SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ४३८ बृहत्कल्प-छेदसूत्रम् -१-११६ 'अगन्धं' नञः कुत्सार्थत्वादतीवदुर्गन्धि भाजनं भवति । ताशे च भाजने गृहीतस्य द्रव्यस्य ओदनादेर्विनाशो भवति। तस्मिन् भुञानस्य च विरसगन्धाध्राणत ऊद्धर्वादीनि भवन्ति। ऊर्द्धवमनम्, आदिशब्दादरोचक-मान्द्यादिपरिग्रहः । 'अवर्णश्च' प्रवचनस्योड्डाहो भवति । तथाहिलोको भिक्षां ददानो दुर्गन्धि भाजनं दृष्टवा गर्हते-ईशा एवैते अशुचयः पापोपहता इति । "संसज्जणाऽऽहारे "त्तिदुर्गन्धिनाऽऽहारेपनक-कुन्थुप्रभृतयःप्राणिनः संसजेयुः। यत एवमतः[भा.१७१९] लेवकडे कायव्वं, परवयणे तिन्नि वार गंतव्वं । एवं अप्पा य परो, य पवयणं होति चत्ताइं॥ वृ-लेपकृतभाजे कर्तव्य कल्पकरणम् । अत्र परः-प्रेरकस्तस्य वचने त्रीन् वारान् कल्पप्रायोग्यपानकग्रहणार्थं गृहपतिगृहे गन्तव्यमिति । सूरिराह-एवं क्रियमाणे आत्मा च परश्च प्रवचनं च भवन्ति परित्यक्तानीति नियुक्तिगाथासमासार्थ ।। अथैनामेव विवरीषुराह[भा.१७२०] गोउल विरूवसंखडि, अलंभे साधारणंच सव्वेसि । गहियं संती य तहिं, तक्कुच्छुरसादि लग्गट्ठा ॥ वृ-गच्छे साधवः सुबहवो भवेयुः, तैश्च भिक्षां हिण्डमानैर्गोकुले दुग्ध-दध्यादीनि प्राचुर्येण लब्धानि, 'विरूपायांवा' अनेकभक्ष्य-भोज्यप्रकारायांसङ्खड्यामुत्कृष्टमशनादिद्रव्यं लभ्येत, तैश्च साधुभिः 'अलाभे' अन्यत्र तथाविधस्य दुर्लभद्रव्यस्यासम्प्राप्तौ सर्वेषां साधारणमुपष्टम्भकारकमिदमितिमत्वासर्वाण्यपि भक्तभाजनानिभृत्वापानकप्रतिग्रहेष्वपि गृहीतम्।ततःप्रतिश्रयमागता यावत् पानकेन विना न शक्यते समुद्देष्टुम्, आहारस्य गलके विलगनात्, ततः किं कर्तव्यम् ? इत्याह-सन्ति च तत्र तक्रेक्षुरसादीनि, आदिशब्दाद् दुग्धादीनि च, तान्यपान्तराले आपिबेत् । किमर्थम्? इत्याह-“लग्ग?"त्तिलगनंलग्नम्, भावेक्तप्रत्ययः,आहारस्य गलके विलगनमुत्तूहणं कथं भाजनानि कल्पयितव्यानि? इत्युच्यते[भा.१७२१] मंडलितक्की खमए, गुरुभाणेणं व आनयंति दवं। अपरीभोगऽतिरित्ते, लहुओऽनाजीविभाणे य ।। वृ-यः क्षपकः “मण्डलितक्की" मण्डल्युपजीवकस्तस्य भाजनेन गुरूणां भाजनेन वा 'द्रवं' पानकमानयन्ति । अथापरिभोग्येषु भाजनेषु भाजनेषु 'अतिरिक्ते वा' नन्दीभाजने मण्डल्यनुपजीविक्षपकभाजने वाद्रवमानयन्ति तदा लघुको मासः॥अथ “परवचनेत्रीन्वारान् गन्तव्यम्" इति पदं व्याख्यानयति[भा.१७२२] भणइ जइ एस दोसो, तो आइमकप्पमाण संलिहिउं । अन्नेसि तदं दाउं, तो गच्छइ बिइय-तइयाणं ।। वृ-'भणति' परःप्रेरयति-यद्येषः ‘दोष-' प्रायश्चित्तापत्तिलक्षणस्ततोऽहं विधिंभणामि-प्रतिग्रहं संलिख्य तत एकाकी गृहपतिगृहे प्रविश्य 'आदिमकल्पमान' यावता सर्वसाधुभिरादिमः कल्पः क्रियते तावन्मात्रं द्रवं गृहीत्वाऽन्येषां साधूनां 'तत्' पानकं दत्त्वा ततः स्वयं प्रथमकल्पं करोतु । कृत्वाचततो गच्छतिद्वितीय-तृतीययोः कल्पयोः । इदमुक्तं भवति-द्वितीयकल्पकरणार्थं द्वितीयं वारं तत्र गृहे प्रविश्य तावन्मात्रं द्रवं गृहीत्वा प्राग्वदन्यसाधूनां दत्त्वा द्वितीयकल्पं करोतु, ततः तृतीयं वारं भूयः प्रविश्यतावन्मात्रं गृहीत्वा तथैव तृतीयं कल्पं कृत्वा यावन्मात्रेण शेषभाजनानि For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy