Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 449
________________ ४४६ बृहत्कल्प-छेदसूत्रम् -१-१/६ शीलं येषां ते तथा, नापि च नित्यं पानकार्थमभिपतन्ति, अनियतभिक्षाटनशीलत्वादेषाम् ।। इत्थमुक्ते यद्यसौ गृहस्वामी ब्रूयात्[भा.१७५२] अम्ह वि होहिइ कज्जं, घिच्छंति बहूय अन्नपासंडा । पत्तेयं पडिसेहो, साहारे होइ जयणा उ॥ वृ-अस्माकमपि भविष्यति कार्यं काञ्जिकेन, ग्रहीष्यन्ति च बहवोऽन्येऽपियुष्मद्व्यतिरिक्ताः पाषण्डिन इति।तत्र साधारणेयतना कर्तव्या, यथा-अस्माकंतावन्न कल्पते। “पत्तेयंपडिसेहो" त्ति अथ गृहपतिर्भणति-अन्येऽपि निर्ग्रन्थाः पानकार्थमायास्यन्ति तेभ्यो दास्यते । इत्थं प्रत्येक निर्ग्रन्थानेवाश्रित्याभिधीयमाने प्रतिषेधः कार्य 'न कल्पते साधूनामित्थं विधीयमानम् ॥ एवंप्रतिषिद्धेऽपि कोऽपि सप्त सौवीरिणीः स्थापयेत्, ताश्चैताः[भा.१७५३]आहाकम्मिय१ सघररपासंडमीसए३ जाव४ कीय५ पूई६ अत्तकडे७। एक्केवम्मिय सत्त उ, कए य काराविए चेव ।। वृ-'आधाकर्मिका' साधूनामेवार्थाय कारिता १ “स्वगृहयतिमिश्रा' गृहस्य साधूनां चाय निर्मापता २ ‘स्वगृहपाषण्डमिश्रा' गृहस्य पाषण्डिनां चाय कारिता ३ ‘यावदर्थिकमिश्रा तु' साध्वर्थं मूल्येन गृहीता 'पूतिकर्मिका' आधाकर्मिकसुधादिना पूरितच्छिद्रा ६ आत्मार्थकृता' स्वगृहार्थमेव स्थापिता ७। एतासां सप्तानां सौवीरिणीनामेकैकस्यां सप्त सप्त भरणानि भवन्ति । सप्त च सप्तभिस्ताडिता एकोनपञ्चाशद् भवति । एषाचप्रत्येकं कृते करापिते च सम्भवति। ततो द्वाभ्यां गुण्यते जाता भेदानामष्टानवतिरिति ।। अथ सप्त भरमानि दर्शयति[भा.१७५४] कम्मघरे पासंडे, जावंतिय कीय-पूइ-अत्तकडे । भरणं सत्तविकप्पं, एक्केकीए उ रसिणीए। वृ-आधाकर्मिकं १ स्वगृहयतिमिश्रं २ स्वगृहपाषण्डिमिश्रं ३ यावदर्थिकमिश्रं४ क्रीतकृतं ५ पूतिकर्मिकम्६ आत्मार्थकृतंचेति७ सप्तविकल्पं सप्तप्रकरांभरणमेकैकस्यां रसिन्यां सौवीरिण्यां भवति । अथ किं सप्तैवाम्लिन्यो भवन्ति नाधिकाः? इत्युच्यते[भा.१७५५] सत्त त्ति नवरि नेम्मं, उग्गमदोसा हवंति अन्ने वि। ___ संजोगा कायव्वा, सत्तहि भरणेहि रसिणीणं । वृ-सप्तेति यदुक्तं तद् 'नवरं' केवलं "नेम्मं" चिह्नम्-उपलक्षणंद्रष्टव्यम्, तेन 'उद्गमदोषाः' औद्देशिकादयः ‘अन्येऽपि यथासम्भवमत्रमन्तव्याः यैः प्रक्षिप्तैरभ्यधिका अप्यम्लिन्यो भवन्ति। अत्रच 'संयोगाः' भङ्गकाः कर्तव्याः सप्तभिर्भरणैः सप्तानामेवरसिनीनाम्। तद्यथा-आधाकर्मिका सौवीरिणी भरणमपि तस्यामाधाकर्मिकम् १ आधाकर्मिका सौवीरिणी भरणं स्वगृहयतिमिश्रम् २ एवं सौवीरिणी सैव भरणंतु पाषण्डिमिश्रं ३ यावदर्थिकमिश्रं ४ क्रीतकृतं ५ पूतिकर्मिकम् ६ आत्मार्थकृतम् ७। एवं स्वगृहयतिमिश्रादिप्वपि सौवीरिणीषु प्रत्येकं सप्त सप्त भरणानि योजनीयातितश्च कियन्तो भङ्गका उत्तिष्ठन्ते? इत्याह[भा.१७५६] जावइया रसिणीओ, तावइया चेव होंति भरणा वि। अउणापन्नं भेया, सयग्गसो याविणेयव्वा ॥ वृ-'यावत्यः' यावत्सङ्क्रयाका रसिन्यः ‘तावन्त्येव' तावत्सङ्ख्याकान्येव भवन्तिभरणानि । For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532