Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 428
________________ उद्देश : १, मूलं-६, [भा. १६७१ ] निर्गतस्तस्यामेव भूयः ‘आलयम्' उपाश्रयमुपैति तृतीयस्यामित्यर्थः । एवमेव च क्षेत्रसङ्क्रमणेऽपि द्रष्टव्यम्, क्षेत्रात् क्षेत्रान्तरगमनमपि तृतीय्यां करोतीति भावः । स्थविरकल्पिका अपि निष्कारणे तृतीयस्यामेव निर्गत्य भिक्षामटित्वा प्रतिश्रये समुद्दिश्य संज्ञाभूमिं गत्वा तस्यामेव प्रत्यागच्छन्ति । क्षेत्रसङ्क्रमप्येवमेव । कारणतस्तु न कोऽपि प्रतिनियमः ।। तथा चाह[भा. १६७२ ] अतरंत- बाल- बुड्ढे, तवस्सि आएसमाइकज्जेसु । बहुसो वि हो विसणं, कुलाइकज्जेसु य विभासा वृ- अतरन्तः-ग्लानस्तस्य तथा बाल-वृद्धयोः तपस्विनः क्षपकस्य आदेशस्य-प्राधूर्णकस्य आदिशब्दादाचार्योपाध्याय - शैक्षका - ऽलब्धिमप्रभृतीनां यानि कार्याणि तत्प्रायोग्यभक्तपानौषधादिग्रहणरूपाणि तेषु 'बहुशोऽपि' बहूनपि वारान् गृपतिगृहेषु प्रवेशनं गच्छसाधूनां भवति । तथा कुलादिकार्येषु, आदिग्रहणाद् गण- सङ्घपरिग्रहः । कुलं - नागेन्द्र-चन्द्रादि, गणःकुलसमुदायः, गणसमुदायः सङ्घः चतुर्वर्णरूपो वा, तत्कार्येषु च विभाषा कर्त्तव्या । सा चेयम्कुले गणे सङ्के वा आभाव्या - Sनाभाव्यविषयः कोऽपि व्यवहारः समुपस्थितः तस्य यथावत् परिच्छेदनं कर्त्तव्यम्, प्रत्यनीको वा कोऽपि साधूनामुपस्थितः तस्य शिक्षणं विधेयम्, चैत्यद्रव्यं वा कश्चिद् निशङ्कं मुष्णाति स शासितव्यो वर्त्तत इत्यादि ।। तथाउच्चार-विहारादी, संभम-भय-चेइवंदणाईया । आयपरोभयहेतुं विनिग्गमा वन्निया गच्छे ॥ [भा. १६७३] ४२५ वृ- उच्चाचारः-पुरीषं तस्य उपलक्षणत्वात् प्रश्रवण- खेलादेश् व्युत्सर्जनार्थं बहिर्गन्तव्यम् । विहारो नाम-वसतावस्वाध्यायिके समुत्पन्ने सति स्वाध्यायनिमित्तमन्यत्र गमनम्, आदिग्रहणात् पूर्वृहीतपीठफलक-शय्या-संस्तारकप्रत्यर्पणप्रभृतिपरिग्रहः । सम्भ्रमो नाम - उदका -ऽग्निहस्त्याद्यागमनसमुत्थ आकस्मिकः संत्रासः, भयं तु- सामान्येन दुष्टस्तेनाद्युपद्रवप्रभवम्, चैत्यानिजिनबिम्बानि तेषां वन्दनम्, आदिशब्दादपूर्वबहुश्रुताचार्यन्दनादिपरिग्रहः एवमादीनि यान्यात्मनः परेषामुभयस्य वा हेतोः कार्याणि तन्निमित्तं गच्छे बहुशोऽपि प्रतिश्रयाद् विनिर्गमाः 'वर्णिताः' प्रतिपादिता इति ॥ गतं निष्क्रमणद्वारम् । अथ प्राभृतिकाद्वारं विभावयिषुराह [भा. १६७४ ] पाहुडिया वि य दुविहा, बायर सुहुमा य होइ नायव्वा । एक्केक्का वि य एत्ते, पंचविहा होइ नायव्वा ॥ वृ- 'प्राभृतिका' वसतेश्छादन - लेपनादिरूपा, सा द्विविधा बादरा सूक्ष्मा च भवति ज्ञातव्या । एकैकाऽपि चेत उर्द्धं पञ्चविधा भवति ज्ञातव्या ।। तत्र बादरां पञ्चविधामपि तावदाह [ भा. १६७५] विद्धंसण छायम लेवणे य, भूमीकम्मे पडुच्च पाहुडिया । ओसक्कण अहिसक्कण, देसे सव्वे य नायव्वा ॥ वृ- 'विध्वंसनं' सतेर्भञ्जनम् । 'छादनं' दर्भादिभिराच्छादनम् । 'लेपनं' कुड्यानांकर्दमेन गोमयेन च लेपप्रदानम् । 'भूमिकर्म' सम-विषमाया भूमेः परिकर्मणम् । “पडुच्च' त्ति 'प्रतीत्यकरणं’ त्रिशालं गृहं कर्तुकामः साधून प्रतीत्य चतुःशालं करोति, आत्मीयं वा गृहं साधूनां दत्त्वा आत्मार्थमपरं कारयतीत्यादि । एषा पञ्चविधाऽपि बादरप्राभृतिका प्रत्येकं द्विधा अवष्वष्कणतोऽभिष्वष्कणतश्च । अवष्वष्कणं नाम-ववक्षितविध्वंसनादिकालस्य हासकरणम्, अर्वाक्करणमित्यर्थः । "Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532