङ्क्रल्पयति ततस्तेनापि परिहर्त्तव्यं तद् भक्तं प्रयलेन । एषा निर्युक्तिगाथा ।। अस्या एव भाष्यकारो व्याख्यानमाह [भा. १८५१] पुरकम्मम्मि कयम्मी, पडिसिद्धो जइ भणिज अन्नस्स । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532