Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 451
________________ ४४८ बृहत्कल्प-छेदसूत्रम् -१-१/६ वृ-संयतानेव केवलानाश्रित्य कृतं संयतकृतम् आधाकर्म। “देसि"त्ति देशतः' त्ति 'देशतः' एकदेशेन संयतादीनाश्रित्य कृतं देशकृतम्, स्वगृहमिश्रादिकमित्यर्थः । अप्राशुकेन प्राशुकेन वा संयतार्थं यद्भरणंतदप्याधाकर्म । “अत्तकडे वियठविए"त्तिआत्मार्थकृतायामम्लिन्यां यदात्मार्थं भरणं तदपि यदि श्रमणार्थमुत्सिच्य बहि स्थापयति तदा स्थापनादोष इति कृत्वा न ग्रहीतव्यम् । यदि गृह्णाति तदा लघुको मास आज्ञादयश्च दोषाः । एषा नियुक्तिगाथा॥ अथैनामेव व्याख्यानयति[भा.१७६२] देसकडा मज्झपदा, आदिपदं अंतिमंच पत्तेयं । उग्गमकोडी व भवे, विसोहिकोडी व जो देसो।। वृ-यानि मध्यपदानि' स्वगृहमिश्र-पाषण्डमिश्र-यावदर्थिकमिश्र-क्रीतकृत-पूतिकर्मलक्षणानि तानि देशकृतान्युच्यन्ते, देशतः स्वगृहार्थं देशतस्तु साध्वाद्यर्थममीषां क्रियमाणत्वात् । यत् पुनः 'आदिपदम्' आधाकर्म 'अन्तिमपदं च' आत्मार्थकृतं तद् द्वितयमपि 'प्रत्येकं' एकपक्षविषयम्, केवलमेवसाधुपक्षं स्वगृहपक्षं चोद्दिश्यप्रवृत्तत्वात्। अत्र चयः 'देशः' देशकृतः स्वगृहमिश्रादिको दोषः स उद्गमकोटिर्वा भवेत्, अविशोधिकोटिरित्यर्थः, विशोधिकोटिर्वा । तत्र स्वगृहमिश्रं पाषण्डमिश्रं च नियमादविशोधिकोटी, पूतिकर्म यावदर्थिकमिश्रं क्रीतकृतं चेति त्रीणि विशोधिकोटयः आधाकर्मिकं पुनरेकान्तेनाविशोधिकोटि, आत्मार्थकृतं तु निरवद्यभेवेति ॥ [भा.१७६३] जंजीवजुयं भरणं, तदफासुंफासुयं तु तदभावा। . तंपिय हु होइ कम्मं, न केवलं जीवधाएण ॥ वृ-यद् ‘जीवयुतं' राजिकादिबीजसहितं भरणं तदप्राशुकम् । तदभावात्' राजिकादिबीजाभावाद्यद्भरणंतत् प्राशुकम्।तदपिच निर्जीवंभरणं हु' निश्चितंसंयतार्थं क्रियमाणमाधाकर्म भवति, न केवलं ‘जीवघातेन' राजिकादिबीजजन्तूपघातेन निष्पन्नमिति ॥ अथोत्सिक्तपदं भावयति[भा.१७६४] समणे घर पासंडे, जावंतिय अत्तणो य मुत्तूणं । छट्ठो नत्थि विकप्पो, उस्सिंचणमो जयहाए॥ वृ- काञ्जिकस्य सौवीरिणीतो यद् निष्काशनं तद् उत्सिक्तम् । तच्च पञ्चधा-श्रमणार्थं साधूनामर्थायेत्यर्थः १ स्वगृहयतिमिश्रं २ पाषण्डिमिश्रं ३ यावदर्थिकमिश्रं ४ आत्मार्थकृतम् ५। एतान् पञ्च भेदान् मुक्त्वा अपरः षष्ठो विकल्पो नास्ति यदर्थमुत्सेचनं भवेत् । अत्र चात्मार्थं यद् गृहिभिरुत्सिक्तं तदेव ग्रहीतुं कल्पतेन शेषाणीति॥उक्त आहारविषयो विधइः । अथोपधिविषयं तमेवाह[भा.१७६५] तत पाइयं वियं पि य, वत्थं एक्केवगस्स अट्ठाए। पाउब्भिन्न निक्कोरियं च जं जत्थ वा कमइ॥ वृ- वस्त्रमेकैकस्यार्थाय ततं पायितं विततं च वक्तव्यम् । तद्यथा-संयतार्थं ततं संयतार्थं पायितं संयतार्थमेव च विततं १ संयतार्थं ततमात्मार्थं पायितं आत्मार्थमेव विततम् ४, एवमात्मार्थततेनापि चत्वारो भङ्गा लभ्यन्ते, जाता अष्टौ भङ्गाः । अत्र चाष्टमो भङ्ग- शुद्धः, त्रयाणामप्यात्मार्थंकृतत्वात्। एवं स्वगृहमिश्र-पाषण्डमिश्र-यावदर्थिकमिश्रेष्वपि द्रष्टव्यम्, सर्वत्रापि Jain Education International 1 For Private & Personal Use Only For www.jainelibrary.org www.

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532