________________
४४२
बृहत्कल्प-छेदसूत्रम् -१-१/६ वृ-लेपकृतं स्निग्धं वा भवेदस्निग्धं वा भवेत् । यदि स्निग्धं ततो गोबरेण-गोमयेन “पुटुं" प्रोञ्छितं सुघृष्टं पात्रकं कृत्वा निरवयवीभूतं सत् प्रत्युपेक्ष्य रात्रौ स्थापयन्ति, न धारयन्तीतिभावः । अथास्निग्धं ततः संलेखनकल्पेन सुसंलीढं कृत्वास्थ्यायते पुनः करीषेणघृष्यते । यदि च द्वितीये दिवसे द्रवं ग्रहीतव्यं ततः 'धावित्वा' त्रि कल्पयित्वा गृह्यते, अथ भक्तं ततोऽधौतेऽपि गृह्यते न कश्चिद् दोषः ।। अत्र परः प्राह[भा.१७३५] जइ ओदनो अधोए, धिप्पइ तो अवयवेहि निसिभत्तं ।
तिनि य न होंति कप्पा, ता धोवसुजाव निग्गंधं । [भा.१७३६] तम्हा गुब्बरपुटुं, संलीढं चेव धोविउं हिंडे।
इहरा मे निसिभत्तं, ओअविअंचेव गुरुमादी ।। वृ-यद्यधौते पात्रे द्वितीयेऽहनि ओदनो गृह्यते ततो ननु तत्र सूक्ष्मा अवयवाः सन्ति येषां गन्धस्तृतीयेऽप्यहनि लक्ष्यते, तैश्चावयवैस्तथास्थितैः सद्भिर्यदपरंभक्तं तत्रगृह्यतेतद्भुञानानां निशिभक्तं भवति । यच्च यष्माभिर्लेपकृतस्य त्रयः कल्पाः शुद्धिकारणतया निर्दिष्टास्तदप्यस्माकं मनसिन रुचिपथियर्ति, कल्पत्रयेदत्तेऽपितदीयगन्धस्याघ्रायमाणत्वात् । ततोऽहमित्थंप्ररूपयामि"ताधोवसुजाव निग्गंध"ति तावद्धाव' तावत्प्रक्षालययावनिर्गन्धीभवति; नच बहुभिरपि कल्पौर्निर्गन्धभवति तस्माद् यद् लेपकृतं स्निग्धं तद् गोबरेण-छगणेन प्रोञ्छितं कृत्वा अस्निग्धंतु सुसंलीढं कृत्वा द्वितीये दिवसे 'धावित्वा' कल्पयित्वा भिक्षां हिण्डेत; इतरथा' कल्पकरणमन्तरेण "भे" भवतां निसिभक्तमापद्यते, अकृतकल्पेच भाजने गृहीतमपरमपि भक्तम् “ओअवियं" उच्छिष्टं भवति, तच्च 'गुर्वादीनाम्' आचार्यापाध्यायप्रभृतीनां दीयमानं महतीमाशातनामुपजनयति इत्थं परेणोक्ते सति सति सूरिराह- .. [भा.१७३७] भन्नइ न अन्नगंधा, हणंति छठें जहेव उग्गारा ।
तिन्नि य कप्पा नियमा, जइ वि य गंधो जहा लोए । कृभण्यतेऽत्रप्रतिवचनम्-अन्नस्य-भक्तस्यगन्धाः षष्ठं रात्रिविरमणव्रतंनघ्नन्ति, यथैवोद्वारा रात्रौ समागच्छन्तोऽपि न षष्ठव्रतमुपघ्नन्ति । तथा पात्रके यद्यपि गन्धः समागच्छति तथापि नियमात् त्रय एव कलपा दातव्या नाधिका न वा हीनाः, तथा भगवद्भिक्तत्वात् । यथा लोकेऽपि प्रतिनियता भाजनशोधनाय मृत्तिकालेपा भवन्ति ॥तथाहि[भा.१७३८] वारिखलाणं बारस, मट्टियाछच्च वाणपत्थाणं।
मा एत्तिए भणाही, पडिमा भणिया पवयणम्मि।। वृ-वारिखलाः-परिव्राजकास्तेषां द्वादश मृत्तिकालेषा भाजनशोधनका भवन्ति । षट् च मृत्तिकालेषाः 'वानप्रस्थानां' तापसानां शौचसाधकाः सञ्जायन्ते । एवं लोकेऽपि स्वस्वसमयप्रतिपादितानि प्रतिनियतान्येव शौचानि दृष्टानि, अतो हे नोदक! एतावतः कल्पान् ‘मा भण' माहि, तावद्धौतव्यंयावनिर्गन्धीभवतीत्यप्रतिनियतानित्यर्थः।तथा 'प्रतिमा' इति मोकप्रतिमा साऽपिप्रवचने भणिता, तस्यां हि मोकमपि पीत्वा साधुः शुचिरेव भवति । एतदेव भावयति[भा.१७३८] पिह सोयाइ लोए, अम्हं पि अलेवगं अगंधं च ।
मा एत्तिए भणाही, पडिमा भणिया पवयणम्मि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org