Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 435
________________ ४३२ बृहत्कल्प-छेदसूत्रम् -१-१/६ 'दशभिश्च दशसङ्ख्याकैः स्थानैः 'स्वपदं पाराञ्चिकं नित्यभक्तिकस्योक्तम्, तथा 'शेषेष्वपि' चतुर्थभक्तिकादिषु 'यत्' तृतीयवारादिकं प्रायश्चित्तस्थानं युज्यते 'तत्र' तदारभ्य 'शोधेः' प्रायश्चित्तस्य विवृद्धिः कर्तव्या । तद्यथा-चतुर्थभक्तिकस्तृतीयं वारं भिक्षामवतरति मासलघु, चतुर्थमासगुरु, पञ्चमंचतुर्लघु, षष्ठं चतुर्गुरु, सप्तमं षड्लघु, अष्टमंषड्गुरु, नवमं छेदः, दशमं मूलम्, एकादशमनवस्थाप्यम्, द्वादशं वारं पर्यटतः पाराञ्चिकम् । एवंषष्ठभक्तिकस्यापि द्वादशं वारमवतरतः पाराञ्चिकम् । यदाह चूर्णिकृत्-छट्ठभत्तियस्स वि बारसहिं पावइ सपयं ति । अष्टमभक्तिकस्य तु चतुर्थवारादारभ्य त्रयोदशं वारं यावत् पर्यटतो लघुमासादिकं पाराञ्चिकान्तमिति। गतं प्रमाणद्वारम् । अथ कालद्वारम्-कस्मिन् काले भिक्षार्थं निर्गन्तव्यम् ? उच्यते-यः क्षपको बालो वृद्धो वा पर्युषितेन प्रथमालिकां कर्तुकामः स सूत्रपौरुषीं कृत्वा निर्गच्छति । अथ तावती वेलांन प्रतिपालयितुं क्षमः ततोऽर्द्धपौरुष्यां निर्गच्छति । यद्यतिप्रभाते पर्यटति तदा मासलघु, भद्रक-प्रान्तकृताश्च दोषा भवन्ति । तत्रसाधुरतिप्रभात एव कस्यापि गृहं गत्वा भिक्षायाचितवान्, सच गृहपतिर्भद्रकः सुप्ताविरतिकामुत्थापयेत् ततस्तस्यामुत्थितायामधिकरणं प्रवर्तितं भवेत् । यस्तु प्रान्तो भवति स ब्रूयात्-किमुन्मत्तो वर्तसे यदेवमतिप्रभाते पर्यटसि ? सुखरात्रिकं वा प्रष्टुं समायासीः? इति । यद्वा कोऽपिनामान्तरंप्रस्थितःप्रथममेवतंसाधुंदृष्टवाअपशकुनंमन्यमानः प्रद्वेषं यायात्, प्रद्विष्टश्चाहननादि कुर्यात् । अथैतद्दोषभयादतिक्रान्तायां वेलायामटति तदाऽपि मासलघु, “अकाले चरसी भिक्खू" इत्यादिगाथोक्ताश्च दोषाः । एवमुष्णस्यापि भक्तस्याप्राप्ते अतिक्रान्ते वा एत एव दोषा मन्तव्याः ॥ गतंकालद्वारम्।अथावश्यकद्वारम्-यद्यावश्यकमविशोध्यनिर्गच्छतितदामासलघुआज्ञादयश्च दोषा विराधनाच प्रवचनादीनाम्।तद्यथा-भिक्षामटतःसंज्ञासमागच्छेत् ततोयधुइग्राहितपात्रकः पानकं वा विना व्युत्सजति तदा प्रवचनविराधना-अहो ! अशुचयोऽमी । अथैतदोषभयान व्युत्सृजति तत आत्मविराधना । अथ प्रतिश्रयमागत्य पानकं गृहीत्वा संज्ञाभूमौ व्रजति ततो देश-काले स्फिटिते सति भिक्षामलभमान एषणां प्रेरयेत्, ततः संयमविराधना । यत एवमत आवश्यकं शोधयित्वा निर्गन्तव्यम् । गतमावश्यकद्वारम् । अथ सङ्घाटकद्वारंभाष्यकृदेव व्याख्यानयति[भा.१७०२] एगानियस्स दोसा, साणे इत्थी तहेव पडिनीए । भिक्खविसोहि महव्वय, तम्हा सबिइज्जए गमणं ।। वृ-यद्येकाकी पर्यटति तदा मासलघु । एते च दोषाः-स एकाकी यदि भिक्षां शोधयति तदा पृष्ठतः श्वानः समागत्य तंदशेत् । अथश्वानमवलोकते तत एषणांन रक्षति।तमेकाकिनं ६ष्टवा काचित्प्रोषितभर्तृका विधवा वास्त्री बहिः प्रचारमलभमाना द्वारं पिधायतंगृह्णीयात् । प्रत्यनीको वातमेकाकिनं दृष्टवा प्रान्तापनादि कुर्यात् । 'भिक्षाविशोधि' इति एकाकी यदि त्रिषु गृहेषु भिक्षां दीयमानां गृह्णाति तत एषणायामशुद्धिर्भवति । अथैकत्रैव गृहे गृह्णाति तत इतरयोर्दायकयोः प्रद्वेषो भवेत् । द्वयोस्तु निर्गतयोरेक एकत्र भिक्षामाददान एवोपयोगं ददाति, द्वितीयस्तु शेषगृहद्वयादानीयमानंभिक्षाद्वयमपि सम्यगुपयुक्रे ।महाव्रतानिवाएकाकी विराधयेत् । तथाहि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532