________________
उद्देशक : १, मूलं- ६, [भा. १८१३]
'कुर्म' करिष्याम इति ॥ "अद्धाणनिग्गयादी' इति पदं व्याख्यानयति[ भा. १८१४ ]
अद्धाणनिग्गयादी, थाणुप्पाइयमहं व सोऊण । गेलन - सत्थवसगा, महाणदी तत्तिया वा वि ॥
वृ- अध्वनिर्गताः-अध्वानमतिलङ्घय सहसैव तत्र प्राप्ताः, आदिशब्दादन्यदप्येवंविधं कारणं गृह्यते । स्थानीत्पातिकमहो नाम-तत्रापूर्व कोऽप्युत्सवविशेषः सहसैव श्राद्धैः कर्तुमारब्धः तं वा श्रुत्वा । यदि वा ये क्षेत्रं प्रत्युपेक्षितुं प्रेष्यनते ते तदानीं ग्लाना - ऽग्लानप्रतिचरणव्यापृता वा । अथवा सार्थवशगाः ते तत्र सार्थमन्तरेण गंतुं न शक्यते । महानदी वा काचिदपान्तराले तामभीक्ष्णमुत्तरतां बहवो दोषाः । तावन्मात्रा एव वा ते साधवो यावतां मध्यादेकस्याप्यन्यत्र प्रेषणं न संगच्छते । अत एतैः कारणैरप्रत्युपेक्षितेऽपि प्रविशतां न कश्चिद् दोषः ॥
४६१
अत्र यतनामाह
[ भा. १८१५] समणुन्नाऽ सइ अन्ने, वि पुच्छिउं दानमाइ वजिंति । दव्वाई पेहंता, जइ लग्गंती तह वि सुद्धा ॥
वृ- यदि 'समनोज्ञाः ' साम्भोगिकाः पूर्वप्रविष्टाः सन्ति ततस्तैः सह भिक्षामरन्ति । अथ न सन्ति समनोज्ञास्ततः ‘अन्यानपि' अन्यसाम्भोगिकानपि पृष्टवा दानश्राद्धकुलानि वर्जयन्ति, तेष्वाधाकर्मादिदोषसम्भवात्। शेषेषु कुलेषु पर्यटन्तः “दव्वादी पेहंत "त्ति द्रव्यतः क्षेत्रतः कालतो भावतश्च शुद्धमन्वेषयन्तो यद्यपि कमपि स्थापनादिकं दोषं 'लगन्ति' प्राप्नुवन्ति तथापि शुद्धाः, क्षपकवदशठपरिणामतया श्रुतज्ञानोपयोगप्रवृत्तत्वादिति ।
गतं 'परिहरणा अनुयाने' इति द्वारम् । अथ पुरः कर्मद्वारमाह
[भा. १८१६] पुरकम्मम्मि य पुच्छा, किं कस्साऽऽरोवणा य परिहरणा । एएसिं तु पयाणं, पत्तेयपरूवणं वोच्छं ।।
वृ- पुरः कर्मणि पृच्छा कर्त्तव्या । तद्यथा- किं पुरःकर्म ? कस्य वा पुरःकर्म ? का वा पुरः कर्मण्यारोपणा? कथं पुरः कर्मणः परिहरणं क्रियते ? एतेषां चतुर्णामपि पदानां प्रत्येकमहं प्ररूपणां वक्ष्ये ॥
तत्र किमिति द्वारस्य प्ररूपणां चिकीर्षु प्रेर्यमुत्थापयन्नाह [भा. १८१७]
जइ जं पुरतो कीरइ, एवं उट्ठाण -गमनमादीनि ।
होंति पुरेकम्मं ते, एमेव य पुव्वकम्मे वि ॥
वृ-परः प्राह-यदि साधोर्भिक्षार्थिनो गृहाङ्गणमागतस्य यत् 'पुरतः' अग्रतः क्रियते तत् पुरः कर्मेति व्यवह्रियते, एवं 'ते' तव यानि दायकस्योत्थान- गमनादीनि कर्माणि साधोरग्रतः क्रियमाणानि तानि सर्वाण्यपि पुरः कर्म भवति । अथ पूर्वार्थवाचकः पुरः शब्द इहाधिक्रियते तत आह-एवमेव च पूर्वकर्मण्यपि द्रष्टव्यम् । किमुक्तं भवति ? - 'पुरः साधोरागमनात् पूर्वं कर्म पुरः कर्म' इत्यस्यामपि व्युत्पत्तौ यान्युत्थानादीनि पूर्वं कृतानि तानि पुरः कर्म प्राप्नुवन्ति ॥
यदि नामैवं ततः का नो हानि ? इति चेद् उच्यते
[ भा. १८१८ ] एवं फासुमफासुं, न विज्जए न वि य काइ सोही ते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org