________________
४३९
उद्देशक : १, मूलं-६, [भा. १७२२] धाव्यन्ते संज्ञाभूमीपानकं च भवति तावन्मात्रं गृहीत्वा समायातु।।
आचार्य प्राह-एवंकुर्वता आत्मा च परश्चप्रवचनं च परित्यक्तानि भवन्ति । तत्रात्मा कथं त्यक्तो भवति? इत्युच्यते[भा.१७२३] संदसणेन बहुसो, संलाव-ऽनुराग-केलि आउभया।
देंती नुकंजियं गुं, जइस्स इट्टो त्तिय भणंति ।। वृ-तस्यैकाकिनो भूयो भूयस्तद्गृहं प्रविशतो याऽसौ काञ्जिकदात्री अविरतिका तस्याः सम्बन्धिना बहुशः सन्दर्शनेन संलापा-ऽनुराग-केलिप्रभृतय आत्मोभयसमुत्था दोषा भवेयुः । संलापः-सङ्कथा, अनुरागः-सन्दर्शनेन संलापा-ऽनुराग-केलिप्रभृतयआत्मोभयसमुत्था दोषा भवेयुः। संलापः-सङ्कथा, अनुरागः-परस्परमात्यन्तिकी प्रीति, केलि-परिहासः । तथा यद्येष प्रव्रजितकः पुनः पुनरेति याति च तत् किमस्य ‘ददती' पानकदायिका इष्टा ? उत काश्चिकम् ? इत्येवमगारिणस्तमुद्दिश्य भणन्ति । नुशब्द उभयत्रापि वितर्के।। प्रवचनं यथा परित्यक्तं भवति तथा दर्शयति[भा.१७२४] आयपरोभयदोसा, चउत्थ-तेणट्ठसंकणाणीए।
दोच्चं णु चारिओ गुं, करेइआयट्ठ गहणाई॥ वृ-'आत्मपरोभयदोषाः' आत्मनः-स्वस्मात्रस्याः-काञ्चिकदायिकायास्तदुभयस्माच्च एते दोषा भवेयुः। तद्यथा-चतुर्थे-चतुर्थाश्रवद्वारविषयास्तैनार्थविषयाचशङ्का तस्या स्कैनिजकैः क्रियते। यथा-'नुः' इति वितर्के, किमेष प्रव्रजितकः,कस्याप्युभामकस्य मैथुनदौत्यं करोतियदेवमायाति याति च? यद्वा चारिको भूत्वा चौराणां हेरिकतां कर्तुमित्थमायाति? यद्वा आत्मार्थमेवायमित्थं करोति ? स्वयमेव मैथुनार्थी हर्तुकामो वेत्यर्थः । इत्थं शङ्क्रमानास्ते तस्य साधोर्ग्रहणाऽऽकर्षणादीनि कुर्यु।ततःप्रवचनं परित्यक्तं भवति ।।परः कथं परित्यक्तो भवति? इत्युच्यते[भा.१७२५] गिण्हंति सिज्झियाओ, चिदं जाउग सवत्तिणीओ अ।
सुत्तत्थेपरिहाणी, निग्गमणे सोहिवुड्डी य ।। वृ- गृह्णन्ति 'छिद्रं' दूषणं काञ्जिकदायिकायाः, काः ? इत्याह-'सिज्झिकाः' सहवासिन्यः, प्रातिवेश्मिकस्त्रिय इत्यर्थः, “जाउग"त्ति ‘यातरः' ज्येष्ठ-देवरजायाः ‘सपत्यः' प्रतीताः, यथायदेष संयतो भूयो भूयः समायाति तद् नूनमस्या अयमुद्रामक इति । ततो यदा तया सहासङ्खडमुपजायते तदा तत् प्राग्विकल्पितं दूषणं साक्षात् तत्पतेः पुरत उद्गिरन्ति । तथा सूत्रार्थविषया परिहाणि पुनः पुनर्गच्छतो भवि । “निग्गमणे सोहिवुड्डी य"त्ति त्रीन् चतुरो वा वारान् निर्गमने शोधिवृद्धिश्च तथैव द्रष्टव्या यथा भिक्षाद्वारे प्रागुक्तम् । यत एते दोषा अतो नैकाकिना भूयो भूयो गन्तव्यम् ।। कथं पुनस्तर्हि गन्तव्यम् ? इत्याह[भा.१७२६] संघाडएण एगो, खमए बिइयपय वुड्डमाइन्ने।
पुव्बुद्धि (द्दि)एन करणं, तस्स व असई य उस्सित्ते ।। वृ-सङ्घाटकेन भावितकुलेषु प्रविश्य पानकं ग्रहीतव्यम् । द्वितीयपदे एकोऽपि यःक्षपको वृद्धो वा अशङ्कनीयः स आकीर्णेषु भावितकुलेषु पानकं गृह्णाति । तच्च पानकं यत् पूर्वमेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org