________________
४४६
बृहत्कल्प-छेदसूत्रम् -१-१/६
शीलं येषां ते तथा, नापि च नित्यं पानकार्थमभिपतन्ति, अनियतभिक्षाटनशीलत्वादेषाम् ।। इत्थमुक्ते यद्यसौ गृहस्वामी ब्रूयात्[भा.१७५२] अम्ह वि होहिइ कज्जं, घिच्छंति बहूय अन्नपासंडा ।
पत्तेयं पडिसेहो, साहारे होइ जयणा उ॥ वृ-अस्माकमपि भविष्यति कार्यं काञ्जिकेन, ग्रहीष्यन्ति च बहवोऽन्येऽपियुष्मद्व्यतिरिक्ताः पाषण्डिन इति।तत्र साधारणेयतना कर्तव्या, यथा-अस्माकंतावन्न कल्पते। “पत्तेयंपडिसेहो" त्ति अथ गृहपतिर्भणति-अन्येऽपि निर्ग्रन्थाः पानकार्थमायास्यन्ति तेभ्यो दास्यते । इत्थं प्रत्येक निर्ग्रन्थानेवाश्रित्याभिधीयमाने प्रतिषेधः कार्य 'न कल्पते साधूनामित्थं विधीयमानम् ॥ एवंप्रतिषिद्धेऽपि कोऽपि सप्त सौवीरिणीः स्थापयेत्, ताश्चैताः[भा.१७५३]आहाकम्मिय१ सघररपासंडमीसए३ जाव४ कीय५ पूई६ अत्तकडे७।
एक्केवम्मिय सत्त उ, कए य काराविए चेव ।। वृ-'आधाकर्मिका' साधूनामेवार्थाय कारिता १ “स्वगृहयतिमिश्रा' गृहस्य साधूनां चाय निर्मापता २ ‘स्वगृहपाषण्डमिश्रा' गृहस्य पाषण्डिनां चाय कारिता ३ ‘यावदर्थिकमिश्रा तु' साध्वर्थं मूल्येन गृहीता 'पूतिकर्मिका' आधाकर्मिकसुधादिना पूरितच्छिद्रा ६ आत्मार्थकृता' स्वगृहार्थमेव स्थापिता ७। एतासां सप्तानां सौवीरिणीनामेकैकस्यां सप्त सप्त भरणानि भवन्ति । सप्त च सप्तभिस्ताडिता एकोनपञ्चाशद् भवति । एषाचप्रत्येकं कृते करापिते च सम्भवति। ततो द्वाभ्यां गुण्यते जाता भेदानामष्टानवतिरिति ।। अथ सप्त भरमानि दर्शयति[भा.१७५४] कम्मघरे पासंडे, जावंतिय कीय-पूइ-अत्तकडे ।
भरणं सत्तविकप्पं, एक्केकीए उ रसिणीए। वृ-आधाकर्मिकं १ स्वगृहयतिमिश्रं २ स्वगृहपाषण्डिमिश्रं ३ यावदर्थिकमिश्रं४ क्रीतकृतं ५ पूतिकर्मिकम्६ आत्मार्थकृतंचेति७ सप्तविकल्पं सप्तप्रकरांभरणमेकैकस्यां रसिन्यां सौवीरिण्यां भवति । अथ किं सप्तैवाम्लिन्यो भवन्ति नाधिकाः? इत्युच्यते[भा.१७५५] सत्त त्ति नवरि नेम्मं, उग्गमदोसा हवंति अन्ने वि।
___ संजोगा कायव्वा, सत्तहि भरणेहि रसिणीणं । वृ-सप्तेति यदुक्तं तद् 'नवरं' केवलं "नेम्मं" चिह्नम्-उपलक्षणंद्रष्टव्यम्, तेन 'उद्गमदोषाः' औद्देशिकादयः ‘अन्येऽपि यथासम्भवमत्रमन्तव्याः यैः प्रक्षिप्तैरभ्यधिका अप्यम्लिन्यो भवन्ति। अत्रच 'संयोगाः' भङ्गकाः कर्तव्याः सप्तभिर्भरणैः सप्तानामेवरसिनीनाम्। तद्यथा-आधाकर्मिका सौवीरिणी भरणमपि तस्यामाधाकर्मिकम् १ आधाकर्मिका सौवीरिणी भरणं स्वगृहयतिमिश्रम् २ एवं सौवीरिणी सैव भरणंतु पाषण्डिमिश्रं ३ यावदर्थिकमिश्रं ४ क्रीतकृतं ५ पूतिकर्मिकम् ६ आत्मार्थकृतम् ७। एवं स्वगृहयतिमिश्रादिप्वपि सौवीरिणीषु प्रत्येकं सप्त सप्त भरणानि योजनीयातितश्च कियन्तो भङ्गका उत्तिष्ठन्ते? इत्याह[भा.१७५६] जावइया रसिणीओ, तावइया चेव होंति भरणा वि।
अउणापन्नं भेया, सयग्गसो याविणेयव्वा ॥ वृ-'यावत्यः' यावत्सङ्क्रयाका रसिन्यः ‘तावन्त्येव' तावत्सङ्ख्याकान्येव भवन्तिभरणानि । For Private & Personal Use Only
www.jainelibrary.org
Jain Education International