________________
उद्देशकः १, मूलं-६, [भा. १७३१]
४४१ [भा.१७३१] बिइयपय मोय गुरुगा, ठाण निसीयण तुयट्ट धरणं वा ।
गोब्बरपुंछण ठवणा, धोवण छठे य दव्वाई। वृ-'द्वितीयपदे' अपवादाख्ये साधवोजिकांगता भवेयुः, तत्र चपानकं न लब्धमिति कृत्वा यदि पात्रं 'मोकेन' प्रश्रवणेनाऽऽचमन्तिततश्चत्वारो गुरवः । शिष्यःप्राह-यदि मोकेनाऽऽचमने दोषास्ततो रात्रौ स्थानं निषदनं त्वग्वर्तनं वा कुर्वन् संसृष्टपात्रकस्य धारणं करोतु । सूरिराहएवंकुर्वतः संयमा-ऽऽत्मविराधना भवति, ततो गोबरेण-गोमयेन पात्रकस्यप्रोञ्छनं-घर्षणं कृत्वा स्थापनं कर्त्तव्यम् । ततो द्वितीयदिवसे यदि द्रवं ग्रहीतव्यं तदा 'धावनं' कल्पत्रयप्रदानं कर्त्तव्यम् । अथ भक्तं ग्रहीतव्यं ततो न कल्पत्रयं तादव्यम् । “छढे य दव्वाइं" ति शिष्यः प्राहयद्यधौते पात्रे भक्तंगृह्यतेततो ननुतत्रयान्यवयवद्रव्याणि पर्युषितानि सन्ति तैः षष्ठव्रतमतिचरितं स्यादिति नियुक्तिगाथासक्षेपार्थः।। विस्तरार्थं तु बिभणिषुरह[भा.१७३२] वइगा अद्धाणे वा, दव असईए विलंबि सूरे वा।
जइ मोएणं धोवइ, सेहऽन्नह भिक्ख गंधाई। वृ-वजिका-गोकुलं तस्यां कारणे गतानामध्वनि वा वहमानानां 'द्रवस्य' पानकस्य 'असति' अप्राप्तौ 'विलम्बिनि वा' अस्तङ्गतप्राये सूर्ये यदि पानकं नास्ति ततः कथं कल्पः करणीयः ? । अत्र नोदकः स्वच्छन्दमत्या प्रतिवचनमाह-मोकेन तदानीं पात्रमाचमनीयम् । आचार्य प्राह-एवं तेस्वच्छन्दप्ररूपणांकुर्वतोयथाच्छन्दत्वात्चत्वारो गुरवःप्रायश्चित्तम्।यश्चमोकेन पात्रकमाचामति तस्यापि चतुर्गुरवः । कुतः? इत्याह-यदि मोकेन धावतितदा शैक्षाणाम्अन्यथाभावः-विपरिणमनं भवेत्, विपरिणताश्च प्रतिगमनादीनि कुर्युः । द्वितीये च दिवसे भिक्षार्थं पात्रकेप्रसारिते सति कायिक्याः कुथितो गन्धः समायाति ततो लोकः प्रवचनावर्णवादं कुर्यात्-अहो ! अमीभिरस्थिकापालिका अपि निर्जिता यदेवं पात्रकं परश्रवणेनाचमन्तीति । आदिग्रहणेन श्रावकाणां विपरिणामो भवतीत्यादिपरिग्रहः ॥अथ भूयः परः प्राह[भा.१७३३] भणइ जइ एस दोसो, तो ठाण निसियण तुअट्ट धरणं वा ।
भन्नइ तं तु न जुज्जइ, दु दोस पादे अहानी य॥ वृ-भणति परः-यदि 'एषः' शैक्षविपरिणामादिकोदोष उपजायतेततोमा मोकेनाऽऽचामतु परंगृहीतेनैव पात्रकेण सकलामपि रात्रिं "ठाण"तिऊध्धर्वस्थितस्तिष्ठतु, तथा यदि न शक्नोति स्थातुं ततः “निसियण"त्ति निषन्नः पात्रकं धारयतु, तथापि यदि न शक्नोति ततस्त्वग्वर्त्तनं कुर्वाणः-तिर्यगनिपन्नः सन् धारयतु । सूरिराह-भण्यते अत्रोत्तरम्-हे नोदक ! तत् तु न युज्यते यद्भवता प्रोक्तम् । कुतः? इत्याह-"दु दोस"त्ति द्वौ दोषावत्र भवतः, तद्यथा-आत्मविराधना संयमविराधना च । तत्रोर्द्धवस्थितस्योपविष्टस्य वा निद्रया प्रेरितस्य भूमौ निपततः शिरो-हस्तपादाधुपघाते आत्मविराधना; पतितः सन्षन्नां कायानामन्यतमं विराधयेदिति संयमविराधना। “पादे अ हानि" त्ति तद् वा पात्रं पतितं सद् भज्येत ततो या पात्रकेण विना परिहाणिस्तन्निष्पन्नं प्रायश्चित्तम् ।। यत एते दोषा अतोऽयं विधि[भा.१७३४] निद्धमनिद्धं निद्धं, गोब्बरपुटुं ठविंति पेहित्ता।
जइ य दवं घेत्तव्यं, बिइयदिणे धोइउं गिण्हे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org