Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४५०
बृहत्कल्प-छेदसूत्रम् -१-१/६ वृ-'स्नानं'इह वर्षान्तः प्रतिनियतदिवसभावी भगवत्प्रतिमयाः स्नात्रपर्वविशेषः, अनुयानंरथयात्रा, आदिशब्दात् कुल-गण-सङ्घकार्यपरिग्रहः, तेषु स्नाना-ऽनुयानादिषु सङ्घमीलकेषु साम्प्रतमपि शतशः' शतसङ्ख्याः 'सहम्नः' सहस्रसझ्याःसाधवः समवसृताः सन्तोयथा 'यतन्ते' आधाकर्मादिदोषशोधनायांप्रयत्नं कुर्वते तथा जिनकालेऽपिते भगवन्तः 'शोधितवन्तः एषणाशुद्धिं कृतवन्त इत्यर्थः ॥ , ___ भूयोऽपिपरः प्राह-ननुच 'सरइवसागरः,खद्योत इवप्रद्योतनः, मृगइव मृगेन्द्रः' इत्यादिवदैदंयुगीनसमवसरणसत्कमेषणाशुध्धुपमानं तीर्थकरकालभाविनीमेषणा-शुद्धिमुपमातुमभिधीयमानं हीनत्वान्न समीचीनम्, अत आह[भा.१७७०] पच्चक्खेण परोक्खं, साहिजइ नेव एस हीनुवमा।
जं पुरिसजुगे तइए, वोच्छिन्नो सिद्धिमग्गो उ ।। वृ-इह 'प्रत्यक्षेण' उपमानवस्तुना परोक्षम्' उपमेयं वस्तु साक्षादनुपलभ्यमानमपि साध्यते इति शास्त्रे लोके च स्थिति । तथाहि-खुर-ककुद-लाङ्गूल-सास्नाद्यवयवोपलक्षितमध्यक्षवीक्षितं गवादि वस्तु दृष्टान्ततयोपदर्श्य गवयादिकं परोक्षमपि प्रतीतिपथमारोप्यते । एवमत्रापि प्रत्यक्षवीक्ष्यमाणेन साम्प्रतकालीनसमवसरणसत्केनैषणाशोधनेन परोक्षमपि तीर्थकरकालभाविसमवसरणसाधूनामेषणाशोधनं साध्यते इति “नेवएस हीनुवम"त्ति न चेयंसर इव सागर इत्यादिवद् हीनोपमा, तीर्थकरकालेऽपि हि सहसङ्ख्या एव साधव एकत्र क्षेत्रे समवसरन्ति स्म, एतावन्तश्चतेसाम्प्रतमपि स्नाना-ऽनुयानादौ पर्वणिसमवसरन्त उपलभ्यन्ते शोधयन्तश्चैषणाम्, ततोऽनुमीयते तीर्थकरकालेऽप्येवमेव दोषान् शोधितवन्त इति । अपि च श्रीमन्महावीरस्वामी १ श्रीसुधर्मस्वामी २ जम्बूस्वामी ३ चेति त्रीणि पुरुषयुगानि यावदनगाराणां निर्वाणपदवीगमनमभवत् । तृतीयेचपुरुषयुगे निरवृतेसति सिद्धिमार्ग' क्षपकश्रेणि-केवलोत्पत्त्यादिरूपो व्यवच्छिन्नः, न पुनर्ज्ञान-दर्शन-चारित्ररूपः शास्त्रपरिभाषितः, तस्येदानीमप्यनुवर्तमानत्वात् । ततश्च यदितेषांसाधूनामुद्गमादिदोषशोधनं नाभविष्यत ततस्ते सिद्धिमार्गमपि नासादयिष्यन्। अतो निश्चीयते-तेऽपि भगवन्त इत्यमेवैषणाशुद्धिं कृतवन्त इति ॥
अथानुयानविषयो विधिरुच्यते[भा.१७७१] आणाइणो य दोसा, विराहणा होइ संजमा-ऽऽयाए।
एवंता वच्चंते, दोसा ते अनेगविहा ।। वृ-निष्कारणे अनुयानं गच्छत आज्ञादयश्च दोषाः, विराधना च संयमा-ऽऽत्मनोभवति । एवं तावद् व्रजतो मार्गे दोषाः । तत्र प्राप्तानां पुनरनेकविधा दोषाः ।। तत्र संयमा-ऽऽत्मविराधनां भावयति[भा.१७७२] महिमाउस्सुयभूए, रीयादी न विसोहए।
तत्थ आया य काया य, न सुत्तं नेव पेहणा॥ वृ- महिमा नाम-भगवत्प्रतिमायाः पुष्पारोपणादिपूजात्मकः सातिशय उत्सवस्तस्या दर्शनार्थमुत्सुकभूत ईर्यादिसमितीर्न विशोधयति, आदिशब्दादेषणादिपरिग्रहः । 'तत्र च' ईर्यादीनामशोधने आत्मा च कायाश्च विराध्यन्ते । आत्मविराधना कण्टक-स्थाण्वाद्युपधातेन,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532