SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ४४४ बृहत्कल्प-छेदसूत्रम् -१-१/६ वृ-एवमेव 'अल्पलेपम् अल्पशब्दस्याभाववाचकत्वादलेपृतंभाजनं समस्य' सम्यक्संलिख्य जिनकल्पिकाः 'न धावन्ति' न कल्पं प्रयच्छन्ति। तच्च भानं यद्यपि न निरवयवं सञ्जायते तथापि 'यथास्थित्यैव' यथास्वकल्पानुपालनादेव शुध्यन्ति, स्थितिरियं तेषां यदेवमेव शुचयो भवन्तीति ।यदप्युक्तं भवताप्राक् “अकृतकल्पे भाजने गृहीतंभक्तमुच्छिष्टं भवति" तदपिपरिफलिभवति दर्शयति[भा.१७४३] मन्नंतो संसटुं, जंइच्छसि धोवणं दिणे विइए। इत्थ वि सुणसु अपंडिय!, जहा तयं निच्छए तुच्छं॥ वृ-संसृष्टं मन्यमानो यद्वितीये दिने 'धावनं' कल्पकरणमिच्छसिअत्राप्यर्थे 'श्रृणु' निशमय हे अपण्डित ! यथा 'तकत्' त्वदीयं वचनं 'निश्चये' परमार्थतः 'तुच्छ्' असारम् ॥ तदेवाह[भा.१७४४] सव्वं पिय संसहूं, नत्थि असंसट्ठिएल्लयं किंचि। सव्वं पिय लेवकडं, पाणगजाए कहं सोही॥ वृ-यदि गन्धमात्रेणैव त्वदुक्त्या नीत्या भक्तमुच्छिष्टं भवति ततः सर्वमप्यत्र जगति ‘संसृष्टम्' उच्छिष्टमेव विद्यते नास्ति किञ्चिदप्यसंसृष्टम् । एवं “सर्वमपि' भक्तं पानकं च लेपकृतमुच्छिष्टं भवति अतः पानकजातेन कथं शुद्धिर्भविप्यति? ॥ एतदेव भावयति[भा.१७४५]. खीरं वच्छुच्छिठें, उदगं पिय मच्छ-कच्छमुच्छिद्रं । चंदो राहुच्छिट्टो, पुष्पाणि य महुअरगणेहिं॥ वृ-क्षीरं 'वत्सोच्छिष्टं' वत्सेन स्वमातुः स्तन्यमापिबता संसृष्टम् । तथा उदकमपि मत्स्य-कच्छपोच्छिष्टम्। चन्द्रो राहूच्छिष्टः । पुष्पाणि च मधुकरगणैरुच्छिष्टानि ॥ [भा.१७४६] रंधंतीओ बोटिंति वंजणे खल-गुले य तक्कारी। संसट्ठमुहा य दवं, पियंति जइणो कहं सुज्झे॥ वृ-तथा अविरतिका रानुवन्त्यः 'व्यञ्जनानि' शालनकानि वोट्यन्ति 'किं निष्पन्नानि ? न वा?' इति परिज्ञानार्थम् । खल-गुलावपि 'तत्कारिणः' तस्य-खलादेः कारिणश्चाक्रिकादयो वोट्टयन्ति । 'संसृष्टमुखाश्च' उच्छिष्टेन मुखेन यतयो यद् द्रवमापिबन्ति तदपि संसृष्टम् । तेन च संसृष्टेन यस्य भाजनस्य कल्पः क्रियते तत् कथं शुध्यति? इति । यत एवमतो न गन्धमात्रेणैव भक्तमुच्छिष्टं भवतीति स्थितम्॥ अथ कल्पकरणे वितथसामाचारीनिष्पन्नं प्रायश्चित्तमाह[भा.१७४७] एक्किक्कम्मि उ ठाणे, वितह करितस्स मासियं लहुअं। तिगमासिय तिगपणगा, य होति कप्पं कुणइ जत्थ ।। वृ- एकैकस्मिन् स्थाने वितथा सामाचारी कुर्वाणस्य मासिकं लघुकम् । तद्यथा-असंलीढे पात्रके प्रथमं कल्पं करोति १ संलिख्य वा प्रथमं कल्पं कृत्वा तं नापिबति २ द्वितीयं कल्पं पात्रकेऽप्रक्षिप्य बहिर्निर्गच्छति ३ एतेषु त्रिष्वपि स्थानेषु मासलघु । तथा त्रीणि मासिकानि त्रीणि पञ्चकानि च भवन्ति यत्र कल्पं करोति । तद्यथा-न प्रत्युपेक्षतेन प्रमार्जयति १ न प्रत्युपेक्षते प्रमार्जयति २ प्रत्युपेक्षते प्रमार्जयति च, नवरं दुःप्रत्युपेक्षितंदुःप्रमार्जितं करोति १ दुष्प्रत्युपेक्षितं सुप्रमार्जितं २ सुप्रत्युपेक्षितं परमार्जितं करोति ३ एतेषु त्रिषु तपःकालविशेषितानि पञ्च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy