________________
उद्देशक ः १, मूलं-६, [भा. १८२२]
४६३ इत्यनेन चत्वारो भङ्गाः सूचिताः, एवमन्यः पुरुष इत्यनेनापि चत्वारो भङ्गाः सूच्यन्ते, एवमेत्ते अष्टौ भङ्गाः।।
एनामेवाष्टभङ्गी स्पष्टयति[भा.१८२३]सो तं ताए १ अन्नाए बिइअओ २ अन्न तीए ३ दो वऽन्ने ४।
एमेव य अन्नेन वि, भंगा खलु होति चत्तारि ।। वृ-सपुरुषस्तद्रव्यं तस्यां पङ्क्ताविति प्रथमः १। स पुरुषस्तद् द्रव्यमन्यस्यां पङ्क्ताविति द्वितीयः २ । स पुरुषोऽन्यद् द्रव्यं तस्यां पङ्क्ताविति तृतीयः ३ । स पुरुषोऽन्यद् द्रव्यमन्यस्यां पङ्क्ताविति चतुर्थ४, अत्र च 'वे अपि' द्रव्य-पङ्क्ती अन्ये इति । एवमेव चान्यपुरुषपदेनापि चत्वारोभङ्गाभवन्ति। तद्यथ-अन्यः पुरुषस्तद्रव्यं तस्यांपङक्तौ ५अन्यः पुरुषस्तद्रव्यमन्यस्यां पङक्तौ ६अन्यः पुरुषोऽन्यद् द्रव्यं तस्यां पङक्तौ ७ अन्यः पुरुषोऽन्यद् द्रव्यमन्यस्यां पङ्क्तौ ८॥ एतेषां मध्याद् येषु यथा कल्पते तदेतद् दर्शयति[भा.१८२४] कप्पइ समेसु तह सत्तमम्मि तइयम्मि छिन्नवावारे ।
अत्तट्टियम्मि दोसुं, सव्वत्थ य भयसु कर-मत्ते ।। वृ- ‘समेषु' द्वितीय-चतुर्थ-षष्ठा-ऽष्टमेषु भङ्गेषु ग्रहीतुं कल्पते । तथाहि-द्वितीये तावदन्यस्यां पङ्क्तौ सङ्क्रान्तत्वेन तद् द्रव्यमपि वक्ष्यमाणनीत्या चतुर्थे तु द्रव्यान्तरत्वेनान्यस्यां पङ्क्तौ दीयमानत्वेन चषष्ठेतुपुरुषान्तरेणापरस्यां पङ्क्तौतद्दरव्यं दीयतइति हेतोः अष्टमेतुतिसृणामपि पुरुष-द्रव्य-पङ्क्रतीनामन्यत्वेन परिस्फुटमेव कल्पत इति । तथा सप्तमेऽपि भङ्गे कल्पत एव, पुरुषान्तरेणान्यद्रव्यस्य दीयमानत्वात् । तृतीये तु च्छिन्नव्यापारे सति कल्पते, यः साधुदानार्थं हस्तमात्रकप्रक्षालनव्यापारः कृतः स यदा व्यापारान्तरेण च्छिन्नो भवति तदा तेनैव पुरुषेणान्यद् द्रव्यं तस्यांपङ्क्तौ दीयमानंकल्पतइति भावः । द्वयोः' प्रथम-पञ्चमयोर्यदि तद्रव्यं तेनात्मार्थितं भवति ततः कल्पते नान्यथा । 'सर्वत्र च' अष्टस्वपि भङ्गेषु कर-मात्रके 'भज' विकल्पय,यदि हस्तोवा मात्रकं वासस्निग्धमुदका वा न भवति ततः कल्पते अन्यथा तुनेत्येवं भजना कर्तव्येत्यर्थः ।। अथ किमर्थं पुरःकर्म करोति? इत्याह[भा.१८२५] अच्चुसिण चिक्कणे वा,कूरे धुविउं पुनो पुनो देइ ।
आयमिऊणं पुव्वं, दइज्ज-जइणं पढमयाए॥ वृ-परिवेषणंकुर्वतो यद्यत्युष्णश्चिक्कणो वाकूरस्ततएकत्रहस्तदाहभयादपरत्र हस्तेविलगनात् कुण्डकादिस्थितेनोदकेन स दाता पुनःपुनः 'धौत्वा' हस्तमार्दीकृत्य ‘ददाति' परिवेषयतीत्यर्थः, साधोरप्यागतस्य तथैव यदि भिक्षां ददाति तदा पुरःकर्म भवति । यदि वा पूर्वम् 'चम्य' हस्तं मात्रकंवा प्रक्षाल्य प्रथमत एव यतीनां दद्यात् ततोऽन्येभ्यः परिवेषयेत् तदाऽपि पुरःकर्म - भवति । एवं पुरःकर्मणि कृते यद् यत्र कल्पते तदेतद् नियुक्तिगाथया दर्शयति[भा.१८२६] दाऊण अन्नदव्वं, कोई दिज्जा पुनो वितंचेव ।
अत्तट्ठिय-संकामियगहणं गीयत्थसंविग्गे॥ वृत्तद्अनेषणाकृतंद्रव्यंमुक्त्वाअन्यस्यान्यद्रव्यं दत्त्वा परिवेष्यकश्चित् तदेव' अनेषणाकृतं द्रव्यं पुनरपि तस्यामन्यस्यां वा पङ्क्तौ साधूनां दद्यात्, एवं छिन्नव्यापारे आत्मार्थितं सत्कल्पते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org