________________
उद्देशक : १, मूलं -६, [भा. १७६५ ]
४४९
चाष्टमो भङ्गः शुद्धः, शेषास्तु सर्वेऽप्यशुद्धा इति । पात्रमप्युद्भिन्नं निष्कीर्णं चैवमेव वक्तव्यम् ।
तद्यथा - संयतार्थमुद्भिन्नं संयतार्थं चोत्कीर्णं १ संयतार्थमुद्भिन्नमात्मार्थमुत्कीर्णं २ आत्मार्थमुद्भिन्नं संयतार्थमुत्कीर्णं ३ आत्मार्थमुद्भिन्नम् आत्मार्थमेव चोत्कीर्णम् ४ । अत्र चतुर्थो भङ्गः शुद्धः, शेषास्त्रयोऽप्यशुद्धाः । 'यद् वा' क्रीतकृत-स्थापितादिकं यत्र वस्त्रे पात्रे वा 'क्रमते ' अवतरति तत् तत्र सम्यगुपयुज्य योजनीयम् । अत्र च तननं वितननं चाविशोधिकोटि पायनं विशोधिकोटिरित्याचार्यस्य मतम् । परस्तु ब्रवीति-पायनमविशोधिकोटि, कन्दादिजीवोपघातनिप्पन्नत्वात्; तननं वितननं च विशोधिकोटि, जीवोपघातस्यादृश्यमानत्वादिति । अत्र सूरिराहनास्माकं जीवोपघातेनैवाधाकर्म किन्तु श्रमणार्थं वस्त्रादेर्यत् पर्यायान्तरनयनं तदप्याधाकर्म मन्तव्यम् ॥
-
अपि च
[भा. १७६६ ] अत्तट्ठियतंतूहिं, समणट्ठ ततो अ पाइय वुतो अ । किं सो न होइ कम्मं, फासूण विपजिओ जो उ ।।
वृ-आत्मार्थिताः-स्वार्थं निष्पादिता ये तन्तवस्तैः श्रमणार्थं यः पटः तत- पायितो व्यूतश्च सः 'प्राशुकेनापि स्वार्थमचित्तीकृतेन खलिकाद्रव्यसम्भारेण पायितः सन् किमाधाकर्म न भवति ? त्वदुक्तनीत्या भवतीति भावः ॥
[भा. १७६७ ] जइ पज्जणं तु कम्मं, इतरमकम्मं स कप्पऊ धोओ। अह धोओ विन कप्पर, तणणं विणणं च तो कम्मं ॥
वृ- ततो यदि जीवोपघातनिष्पन्नत्वात् पायनमाधाकर्म 'इतरत्' तननं वितननं च 'अकर्म' न आधाकर्मेति तर्हि स पटो धौतः सन् कल्पतां भवतः, अपनीतपायनिकालेपत्वात् । अथ ब्रवीथाः 'धौतोऽप्यसौ न कल्पते' ततस्तननं वितननं चार्थादाधाकर्म संवृत्तमिति सिद्धं नः समीहितम् ॥ गतं “गच्छसइए अ कप्पे अंबिलभरिए अ ऊसित्ते" इति द्वारम् । अथ “परिहरणा अनुजाणे" त्ति द्वारं व्याख्यानयति
[भा. १७६८] चोअग जिनकालम्मिं, किह परिहरणा जहेव अनुजाणे । अइगमणम्मि य पुच्छा, निक्कारण कारणे लहुगा ।।
वृ- नोदकः प्रश्नयति-यदि शतिकेष्वपि गच्छेषु साम्प्रतमित्थमाधाकर्मादयो दोषा जायन्ते तर्हि जिनः-तीर्थकरस्तस्य काले साहेषु गच्छेषु साधवः कथमाधाकर्मादीनां परिहरणं कृतवन्तः ? इति । सूरिराह-यथैव 'अनुयाने' रथयात्रायां साम्प्रतमपि परिहरन्ति तथा पूर्वमपि परिहृत-वन्तः । “अतिगमणम्मि य पुच्छत्ति शिष्यः पृच्छति - किमनुयाने 'अतिगमनं' प्रवेशनं कर्त्तव्यम् ? उत न ? इति । आचार्य प्राह- "निक्कारण कारणे लहुग" त्ति निष्कारणे यदि गच्छति तदा चत्वारो लघवः, कारणे यदि न गच्छति तदाऽपि चत्वारो लघवः ॥
अथैतदेव भावयति
[भा. १७६९] ण्हाणा - Sनुजाणमाइसु, जतंति जह संपयं समोसरिया । सतसो सहसो वा, तह जिनकले विसोहिंसु ।
18 29
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org