________________
उद्देशकः १, मूलं-६, [भा. १७३८]
४४३ वृ- वारिखलाः-परिव्राजकास्तेषां द्वादश मृत्तिकालेषा भाजनशोधनका भवन्ति । षट् च मृत्तिकालेषाः 'वानप्रस्थानां' तापसानां शौचसाधकाः सञ्जायन्ते । एवं लोकेऽपि स्वस्व-समयप्रतिपादितानिप्रतिनियतान्येव शौचानि दृष्टानि, अतो हे नोदक! एतावतः कल्पान् ‘मा भण' मा ब्रूहि, तावद्धौतव्यं यावद् निर्गन्धीभवतीत्यप्रतिनियतानित्यर्थः। तथा प्रतिमा' इतिमोकप्रतिमा साऽपि प्रवचने भणिता, तस्यां हि मोकमपिपीत्वा साधुः शुचिरेव भवति । एतदेव भावयति[भा.१७३९] पिह सोयाइ लोए, अम्हं पिअलेवगं अगंधं च ।
मोएण वि आयमनं,दिलृ तह मोयपडिमाए। वृ- यथा लोके 'पृथग्' विभिन्नानि शौचानि दृष्टानि तथाऽस्माकमपि त्रिभि कल्पैः प्रदत्तैरलेपकमगन्धंचपात्रकं भवतीति। एवं शौचविधिर्भगवद्भिदृष्टइति । तथा मोकेनाप्याचमनं मोकप्रतिमायां दृष्टमेव ।। परः प्राह[भा.१७४०] जइ निल्लेवमगंधं, पडिकुटुंतं कहं नु जिनकप्पे ।
तेसिं चेव अवयवा, रुक्खासि जिना न कुव्वंति॥ वृ-यदि निर्लेपमगन्धं च सौचं दृष्टं ततः कथं 'नुः' इति वितर्के 'तद्' निर्लेपनं जिनकल्पे प्रतिपन्नेसति प्रतिक्रुष्टं प्रतिषिद्धम्?, "तेसिंचेव अवयव"त्तिअनिर्लेपिते तेषां जिनकल्पिकानां सनत्येव सूक्ष्माः पुरीषादेरवयवाः यैरमीषां शुचित्वं न भवति । सूरिराह-रूक्षाशिनः 'जिनाः' जिनकल्पिका भगवन्तस्ततोऽभिन्नवर्चस्कतयान सन्ति सूक्ष्मा अप्यवयवाअमीषाम्, तदभावाच्च दूरापास्तप्रसरस्तेषां पुरीषगन्ध इति हेतोर्न कुर्वन्ति निर्लेपनम् ।। आह यद्यभिन्नवर्चस्कताय जिनकल्पिकाः शौचं न कुर्वन्ति तर्हि ये स्थविरकल्पिका अप्यभिन्नोच्चारास्तेषामपि संज्ञामुत्सृज्य किंकारणमवश्यं शौचकरणमुक्तम् ? उच्यते[भा.१७४१] थंडिल्लाण अनियमा, अभाविए इड्डि जुयलमुड्डयरे ।
सज्झाए पडिणीए, न ते जिने जं अणुप्पेहे ॥ वृ-स्थविरकल्पिकाः प्रथमस्थण्डिलाभावे द्वितीयतृतीयचतुर्थान्यपि स्थण्डिलानि गच्छन्ति । तत्र च यदि न निर्लेपयन्ति तत आपातसंलोकसमुत्था अवर्णवादादयो दोषा भवेयुरिति स्थण्डिलानामनियमादवश्यन्तया शौचं कुर्वन्ति । अभावितो नाम-अपरिणतजिनवचनस्तस्य निर्लेपनाभावे मा भूद् विपरिणाम इति । “इड्डि' त्ति 'ऋद्धिमान् राजादीनामन्यतमः प्रव्रजितः स प्रायेण शौचकरणभावित इति तदर्थम् । तथा 'युगलं' बाल-वृद्धद्वयं तत् प्रायेण भिन्वर्चस्कं भवति । “उड्डयरो नाम' यः समुशिन् संज्ञां वा व्युत्सृजन् चपलतया हस्तादीन्यपि लेपयति । “सज्झाये"त्ति अनिर्लेपिते स्थविरकल्पिकानां स्वाध्यायो न वर्तते वाचा कर्तुम् । “पडिनीए" त्ति प्रथमस्थण्डिलाभावे द्वितीयादिस्थन्डिलगतस्य शौचकरणमदृष्ट्वा प्रत्यनीक उड्डाहं कुर्यात् । “न ते जिणे"त्ति जिकल्पिके न ‘एते' स्थण्डिलानियमादयो दोषा भवन्ति, “जं अणुप्पेहे" त्ति यच्चासौ स्वाध्यायं मनसैवानुप्रेक्षते न वाचा परिवर्त्तयति तेन न निर्लेपयति । स्थविरकल्पिकानां तुमनसा स्वाध्यायकरणेप्रभूतेनापि कालेन न सूत्रार्थौ परिजितौ भवत इति ॥ [भा.१७४२] एमेव अप्पलेवं, सामासेउं जिना न धोवंति।
तं पि य न निरावयवं, अहाठिईए उ सुझंति ।।
Jain Education International
For Private & Personal Use Only
For
www.jainelibrary.org