Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 430
________________ ४२७ - उद्देशकः १, मूलं-६, [भा. १६७९] इति । अथात्रैव प्रायश्चित्तमाह[भा.१६८०] सव्वम्मि उचउलहुया, देसम्मी बायराए लहुओ उ । सव्वम्मि मासियं खलु, देसे भिन्नो य सुहुमाए। वृ-बादरायांप्राभृतिकायामनन्तरोक्तायामेव सर्वतः करिष्यमाणायांकृतायांवा तिष्ठतिचत्वारो लघवः । देशतः करिष्यमाणायांकृतायांवा तिष्ठतोमासलघु। सूक्ष्मायांप्राभृतिकायांवक्ष्यमाणायां सर्वतो विधास्यमानायां विहितायां वा तिष्ठतिमासलघु। देशतस्तस्यामेव भिन्नमासः ।। सापुनः सूक्ष्माप्राभृतिका पञ्चविधा । तामेवाह[भा.१६८१] संमज्जण आवरिसण, उवलेवण सुहुम दीवए चेव । ओसक्कण अहिसक्कण, देसे सव्वे य नायव्वा ।। वृ-'सम्मार्जन' बहुकरिकया प्रमार्जनम्, 'आवर्षणम्' उदकेन च्छटकप्रदानम्, 'उपलेपनं' छगणमृत्तिकया भूमिकाया लेपनम्, “सुहुमे"त्ति 'सूक्ष्माणि' समयभाषया पुष्पाण्युच्यन्ते, तथा च दशवैकालिकनियुक्तौ पुष्पाणामेकार्थिकानि पुप्फा य कुसुमाचेव, फुल्ला य कुसुमा विय। सुमणा चेव सुहुमा य, सुहुमकाइया विय॥ ततश्च पुष्पाणां प्रकरचनेत्यर्थः । 'दीवए चेव" ति दीपकप्रज्वालनम् । एतानि पूर्वमात्मार्थं क्रियमाणान्येव विद्यन्ते । नवरं साधून प्रतीत्य देशतः सर्वतो वा यदवष्वष्कणमभिष्वष्कणं वा क्रियते सा सूक्ष्मप्राभृतिका ज्ञातव्या॥ अथास्या एवावष्वष्कणा-ऽभिष्वष्कणे भावयति[भा.१६८२] जावन मंडलिवेला, ताव पमज्जामो होइ ओसक्का । उद्धेतु ताव पढिउं, उस्सकण एव सव्वत्थ ।। वृ-यावत् 'मण्डलीवेला' स्वाध्यायमण्डलीकालो नोपढौकते तावत् प्रमार्जयाम इत्येवं विचिन्त्यानागतमेव यदि प्रमार्जयन्ति तदाऽवष्वष्कणं भवति । अथ साधवः स्वाध्यायं कुर्वाणास्तदानीं मण्डल्यामुपविष्टाः सन्ति ततश्चिन्तयन्ति-उत्तिष्ठन्तु तावदमी पठित्वा ततःपश्चात् प्रमार्जयिष्यामइति विचिन्त्य तथैवयदि कुर्वतेतदा उत्ष्वष्कणंभवति । एवमवष्वष्कणमभिष्वष्कणं च ‘सर्वत्र' आवर्षणोपलेपनादावपि भावनीयम् ॥ सा पुनः सूक्ष्मप्राभृतिका द्विविधा[भा.१६८३] छिन्नमछिन्ना काले, पुनो य नियया य अनियया चेव । निद्दिवाऽनिद्दिवा, पाहुडिया अट्ठ भंगा उ ।। वृ- 'काले' कालतश्छिन्ना अच्छिन्ना वा, छिन्नकालिका अच्छिन्नकालिका चेत्यर्थः । यस्यामुपलेपनादिकं छिन्ने-प्रतिनियते मासादौ काले क्रियते सा छिन्नकालिका । या तु यदा तदा वा क्रियते सा अच्छिन्नकालिका । पुनरेकैका द्विधा-नियता अनियता चैव । नियता नामयापूर्वाह्लादावेव वेलायामवश्यमेव वा क्रियते । तद्विपरीता अनियता । पुनरेकैका द्विविधानिर्दिष्टा अनिर्दिष्टा च । तत्र यः प्राभृतिकाकारकः सन निर्दिष्टः-इन्द्रदत्तादिनाम्नोपलक्षितः तेन क्रियमाणा प्राभृतिका अपि निर्दिष्टा । तद्विपरीता अनिर्दिष्टा । अत्र च त्रिभि पदैरष्टौ भङ्गा भवन्ति, तद्यथा-छिन्नकालिका नियता निर्दिष्टा १ छिनकालिका नियता अनिर्दिष्टा २ इत्यादि । अथ च्छिन्नकालिकां व्याख्यानयति For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532