________________
४६२
बृहत्कल्प-छेदसूत्रम् - १-१/६
हंदि हु बहूणि पुरतो, कीरंति कयाणि पुब्वं च ॥
वृ- ' एवं ' द्विधाऽपि समासे क्रियमाणे प्राशुकमप्राशुकं वा 'न विद्यते' न ज्ञायते, सर्वस्या अप्युत्थान-गमनादिचेष्टायाः पुर- कर्मत्वप्राप्तेः । अज्ञायमाने च प्राशुका- ऽप्राशुकविभागे शोधिरपि काचिन्नास्ति 'ते' तवाभिप्रायेण, तस्याश्चाभावे चारित्रस्याप्यभाव इति भावः । 'हन्दि' इत्युपप्रदर्शने । 'हुः' इत्यामन्त्रणे । ततश्चैवम्-हे आचार्या ! बहूनि पुरतः क्रियन्ते बहूनि च दायकेन पूर्वं कृतानि तानि सर्वाण्यपि पुरः कर्म प्राप्नुवन्ति ॥
अत्र सूरि प्रतिवचनमाह
[ भा. १८१९ ] कामं खलु पुरसद्दो, पच्चक्ख-परोक्खतो दुहा होइ । तह वि य न पुरेकम्मं, पुरकम्मं चोदग ! इमं तु ॥
वृ- 'कामम्' अनुमतं खलुशब्दोऽवधारणे अनुमतमेवास्माकं यत् पुरः शब्दः प्रत्यक्ष-परोक्षयोर्द्विधा भवति-यदा ‘पुरः-अग्रतः कर्म पुरः कर्म' इति व्युत्पत्तिराश्रीयते तदा प्रत्यक्षार्थवाचकः पुरः शब्दः, यदा तु 'पुरः- पूर्वं कर्म पुरः कर्म' तदा परोक्षार्थवाचकः । एवं पुरः शब्दस्यप्रत्यक्ष-परोक्षार्थवाचकतया यद्यप्युत्थानादीनि पुरः कर्म प्राप्नुवन्ति तथापि तानि पुरः कर्म न भवति, किन्तु पुरःकर्म हे नोदक ! 'इदं' वक्ष्यमाणं भवति ॥
तदेवाह[ भा. १८२० ]
हत्थं वा मत्तं वा, पुव्विं सीतोदएण जं धोवे।
समणट्ठाए दाया, पुरकम्मं तं विजाणाहि ।।
वृ- हस्तंवा मात्रकं वा 'पूर्व' भिक्षादानात् प्रथमं 'शीतोदकेन' सच्चित्तजलेन यद् दाता श्रमणार्थ 'धावति' प्रक्षालयति तत् पुरः कर्म विजानीहि न शेषमुत्थान- गमनादिकम्, तथासमयपरिभाषया रूढत्वात् ॥
गतं किमिति द्वारम् । अथ कस्येति द्वारस्य प्ररूपणामाह
[ भा. १८२१ ] कस्स त्ति पुरेकम्मं, जइणो तं पुन पभू सयं कुज्जा । अहवा पभुसंदिट्ठो, सो पुन सुहि पेस बंधू वा ॥
वृ- कस्य पुनः पुरः कर्म भवति ? इति पृच्छायां निर्वचनं 'यतेः' तत्परिहारिणः साधोः पुरः कर्म मन्तव्यम्, तदितरेषां दोषत्वेनानभ्युपगमात् । 'तत् पुनः' पुरः कर्म ' प्रभुः' गृहस्वामी स्वयमेव कुर्यात्, अथवा 'प्रभुसन्दिष्टः ' प्रभुणा आदिष्टः । ' स पुनः' प्रभुसन्दिष्टस्त्रिधा, तद्यथा - 'सुहृद् ' मित्रम्, 'प्रेष्यः' दासी- दासादि, 'बन्धुः ' माता-भगिन्यादि ॥
अथ पुरः कर्मणः सम्भवमाह
[भा. १८२२ ]
दमए पमाणपुरिसे, जाए पंतीए तान मोत्तूणं । सो पुरिसो तं वऽन्नं तं दव्वं अन्नो अन्नं वा ॥
वृ-सङ्खड्यां पङ्क्तिपरिवेषणे नियुक्तः कोऽपि 'द्रमकः' कर्मकरः, एतेन प्रभुसन्दिष्टग्रहणम्; 'प्रमाणपुरुषो वा' देयद्रव्यस्वामी, अनेन च प्रभुग्रहणम्ः ततश्च दाता प्रभुर्वा प्रभुसन्दिष्टो वा यस्यां पङ्क्तौ पुरःकर्म कृतवान् तां मुक्त्वा यद्यन्यां पङ्क्ति सङ्क्रामति तदा यदि परिणतहस्तस्ततः कल्पते । अत्र चाष्टौ भङ्गा भवन्ति स पुरुषस्तां पङ्क्रिमन्यां वा प ितद् द्रव्यमन्यद् द्रव्यं वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org