________________
उद्देशक ः १, मूलं-६, [भा. १७८०]
त्ति स्वोभावः स्वभावः, यथा-"आपो द्रव्याश्चलो वायुः" इत्यादि, तस्य भावः स्वाभाव्यं तस्मात्। तस्य हि भगवतः स्वभावोऽयं यत् तथाधर्मकथाविधानं पूजायाश्चासेवनम् ।।
इदमेव स्पष्टतरमाह[भा.१७८१] खीणकसाओ अरिहा, कयकिच्चो अविय जीयमनुयत्ती।
पडिसेवंतो विअओ, अदोसवं होइ तंपूयं ।। वृ-क्षीणाः-प्रलयमुपगताः कषायाः-क्रोधादयो यस्य सक्षीणकषायः, एवंविधोऽर्हन्तां पूजां प्रतिसेवमानोऽपिन दोषवान् । इयमत्र भावना-यो हि रागादिमान् पूजामुपजीवन् स्वात्मन्युत्कर्ष मन्यते स दोषभाग् भवति, भगवतस्तु क्षीणकषायस्य पूजामुपजीवतोऽपि नास्ति स्वात्मन्युत्कर्षगन्धोऽपिअतो दूरापास्त्रसरातस्य सदोषतेति।तथा कृतानि-समापितानि कृत्यानि येन सः ‘कृतकृत्यः' कवेलज्ञानलाभान्निष्ठितार्थ । ततः कृतकृत्यत्वादेवासौ पूजामासेवते न च दोषमापद्यते । अपि च जीतम्-'उपजीवनीया सुरा-ऽसुरविरचिता पूजा' इत्येवंलक्षणं कल्पमनुवर्तयितुं शीलमस्यासौ जीतानुवर्ती, गाथायां मकारोऽलाक्षणिकः ।। आह भवत्वेवं परं तीर्थकरस्य तप्रतिमाया वा निमित्तं यत् कृतं तत् केन कारणेन यतीनां कल्पते? उच्यते[भा.१७८२] . साहम्मिओ न सत्था, तस्स कयं तेण कप्पइ जईणं ।
जंपुन पडिमाण कयं, तस्स कहा का अजीवत्ता। कृ'शास्ता' तीर्थकरःससाधर्मिको लिङ्गतःप्रवचनतोऽपिन भवति। तथाहि-लिङ्गतःसाधर्मिकः स उच्यते यो रजोहरणादिलिङ्गधारी भवति, तच्च लिङ्गमस्य भगवतो नास्ति तथाकल्पत्वात्, अतोन लिङ्गतः साधर्मिकः । प्रवचनतोऽपिसाधर्मिकः सोऽभिधीयते यश्चतुर्वर्णसङ्घाभ्यन्तरवर्ती भवति, “पवयणसंघेगयरे" इति वचनात्; भगवाँश्च तत्प्रवर्तकतया न तदभ्यन्तरवर्ती किन्तु चतुर्वर्णस्यापिसङ्घस्याधिपति, ततोनप्रवचनतोऽपिसाधर्मिक इति।अतः 'तस्य' तीर्थकरस्यार्थाय कृतं यतीनां कल्पते । यत् पुनः प्रतिमानामर्थाय कृतं तस्य 'का कथा?' का वार्ता? सुतरां तत् कल्पते । कुतः ? इत्याह-अजीवत्वात्, जीवमुद्दिश्य हि यत् कृतं तदाधाकर्म भवति, “जीवं उद्दिस्स कडं" इति प्रागेवोक्तत्वात्, तच्च जीवत्वमेव प्रतिमानां नास्तीति।।
अथ वसतिविषयमाधाकर्म दर्शयति[भा.१७८३] ठाइमठाई ओसरण मंडवा संजय देसे वा।
पेढी भूमीकम्मे, निसेवतो अनुमई दोसा ।। वृ-“ओसरणे" समवसरणे बहवः संयताः समागमिष्यन्तीति बुध्या श्रावका धर्मश्रद्धया बहून् मण्डपान् कुर्यु । ते च द्विधा-स्थायिनोऽस्थायिनश्च । ये समवसरणपर्वणि व्यतीते सति नोत्कील्यन्ते ते स्थायिनः, ये पुनरुत्कील्यन्ते तेऽस्थायिनः । पुनरेकैके द्विविधाः-संयतार्थकृता देशकृता वा । ये आधाकर्मिकास्ते संयतार्थकृताः, ये तु साधूनामात्मनश्चार्थाय कृतास्ते देशकृताः । एतेषु तिष्ठतां तन्निष्पन्नं प्रायश्चित्तम् । तथा पीठिका नाम' उपवेशनादिस्थानविशेषाः, "भूमिकम्मे"त्ति 'भूमिकर्म' विषमाया भूमेः समीकरणम्, उपलक्षणं चेदम्, तेन सम्मार्जनो पलेपनादिपरिग्रहः । एतान्यपि पीठिकादीनि संयतार्थकृतानि देशकृतानि वा भवेयुः । एतानि मण्डपादीनि सदोषानि निषेवमाणस्यानुमतिदोषा भवन्ति, एतेषुक्रियमाणेषुयाषन्नांजीवनिकायानां Jain Education International
For Private & Personal Use Only
www.jainelibrary.org