________________
उद्देशक : १, मूलं -६, [भा. १७५८ ]
ततश्च यदा सप्ताम्लिन्यः सप्त च भरणानि गृह्यन्ते तदा एकनोपञ्चाशद् 'भेदाः' भङ्गका भवन्ति । अथान्यानप्युद्गमदोषान् प्रक्षिप्य बहुतराः सौवीरिण्यो बहुतराणि च भरणानि विवक्ष्यन्ते ततः 'शताग्रशः' शतसङ्ख्यापरिच्छिन्ना अपि भेदा मन्तव्याः ॥ अथाधाकर्मिकभरणं भावयतिमूलभरणं तु बीया, तहि छम्मासा न कप्पए जाव । तिन्नि दिणा कड्डियए, चाउलउदए तहाऽऽयामे ||
'मूलमरणं नाम' प्राशुकायामम्लिन्यां राजिकादीनि बीजानि संयतार्थं यत् प्रक्षिप्यन्ते तच्चाधाकर्म्मिकम् । अतस्तत्र यदन्यत् प्राशुकमपि क्षिप्यते तत् षन्नासान् यावन्न कल्पते परतस्तु कल्पते । अथ तस्या रसिन्याः सकाशात् तदाधाकर्मिकमाकर्षितं ततस्तस्मिन्नाकर्षिते 'चाउलोदगं' तन्दुलधावनं तथा ‘आयामम्' अवावणं यत् तत्र क्षिप्यते तत् त्रीन् दिनान् न कल्पते पूतिकर्मत्वात्, तत ऊर्ध्वं कल्पते ।। अथ स्वगृहमिश्रादिभरणान्यतिदिशन्नाह
एमेव सघर-पाखंडमीस जाव कीय-पूइ-अत्तकडे । कय कीयकडे ठविए, तहेव वत्थाइणं गहणं ॥
'एवमेव' आधाकर्मिकभरणवत् स्वगृहमिश्रं पाषण्डमिश्रं यावदर्थिकमिश्रं क्रीतकृतं पूतिकर्म आत्मार्थकृतं च भरणं मन्तव्यम् । वस्त्रादिविषयमप्यतिदेशमाह - “कय" इत्यादि पश्चार्द्धम् । 'कृते' संयतार्थं निष्पादिते 'क्रीतकृते' मूल्येन गृहीते 'स्थापिते' साध्वर्थं निक्षिप्ते 'तथैव' पानकवद् वस्त्रादीनां ग्रहणं भावनीयम् । एतच्च पश्चार्द्धमुत्तरत्र भावयिष्यते ॥
अथानन्तरोक्तभङ्गकेषु प्रायश्चित्तमाह
[भा. १७५९] जेन असुद्धा रसिणी, भरणं वुभवं व तत्थ जाऽऽरुवणा । सुद्धभय लहूसित्ते, कम्ममजीवे वि मुनिभरणे ॥
४४७
वृ- पूर्वोक्तभङ्गकेषु यत्र 'येन' आधाकर्मादिना दोषेणाशुद्धा रसिनी भरणं वा 'उभयं वा' सौवीरिणी-भरणयुगं यत्र येन दोषेण दूषितं तत्र तद्दोषनिष्पन्ना या काचित् प्रत्येकं संयोगतो वा आरोपणा सा वक्ष्यमाणनीत्या वक्तव्या । तथा यत्र रसिनी भरणं चोभयमपि शुद्धं परं संयतार्थं पानकमुत्सिक्तं तत्र लघुमासः । “कम्ममजीवे वि मुणिभरणे "त्ति यदजीवमपि प्राशुकमपि मुनीनां तोर्भरणं क्रियते तदप्याधाकर्म मन्तव्यं परं विशोधिकोटिः
अथाधाकर्मादिभेदेष्वारोपणामाह
[भा. १७६०] तिन्नेव य चउगुरुगा, दो लहुगा गुरुग अंतिमो सुद्धो । एमेव य भरणे वी, एक्क्कीए उ रसिणीए ॥
वृ-आधाकर्मणि स्वगृहमिश्रे पाषण्डमि च प्रत्येकं चतुर्गुरुकमिति त्रयश्चतुर्गुरवो भवन्ति । 'द्वयोः' यावदर्थिक क्रीतकृतयोश्चतुर्लघवः । भक्तपानपूतिके गुरुमासः । उपकरणपूतिके लघुमास इत्यनुक्तमपि दृश्यम् । 'अन्तिमः' आत्मार्थकृतलक्षणो भेदः शुद्धः । एवमेकैकस्यां रसिन्यामुक्तम् । भरणेऽप्येकैकस्मिन्नेवमेव मन्तव्यम् ॥ अथासामेवाम्लिनीनां मध्ये का विशोधिकोटिः ? का वा अविशोधिकोटिः ? इत्यादिचिन्ताचिकीर्षुराह
[भा. १७६१] संजयकडे य देसे, अप्फासुग फासुगे य भरिए अ । अत्तकडे वि य ठविएष लहुगो आणाइणो चेव ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org