________________
उद्देशक : १, मूलं -६, [भा. १७७२]
संयमविराधा षन्नां कायानामुपमर्दादिना । तथा त्वरमाणत्वादेव न सूत्रं गुणयति, उपलक्षणत्वादर्थं च नानुप्रेक्षते, नैव प्रतिलेखनां वस्त्र - पात्रादेः करोति, अकालेऽविधिना वा करोति ।। एवमेते मार्गे गच्छतां दोषा अभिहिताः । अथ तत्र प्राप्तानां ये दोषास्तानभिधित्सुर्द्वारगाथामाह[भा. १७७३] चेइय आहाकम्मं, उग्गमदोसा य सेह इत्थीओ। नाग संफासण तंतु खुड्डु निद्धम्मकज्जा य ॥
४५१
वृ- चैत्यानां स्वरूपं प्रथमतोवक्तव्यम्, तत आधाकर्म, तत उद्गमदोषाः, ततः शैक्षाणां पार्श्वस्थेषु गमनम्, ततः स्त्रीदर्शनसमुत्था दोषाः, ततो नाटकावलोकनप्रभवाः, ततः संस्पर्शनसमुत्थाः, तदनन्तरं तन्तवः- कोलिकजालं तद्विषयाः, तदनु “खुड्ड"त्ति पार्श्वस्थादिक्षुल्लकदर्शनसमुत्थाः, ततो निर्धर्मणां-लिङ्गिनां यानि कार्याणि तदुत्थिताश्च दोषावक्तव्या इति द्वारगाथासमासार्थः ॥ अथैनामेव विवरीषुः प्रथमतश्चैत्यस्वरूपं व्याख्याति
[भा. १७७४] साहम्मियाण अट्ठा, चउव्विहे लिंगओ जह कुटुंबी । मंगल-सासय भत्तीइ जं कयं तत्थ आदेसो ॥
वृ- चैत्यानि चतुर्विधानि तद्यथा- साधर्मिकचैत्यानि मङ्गलचैत्यानि शाश्वतचैत्यानि भक्तिचैत्यानि चेति । तत्र साधर्मिकाणामर्थाय यत् कृतं तत् साधर्मिकचैत्यम् । साधर्मिकश्चात्र द्विधा-लिङ्गतः प्रवचनतश्च । तत्रेह लिङ्गतो गृह्यते, स च यथा कुटुम्बी, कुटुम्बी नाम-प्रभूतपरिचारकलोकपरिवृतो रजोहरण-मुखपोतिकादिलिङ्गधारी वारत्तकप्रतिच्छन्दः । तथा मथुरापुर्यां गृहेषु कृतेषु मङ्गलनिमित्तं यद् निवेश्यते तद् मङ्गलचैत्यम् । सुरलोकादौ नित्यस्थयि शाश्वतचैत्यम् । यत्तु भक्त्या मनुष्यैः पूजा - वन्दनाद्यर्थं कृतं कारितमित्यर्थः तद् भक्तिचैत्यम् । 'तेन च' भक्तिचैत्येन 'आदेश: ' अधिकारः, अनुयानादिमहोत्सवस्य तत्रैव सम्भवादिति । एषा निर्युक्तिगाथा ।।
अथैनामेव बिभावयिषुः साधर्मिकचैत्यं तावदाह[भा. १७७५]
वारत्तगस्स पुत्तो, पडिमं कासी य चेइयहरम्मि । तत्थ य थली अहेसी, साहम्मियचेइयं तं तु ॥
वृ- इहाऽऽवश्यके योगसङ्ग्रहेषु "वारत्तपुरे अभयसेण वारत्ते" इत्यत्र प्रदेशे प्रतिपादितचरितो यो वारत्तक इति नाम्ना महर्षि, तस्य पुत्रः स्वपितरि भक्तिभरापूरिततया चैत्यगृहं कारयित्वा तत्र रजोहरण-मुखवस्त्रिका प्रतिग्रहधारिणीं पितुः प्रतिमामस्थापयत्, तत्र च 'स्थली' सत्रशाला तेन प्रवर्त्तिता आसीत्, तदेतत् साधर्मिकचैत्यम् । अस्य च साधर्मिकचैत्यस्यार्थाय कृतमस्माकं कल्पते अथ मङ्गलचैत्यमाह
[भा. १७७६ ]
अरहंतपइट्ठाए, महुरानयरीए मंगलाई तु । गेहेसु चच्चरेसु य, छन्नउईगामअद्धेसु ॥
1
वृ-मथुरानगर्यां गृहे कृते मङ्गलनिमित्तमुत्तरङ्गेषु प्रथममर्हत्प्रतिमाः प्रतिष्ठाप्यन्ते, अन्यथा तद् गृहं पतति, तानि मङ्गलचैत्यानि । तानि च तस्यां नगर्यां गेहेषु चत्वरेषु च भवन्ति । न केवलं तस्यामेव किन्तु तत्पुरीप्रतिबद्धा ये षन्नवतिसङ्ख्याका ग्रामाद्धस्तेिष्वपि भवन्ति । इहोत्तरापथानां ग्रामस्य ग्रामार्द्ध इति संज्ञा । आह च चूर्णिकृत् - गामद्धेसु त्ति देसभणिती, छन्नउईगामेसु त्ति भणियं होइ, उत्तरावहाणं एसा भणिइ त्ति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org