Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४४०
बृहत्कल्प-छेदसूत्रम् -१-१/६ सौवीरिण्याउद तं-पृथक् स्थापितं तेन कल्पकरणं कर्त्तव्यम् । 'तस्य वा' पूर्वोद तस्य 'असति' अभावे उत्सेचनमुसिक्तं तदपि कारापणीयम् । एषा पुरातनगाथा ।।
अथैनामेव भाष्यकृ विवृणोति[भा.१७२७] भावितकुलेसुधोवितु भायणे आनयंति सेसट्ठा ।
तविहकुलाण असई, अपरीभोगादिसुजयंति ॥ वृ-भावितकुलानि नाम-येषु पूर्वोक्ताः शङ्कादयो दोषा न स्युस्तेषु गत्वा गृहस्थभाजने मण्डल्युपजीविक्षपकभाजने गुरुभाजनेवा द्रवंगृहीत्वा स्वकीयभाजनानि धौत्वाशेषाणांभाजनानां धावनार्थं संज्ञाभूमिगतानामाचमनार्थंचापरमपि पानकमानयन्ति। तद्विधानां भावितकुलानाम् 'असति' अभावे अपरिभोग्यादिषु यतन्ते, अपरिभोग्यानि नाम अव्यापार्यमाणभाजनानि तेषु, आदिग्रहणामण्डल्यनुपजीविनःक्षपकस्य भाजनेषुनन्दीभाजनेवा, द्रवं गृहीत्वा संसृष्टभाजनानां कल्पं कुर्वन्ति । तच्च पानकंपूर्वोत्सिक्तमेव गृह्णन्ति॥ननुयदि सौवीरिणीमुदृत्य दीयमानं गृह्णन्ति ततः को दोषः स्यात् ? उच्यते[भा.१७२८] ओअत्तंतम्मि वहो, पानानं तेण पुव्वउस्सित्तं ।
असती वुस्सिंचणिए, जंपेक्खइ वा असंसत्तं ।। वृ- “ओयत्तंतम्मि"त्ति प्राकृतत्वात् पुंस्त्वनिर्देशः, सौवीरिण्याम् ‘उद्वय॑मानायाम्' उत्पट्यमानायां ये तत्र सौवीरगन्धेन कंसारिकादयः प्राणजातीया आयाताः सन्ति तेषां बाधा भवति, तेनाकारणेनपूर्वोत्सिक्तंग्रहीतव्यम्।अथनास्ति पूर्वोत्सिक्तंततस्तस्यासतिउसिञ्चनिकया उत्सिञ्चाप्य यतनया गृह्णन्ति । अथ नास्त्युत्सिञ्चनिका ततो यत् पार्श्व प्राणिभिरसंसक्तं प्रेक्षन्ते तेनोद्वर्त्य गृहिभाजनं प्रातिहारिकं याचित्वा तत्र द्रवं गृहीत्वा भाजनानि कल्पयन्ति ।। आह च[भा.१७२९] गिहिसंति भाण पेहिय, कयकप्पा सेसगंदवं घेत्तुं ।
धोअण-पियणस्सट्ठा, अह थोवं गिण्हए अन्नं ।। वृ- गृहिसत्कं भाजनं प्रत्युपेक्ष्य यदि निर्जीवं भवति तदा तत्र द्रवं गृहीत्वा ‘कृतकल्पाः' स्वकीयभाजनानि कल्पयित्वा शेषं द्रवमन्येषां भाजनानां धावनार्थं भुक्तोत्तरकालं च पानार्थम् उपलक्षणत्वात् संज्ञाभूमिगमनार्थं च गृहीत्वा समायान्ति । अथ तत्र स्तोकमेव द्रवं लब्धं ततो यावता पर्याप्तं भवति तावदन्यदपरेषु गृहेषु गृह्णन्ति ।। अथ “एगो खमए बिइयपय वुड्डमाइन्ने" त्ति पदं व्याख्यानयति[भा.१७३०] जा भुंजिता वेला, फिट्टइ तो खमग थेरओ वाऽऽणे।
तरुणो वन नायसीलो, नीयल्लग-भावियादीसु॥ वृ-“जा भुंजइ"त्तिप्राकृतत्वादेकवचनेन निर्देशः, यावद्वा साधवो भुञ्जते तावत् पानकस्य वेला “फिट्टति" व्यतिक्रामति ततः 'क्षपकः" उफवासिकाः ‘स्थविरो वा' वृद्धोऽशङ्क्रनीय इति कृत्वा कल्पकरणार्थमेकाक्यपि “आने" त्ति पानकमानयेत् । तरुणो वा यः 'ज्ञातशीलः' दृढधर्मा निर्विकारश्च स एकाक्यपि निजकानां-मातृ-पितृपक्षीयस्वजनानां कुलेषु भावितकुलेषु वा आदिशब्दादन्येष्वपि तथाविधकुलेषु प्रविश्य पानकं गृह्णीयात् ।। अथात्रैव कल्पकरणद्वारे विध्यन्तरं बिभणिषुरगाथामाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532