Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 442
________________ ४३९ उद्देशक : १, मूलं-६, [भा. १७२२] धाव्यन्ते संज्ञाभूमीपानकं च भवति तावन्मात्रं गृहीत्वा समायातु।। आचार्य प्राह-एवंकुर्वता आत्मा च परश्चप्रवचनं च परित्यक्तानि भवन्ति । तत्रात्मा कथं त्यक्तो भवति? इत्युच्यते[भा.१७२३] संदसणेन बहुसो, संलाव-ऽनुराग-केलि आउभया। देंती नुकंजियं गुं, जइस्स इट्टो त्तिय भणंति ।। वृ-तस्यैकाकिनो भूयो भूयस्तद्गृहं प्रविशतो याऽसौ काञ्जिकदात्री अविरतिका तस्याः सम्बन्धिना बहुशः सन्दर्शनेन संलापा-ऽनुराग-केलिप्रभृतय आत्मोभयसमुत्था दोषा भवेयुः । संलापः-सङ्कथा, अनुरागः-सन्दर्शनेन संलापा-ऽनुराग-केलिप्रभृतयआत्मोभयसमुत्था दोषा भवेयुः। संलापः-सङ्कथा, अनुरागः-परस्परमात्यन्तिकी प्रीति, केलि-परिहासः । तथा यद्येष प्रव्रजितकः पुनः पुनरेति याति च तत् किमस्य ‘ददती' पानकदायिका इष्टा ? उत काश्चिकम् ? इत्येवमगारिणस्तमुद्दिश्य भणन्ति । नुशब्द उभयत्रापि वितर्के।। प्रवचनं यथा परित्यक्तं भवति तथा दर्शयति[भा.१७२४] आयपरोभयदोसा, चउत्थ-तेणट्ठसंकणाणीए। दोच्चं णु चारिओ गुं, करेइआयट्ठ गहणाई॥ वृ-'आत्मपरोभयदोषाः' आत्मनः-स्वस्मात्रस्याः-काञ्चिकदायिकायास्तदुभयस्माच्च एते दोषा भवेयुः। तद्यथा-चतुर्थे-चतुर्थाश्रवद्वारविषयास्तैनार्थविषयाचशङ्का तस्या स्कैनिजकैः क्रियते। यथा-'नुः' इति वितर्के, किमेष प्रव्रजितकः,कस्याप्युभामकस्य मैथुनदौत्यं करोतियदेवमायाति याति च? यद्वा चारिको भूत्वा चौराणां हेरिकतां कर्तुमित्थमायाति? यद्वा आत्मार्थमेवायमित्थं करोति ? स्वयमेव मैथुनार्थी हर्तुकामो वेत्यर्थः । इत्थं शङ्क्रमानास्ते तस्य साधोर्ग्रहणाऽऽकर्षणादीनि कुर्यु।ततःप्रवचनं परित्यक्तं भवति ।।परः कथं परित्यक्तो भवति? इत्युच्यते[भा.१७२५] गिण्हंति सिज्झियाओ, चिदं जाउग सवत्तिणीओ अ। सुत्तत्थेपरिहाणी, निग्गमणे सोहिवुड्डी य ।। वृ- गृह्णन्ति 'छिद्रं' दूषणं काञ्जिकदायिकायाः, काः ? इत्याह-'सिज्झिकाः' सहवासिन्यः, प्रातिवेश्मिकस्त्रिय इत्यर्थः, “जाउग"त्ति ‘यातरः' ज्येष्ठ-देवरजायाः ‘सपत्यः' प्रतीताः, यथायदेष संयतो भूयो भूयः समायाति तद् नूनमस्या अयमुद्रामक इति । ततो यदा तया सहासङ्खडमुपजायते तदा तत् प्राग्विकल्पितं दूषणं साक्षात् तत्पतेः पुरत उद्गिरन्ति । तथा सूत्रार्थविषया परिहाणि पुनः पुनर्गच्छतो भवि । “निग्गमणे सोहिवुड्डी य"त्ति त्रीन् चतुरो वा वारान् निर्गमने शोधिवृद्धिश्च तथैव द्रष्टव्या यथा भिक्षाद्वारे प्रागुक्तम् । यत एते दोषा अतो नैकाकिना भूयो भूयो गन्तव्यम् ।। कथं पुनस्तर्हि गन्तव्यम् ? इत्याह[भा.१७२६] संघाडएण एगो, खमए बिइयपय वुड्डमाइन्ने। पुव्बुद्धि (द्दि)एन करणं, तस्स व असई य उस्सित्ते ।। वृ-सङ्घाटकेन भावितकुलेषु प्रविश्य पानकं ग्रहीतव्यम् । द्वितीयपदे एकोऽपि यःक्षपको वृद्धो वा अशङ्कनीयः स आकीर्णेषु भावितकुलेषु पानकं गृह्णाति । तच्च पानकं यत् पूर्वमेव Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532