SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं -६, [भा. १७४७ ] रात्रिन्दिवानि । सुप्रत्युपेक्षितं सुप्रमार्जितमिति चतुर्थो भङ्गः शुद्ध इति ॥ गतं कल्पकरणद्वारम् । अथ “गच्छसइए अ कप्पे अंबिलमभरिए अ ऊसित्ते" त्ति द्वारमभिधित्सुः प्रथमतः समबन्धमाह [ भा. १७४८ ] भुत्ते भुंजंतम्मिय, जम्हा नियमा दवस्स उवओगो । समहियतरो पयत्तो, कायव्वो पानए तम्हा ॥ वृ- 'भुक्ते' भोजनानन्तरंपानार्थं संज्ञाभूमिगमनार्थं च भुञ्जानानां च उत्तूढलग्नरक्षणार्थं यस्माद् नियमाद् ‘द्रवस्य’ पानकस्योपयोगो भवति 'तस्माद्' भक्तग्रहणप्रयत्नात् समधि कतरः प्रयत्नः पानकग्रहणे कर्त्तव्य इति, अतस्तद्रहणविधिरुच्यते ॥ इह शतिकेषु सहेषु वा गच्छेषु प्रभूतेन पानकेन कार्यं भवति, तच्च कल्पनीयमेव ग्रहीतव्यम्, अतस्तद्विधिप्रतिबद्धद्वारसङ्क्रामिमां गाथामाह [भा. १७४९] पानगजाइणियाए, आहाकम्मस्स होइ उप्पत्ती । पूती यमीसजाए, कडे य भरिए य ऊसित्ते ॥ वृ- पानकस्य याच्ञायामाधाकर्मण उत्पत्तिर्भवति सा वक्तव्या । ततः “ पूइ "त्ति पूतिका "मीस" त्ति स्वगृहयतिमिश्रा स्वगृहपाषण्डिमिश्रा स्वगृहयावदर्थिकमिश्रा च “कडे यत्ति आधाकृता क्रीतकृता आत्मार्थकृता च अम्लिनी वक्तव्या । “भरिए य” त्ति भरणं भरितमम्लिनीनामभिधातव्यम्। ‘“ऊसित्ति” त्ति उत्सेचनमुत्सिक्तं तद् वक्तव्यमिति द्वारगाथा - सार्थ ॥ अथ विस्तरार्थमाह [भा. १७५० ] अन्नन्न दवोभासण, संदेसा पुन्न बेइ घरसामी । कल्लं ठवेहि अन्नं, महल्लसोवीरिणं गेहे ॥ ४४५ वृ- कोऽपि भद्रको गृहपतिरन्यान्यान् सङ्घाटकान् द्रवस्यावभाषणं कुर्वाणान् दृष्टवा तेषां च मध्ये केषाञ्चित् सङ्घाकानां 'सन्देश' मुत्कलनं- 'गृहीतमग्रेतनैः सङ्घाटकैः पानकम्, नास्तीदानीं भवद्योग्यम्' इति क्रियमाणं निरीक्ष्य "पुन्ने 'ति पुण्यार्थं गृहस्वामिनीं ब्रवीति-धर्मप्रिये! मा कञ्चनापि साधुं जङ्गमं निधिमिव गृहाङ्गणमायातं प्रतिषेधयेः, कि भवत्या दानधर्कथायामयं श्लोको नाकर्णितः ?, यथा दातुरुन्नतचित्तस्य, गुणयुक्तस्य चार्थिनः । दुर्लभः खलु संयोगः, सुबीज क्षेत्रयोरिव ॥ ततः सा ब्रूयात्-नास्त्येतावतां साधूनां योग्यं काञ्जिकम् । ततोऽसौ गृहपतिब्रूयात्- कल्ये स्थापयान्यां महतीं ‘सौवीरिणीम्' अम्लिनीं गेहे येन सर्वेषामपि योग्यंपानकं पूर्यते ।। एतच्चाकर्ण्य वक्तव्यम् [भा. १७५१] मा काहिसि पडिसिद्धो, जइ बूया कुणसु दानमन्नेसिं । बुद्दिविवज्जी, न यावि निच्चं अहिवडंति ॥ वृ- न कल्पते एवं विधीयमानं ग्रहीतुमतो मा कार्षी । यद्येवं प्रतिषिद्धः स गृहस्वामी ब्रूयात्'प्रिये ! कुर्यास्त्वं तावदपरां सौवीरिणीम्, यद्येष न ग्रहीष्यति ततोऽन्येषां साधूनां पानकदानं करिष्यते' ततो वक्तव्यम्- तेऽपि साधवः 'उद्दिष्टविवर्जिनः' साधर्मिकमुद्दिश्य कृतं वर्जयितुं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy