Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 458
________________ उद्देशक : १, मूलं-६, [भा. १७८७ ] ततो भगवतां भक्ति कृता न भवति, तस्यां चाभक्त्यां चत्वारो गुरुकाः ॥ अथ क्षुल्लकद्वारं निर्द्धर्मकार्यद्वारं च व्याख्यानयति[भा. १७८८] घट्ठाइ इयरखुड्डे, दडुं ओगुंडिया तहिं गच्छे । उक्कुट्ठघर-धणाईववहारा चेव लिंगीणं ॥ [भा. १७८९] छिंदंतस्स अनुमई, अमिलंत अछिंदओ य उक्खिवणा । छिद्दाणि य पेहंती, नेव य कज्जेसु साहिज्जं ॥ ४५५ वृ- इतरे-पार्श्वस्थास्तेषां ये क्षुल्लका घृष्टाः, आदिग्रहणात् “मट्ठा तुप्पोट्ठा पंडुरपडपाउरणा” इत्यादि, तानित्थम्भूतान् दृष्ट्वा संविग्नक्षुल्लकाः 'अवगुण्डिताः' मलदिग्धदेहाः परिभग्नाः सन्तः 'तत्र' तेषां लिङ्गिनामन्तिके गच्छेयुः । तेषां च तत्र मिलितानां परस्परमुत्कृष्टगृहधनादिविषयाः ‘व्यवहाराः’ विवादा उपढौकन्ते, ते च व्यवहारच्छेदनाय तत्र संविग्नानाकारयन्ति, ततो यदि तेषां व्यवहारश्छिद्यते तदा भवति परिस्फुटस्तेषां गृह-धनादिकं ददतः साधोरनुमतिदोषः । उपलक्षणमिदम्, तेन येषां तद् गृह-धनादिकं न दीयते तेषामप्रीतिक-प्रद्वेषगमनादयो दोषाः । अथ लिङ्गिनामेतद्दोषभयात् प्रथमत एव न मिलन्ति न वा व्यवहारपरिच्छेदं कुर्वन्ति ततः 'उत्क्षेपणा' उद्घाटनासाधूनां भवति, सङ्घाद् बाह्यीकरणमित्यर्थः । 'छिद्राणि च ' दूषणानि ते कषायिताः सन्तः साधूनां प्रेक्षन्ते । नैव च ते 'कार्येषु' राजद्विष्ट ग्लानत्वादिषु 'साहाय्यं' तन्निणक्षममुपष्भं कुर्वते । यत एते दोषा अतो निष्कारणे न प्रवेष्टव्यमनुयानमिति स्थितम् । कारणेषु तु समुत्पन्नेषु प्रवेष्टव्यम् । यदि न प्रविशति तदा चत्वारो लघवः ।। कानि पुनस्तानि ? इत्युच्यते [भा. १७९० ] इयपूया रायानिमंतणं सन्निवाइ खमग कही । संकिय पत्त पभावण, पवित्ति कज्जाइँ उड्डाहो ।। वृ- अनुयानं गच्छता चैत्यपूजा स्थिरीकृता भवति । राजा वा कश्चिदनुयानमहोत्सवकारकः सम्प्रतिनरेन्द्रादिवत् तस्य निमन्त्रणं भवति । 'संज्ञी' श्रावकः स जिनप्रतिमायाः प्रतिष्ठापनां चिकीर्षति । तथा वादी क्षपको धर्मकथी च तत्र भावनार्थं गच्छति । शङ्कितयोश्च सूत्रार्थयोस्तत्र निर्णयं करोति । पात्रं वा तत्राव्यवच्छित्तिकारकं प्राप्नोति । प्रभावना वा राजप्रव्रजितादिभिस्तत्रगतैर्भवति । प्रवृत्तिश्चाचार्यादीनां कुशलवार्त्तारूपा तत्र प्राप्यते । कार्याणि च कुलादिविषयाणि साधयिष्यन्ते । उड्डाहश्च तत्रगतैर्निवारयिष्यत इति । एतैः कारणैर्गन्तव्यमिति द्वारगाथासमासार्थः ॥ अथ विस्तरार्थं बिभणिषुश्चैत्यपूजा-राजनिमन्त्रणद्वारे विवृणोतिभा. (१७९१] सद्धावुड्डी रन्नो, पूयाए थिरत्तणं पभावणया । पडिघातो य अणत्थे, अत्था य कया हवइ तित्थे ॥ - कोऽपि राजा रथयात्रा महोत्सवं कारयितुमनास्तन्निमन्त्रणे गच्छद्भिस्तस्य राज्ञः श्रद्धावृद्धि कृता भवति । चैत्यपूजायां स्थिरत्वं प्रभावना च तीर्थस्य सम्पादिता भवति । यच्च जैनप्रवचनप्रत्यनीकाः शासनावर्णवाद-महिमोपघातादिकमनर्थं कुर्वन्ति तस्य प्रतिघातः कृतो भवति । तीर्थे च 'आस्था' स्वपक्ष-परपक्षयोरादरबुद्धिरुत्पादिता भवतीति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532