Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 466
________________ उद्देशक ः १, मूलं-६, [भा. १८२२] ४६३ इत्यनेन चत्वारो भङ्गाः सूचिताः, एवमन्यः पुरुष इत्यनेनापि चत्वारो भङ्गाः सूच्यन्ते, एवमेत्ते अष्टौ भङ्गाः।। एनामेवाष्टभङ्गी स्पष्टयति[भा.१८२३]सो तं ताए १ अन्नाए बिइअओ २ अन्न तीए ३ दो वऽन्ने ४। एमेव य अन्नेन वि, भंगा खलु होति चत्तारि ।। वृ-सपुरुषस्तद्रव्यं तस्यां पङ्क्ताविति प्रथमः १। स पुरुषस्तद् द्रव्यमन्यस्यां पङ्क्ताविति द्वितीयः २ । स पुरुषोऽन्यद् द्रव्यं तस्यां पङ्क्ताविति तृतीयः ३ । स पुरुषोऽन्यद् द्रव्यमन्यस्यां पङ्क्ताविति चतुर्थ४, अत्र च 'वे अपि' द्रव्य-पङ्क्ती अन्ये इति । एवमेव चान्यपुरुषपदेनापि चत्वारोभङ्गाभवन्ति। तद्यथ-अन्यः पुरुषस्तद्रव्यं तस्यांपङक्तौ ५अन्यः पुरुषस्तद्रव्यमन्यस्यां पङक्तौ ६अन्यः पुरुषोऽन्यद् द्रव्यं तस्यां पङक्तौ ७ अन्यः पुरुषोऽन्यद् द्रव्यमन्यस्यां पङ्क्तौ ८॥ एतेषां मध्याद् येषु यथा कल्पते तदेतद् दर्शयति[भा.१८२४] कप्पइ समेसु तह सत्तमम्मि तइयम्मि छिन्नवावारे । अत्तट्टियम्मि दोसुं, सव्वत्थ य भयसु कर-मत्ते ।। वृ- ‘समेषु' द्वितीय-चतुर्थ-षष्ठा-ऽष्टमेषु भङ्गेषु ग्रहीतुं कल्पते । तथाहि-द्वितीये तावदन्यस्यां पङ्क्तौ सङ्क्रान्तत्वेन तद् द्रव्यमपि वक्ष्यमाणनीत्या चतुर्थे तु द्रव्यान्तरत्वेनान्यस्यां पङ्क्तौ दीयमानत्वेन चषष्ठेतुपुरुषान्तरेणापरस्यां पङ्क्तौतद्दरव्यं दीयतइति हेतोः अष्टमेतुतिसृणामपि पुरुष-द्रव्य-पङ्क्रतीनामन्यत्वेन परिस्फुटमेव कल्पत इति । तथा सप्तमेऽपि भङ्गे कल्पत एव, पुरुषान्तरेणान्यद्रव्यस्य दीयमानत्वात् । तृतीये तु च्छिन्नव्यापारे सति कल्पते, यः साधुदानार्थं हस्तमात्रकप्रक्षालनव्यापारः कृतः स यदा व्यापारान्तरेण च्छिन्नो भवति तदा तेनैव पुरुषेणान्यद् द्रव्यं तस्यांपङ्क्तौ दीयमानंकल्पतइति भावः । द्वयोः' प्रथम-पञ्चमयोर्यदि तद्रव्यं तेनात्मार्थितं भवति ततः कल्पते नान्यथा । 'सर्वत्र च' अष्टस्वपि भङ्गेषु कर-मात्रके 'भज' विकल्पय,यदि हस्तोवा मात्रकं वासस्निग्धमुदका वा न भवति ततः कल्पते अन्यथा तुनेत्येवं भजना कर्तव्येत्यर्थः ।। अथ किमर्थं पुरःकर्म करोति? इत्याह[भा.१८२५] अच्चुसिण चिक्कणे वा,कूरे धुविउं पुनो पुनो देइ । आयमिऊणं पुव्वं, दइज्ज-जइणं पढमयाए॥ वृ-परिवेषणंकुर्वतो यद्यत्युष्णश्चिक्कणो वाकूरस्ततएकत्रहस्तदाहभयादपरत्र हस्तेविलगनात् कुण्डकादिस्थितेनोदकेन स दाता पुनःपुनः 'धौत्वा' हस्तमार्दीकृत्य ‘ददाति' परिवेषयतीत्यर्थः, साधोरप्यागतस्य तथैव यदि भिक्षां ददाति तदा पुरःकर्म भवति । यदि वा पूर्वम् 'चम्य' हस्तं मात्रकंवा प्रक्षाल्य प्रथमत एव यतीनां दद्यात् ततोऽन्येभ्यः परिवेषयेत् तदाऽपि पुरःकर्म - भवति । एवं पुरःकर्मणि कृते यद् यत्र कल्पते तदेतद् नियुक्तिगाथया दर्शयति[भा.१८२६] दाऊण अन्नदव्वं, कोई दिज्जा पुनो वितंचेव । अत्तट्ठिय-संकामियगहणं गीयत्थसंविग्गे॥ वृत्तद्अनेषणाकृतंद्रव्यंमुक्त्वाअन्यस्यान्यद्रव्यं दत्त्वा परिवेष्यकश्चित् तदेव' अनेषणाकृतं द्रव्यं पुनरपि तस्यामन्यस्यां वा पङ्क्तौ साधूनां दद्यात्, एवं छिन्नव्यापारे आत्मार्थितं सत्कल्पते। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532