SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ ४५२ बृहत्कल्प-छेदसूत्रम् -१-१/६ शाश्वतचैत्य-भक्तिचैत्यानि दर्शयति[भा.१७७७] निइयाइ सुरलोए, भत्तिकयाई तुभरहमाईहिं। निस्सा-ऽनिस्सकयाई, जहि आएसो चयसु निस्सं ।। वृ-'नित्यानि' शाश्वतचैत्यानि 'सुरलोके' भवनपति-व्यन्तर-ज्योतिष्क-वैमानिकदेवानां भवननगर-विमानेषु, उपलक्षणत्वाद् मेरुशिखर-वैताढ्यादिकूट-नन्दीश्वर-रुचकवरादिष्वपि भवन्तीति । तथा भक्त्या भरतादिभिर्यानि कारितानि अभूतण्यर्थत्वाद् भक्तिकृतानि । अत्र च "जहि आएसो" त्ति येन भक्तिचैत्येन ‘आदेशः' प्रकृतम् तद् द्विधा-निश्राकृतमनिश्राकृतं च । निश्राकृतंनाम-गच्छप्रतिवद्धन्, अनिश्राकृतं-तद्विपरीतम्सङ्घसाधारणमित्यर्थः । “चयसु निस्सं"ति यद् निश्राकृतं तत् 'त्यज' परिहर । अनिश्राकृतं तु कल्पते ॥ गतं चैत्यद्वारम् । अथाधाकर्मद्वारमाह[भा.१७७८] जीवं उद्दिस्स कडं, कम्मं सो विय जया उ साहम्मी। सो विय तइए भंगे, लिंगादीणं न ससेसु ॥ वृ-जीवमुद्दिश्य यत् षट्कायविराधनया कृतं सोऽपिचयदिजीवः ‘साधर्मिकः' समानधर्मा भवति सोऽपिच' साधर्मिकः 'लिङ्गादीनां' 'लिङ्गतः साधर्मिको न प्रवचनतः' इत्यादीनांचतुर्णां भङ्गानां 'तृतीये भङ्गे' 'लिङ्गतः प्रवचनतोऽपि' इत्येवंलक्षणे यदि वर्तते न शेषेषु तदेतदाधाकर्म मन्तव्यम्॥ अथ तीर्थकरप्रतिमार्थं यन्निवर्तितं तत् किं साधूनां कल्पते न वा? इत्याशङ्कानिरासार्थमाह[भा.१७७९] संवट्टमेह-पुष्फा, सत्थनिमित्तं कया जइ जईणं। नहुलब्भापडिसिद्धं, किं पुन पडिमट्ठमारद्धं । वृ-शास्ता-तीर्थकरस्तस्य निमित्तं यानि देवैः संवर्तकमेघ-पुष्पाणि समवसरणभूमौ कृतानि तानि यीनां यदिप्रतिषेद्धं न लभ्यानि, तेषां तत्रावस्थातुं यदि कल्पते इति भावः, तर्हि किं पुनः 'प्रतिमार्थम्' अजीवानां प्रतिमानां हेतोरारब्धम् ?, तत् सुतरां न प्रतिषेधमर्हतीत्यभिप्रायः॥ आह यदि तीर्थकरार्थं संवर्तकमेघ-पुष्पाणि कृतानि तर्हि तस्य भगवतस्तानिप्रतिसेवमानस्य कथं न दोषो भवति? इति उच्यते[भा.१७८०] तित्थयरनाम-गोयस्स खयट्ठा अवि य दाणि साभव्वा । धम्मं कहेइ सत्था, पूर्व वा सेवई तंतु॥ वृ-तीर्थकरनाम-गोत्रस्य कर्मणः क्षयार्थं 'शास्ता' भगवान् धर्म कथयति, 'पूजांच' महिमां तामनन्तरोक्तं संवर्तकवातप्रभृतिकामासेवते।भगवता हितीर्थकरनाम-गोत्रं कर्मावश्यवेदनीयम्, विपाकोदयावलिकायामवतीर्णत्वात् । तस्य च वेदनेऽयमेवोपायः-यदग्लान्या धर्मदेशनाकरणं सदेव-मनुजा-ऽसुरलोकविरचितायाश्च पूजाया उपजीवनम् । तं च कहं वेइज्जइ, अगिलाए धम्मदेसणाईहि । तथा उदए जस्स सुरा-ऽसुर-नरवइनिवेहेहि पूइओ लोए। तं तित्थयरं नामं, तस्स विवागो उ केवलिणो॥ इति वचनप्रामाण्यात्। अपिच' इत्यभ्युच्चये। “दाणि"त्तिनिपातो वाक्यालङ्कारे। “साभव" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy