SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ ४५० बृहत्कल्प-छेदसूत्रम् -१-१/६ वृ-'स्नानं'इह वर्षान्तः प्रतिनियतदिवसभावी भगवत्प्रतिमयाः स्नात्रपर्वविशेषः, अनुयानंरथयात्रा, आदिशब्दात् कुल-गण-सङ्घकार्यपरिग्रहः, तेषु स्नाना-ऽनुयानादिषु सङ्घमीलकेषु साम्प्रतमपि शतशः' शतसङ्ख्याः 'सहम्नः' सहस्रसझ्याःसाधवः समवसृताः सन्तोयथा 'यतन्ते' आधाकर्मादिदोषशोधनायांप्रयत्नं कुर्वते तथा जिनकालेऽपिते भगवन्तः 'शोधितवन्तः एषणाशुद्धिं कृतवन्त इत्यर्थः ॥ , ___ भूयोऽपिपरः प्राह-ननुच 'सरइवसागरः,खद्योत इवप्रद्योतनः, मृगइव मृगेन्द्रः' इत्यादिवदैदंयुगीनसमवसरणसत्कमेषणाशुध्धुपमानं तीर्थकरकालभाविनीमेषणा-शुद्धिमुपमातुमभिधीयमानं हीनत्वान्न समीचीनम्, अत आह[भा.१७७०] पच्चक्खेण परोक्खं, साहिजइ नेव एस हीनुवमा। जं पुरिसजुगे तइए, वोच्छिन्नो सिद्धिमग्गो उ ।। वृ-इह 'प्रत्यक्षेण' उपमानवस्तुना परोक्षम्' उपमेयं वस्तु साक्षादनुपलभ्यमानमपि साध्यते इति शास्त्रे लोके च स्थिति । तथाहि-खुर-ककुद-लाङ्गूल-सास्नाद्यवयवोपलक्षितमध्यक्षवीक्षितं गवादि वस्तु दृष्टान्ततयोपदर्श्य गवयादिकं परोक्षमपि प्रतीतिपथमारोप्यते । एवमत्रापि प्रत्यक्षवीक्ष्यमाणेन साम्प्रतकालीनसमवसरणसत्केनैषणाशोधनेन परोक्षमपि तीर्थकरकालभाविसमवसरणसाधूनामेषणाशोधनं साध्यते इति “नेवएस हीनुवम"त्ति न चेयंसर इव सागर इत्यादिवद् हीनोपमा, तीर्थकरकालेऽपि हि सहसङ्ख्या एव साधव एकत्र क्षेत्रे समवसरन्ति स्म, एतावन्तश्चतेसाम्प्रतमपि स्नाना-ऽनुयानादौ पर्वणिसमवसरन्त उपलभ्यन्ते शोधयन्तश्चैषणाम्, ततोऽनुमीयते तीर्थकरकालेऽप्येवमेव दोषान् शोधितवन्त इति । अपि च श्रीमन्महावीरस्वामी १ श्रीसुधर्मस्वामी २ जम्बूस्वामी ३ चेति त्रीणि पुरुषयुगानि यावदनगाराणां निर्वाणपदवीगमनमभवत् । तृतीयेचपुरुषयुगे निरवृतेसति सिद्धिमार्ग' क्षपकश्रेणि-केवलोत्पत्त्यादिरूपो व्यवच्छिन्नः, न पुनर्ज्ञान-दर्शन-चारित्ररूपः शास्त्रपरिभाषितः, तस्येदानीमप्यनुवर्तमानत्वात् । ततश्च यदितेषांसाधूनामुद्गमादिदोषशोधनं नाभविष्यत ततस्ते सिद्धिमार्गमपि नासादयिष्यन्। अतो निश्चीयते-तेऽपि भगवन्त इत्यमेवैषणाशुद्धिं कृतवन्त इति ॥ अथानुयानविषयो विधिरुच्यते[भा.१७७१] आणाइणो य दोसा, विराहणा होइ संजमा-ऽऽयाए। एवंता वच्चंते, दोसा ते अनेगविहा ।। वृ-निष्कारणे अनुयानं गच्छत आज्ञादयश्च दोषाः, विराधना च संयमा-ऽऽत्मनोभवति । एवं तावद् व्रजतो मार्गे दोषाः । तत्र प्राप्तानां पुनरनेकविधा दोषाः ।। तत्र संयमा-ऽऽत्मविराधनां भावयति[भा.१७७२] महिमाउस्सुयभूए, रीयादी न विसोहए। तत्थ आया य काया य, न सुत्तं नेव पेहणा॥ वृ- महिमा नाम-भगवत्प्रतिमायाः पुष्पारोपणादिपूजात्मकः सातिशय उत्सवस्तस्या दर्शनार्थमुत्सुकभूत ईर्यादिसमितीर्न विशोधयति, आदिशब्दादेषणादिपरिग्रहः । 'तत्र च' ईर्यादीनामशोधने आत्मा च कायाश्च विराध्यन्ते । आत्मविराधना कण्टक-स्थाण्वाद्युपधातेन, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy