________________
उद्देश : १, मूलं-६, [भा. १६७१ ]
निर्गतस्तस्यामेव भूयः ‘आलयम्' उपाश्रयमुपैति तृतीयस्यामित्यर्थः । एवमेव च क्षेत्रसङ्क्रमणेऽपि द्रष्टव्यम्, क्षेत्रात् क्षेत्रान्तरगमनमपि तृतीय्यां करोतीति भावः । स्थविरकल्पिका अपि निष्कारणे तृतीयस्यामेव निर्गत्य भिक्षामटित्वा प्रतिश्रये समुद्दिश्य संज्ञाभूमिं गत्वा तस्यामेव प्रत्यागच्छन्ति । क्षेत्रसङ्क्रमप्येवमेव । कारणतस्तु न कोऽपि प्रतिनियमः ।। तथा चाह[भा. १६७२ ] अतरंत- बाल- बुड्ढे, तवस्सि आएसमाइकज्जेसु । बहुसो वि हो विसणं, कुलाइकज्जेसु य विभासा
वृ- अतरन्तः-ग्लानस्तस्य तथा बाल-वृद्धयोः तपस्विनः क्षपकस्य आदेशस्य-प्राधूर्णकस्य आदिशब्दादाचार्योपाध्याय - शैक्षका - ऽलब्धिमप्रभृतीनां यानि कार्याणि तत्प्रायोग्यभक्तपानौषधादिग्रहणरूपाणि तेषु 'बहुशोऽपि' बहूनपि वारान् गृपतिगृहेषु प्रवेशनं गच्छसाधूनां भवति । तथा कुलादिकार्येषु, आदिग्रहणाद् गण- सङ्घपरिग्रहः । कुलं - नागेन्द्र-चन्द्रादि, गणःकुलसमुदायः, गणसमुदायः सङ्घः चतुर्वर्णरूपो वा, तत्कार्येषु च विभाषा कर्त्तव्या । सा चेयम्कुले गणे सङ्के वा आभाव्या - Sनाभाव्यविषयः कोऽपि व्यवहारः समुपस्थितः तस्य यथावत् परिच्छेदनं कर्त्तव्यम्, प्रत्यनीको वा कोऽपि साधूनामुपस्थितः तस्य शिक्षणं विधेयम्, चैत्यद्रव्यं वा कश्चिद् निशङ्कं मुष्णाति स शासितव्यो वर्त्तत इत्यादि ।। तथाउच्चार-विहारादी, संभम-भय-चेइवंदणाईया । आयपरोभयहेतुं विनिग्गमा वन्निया गच्छे ॥
[भा. १६७३]
४२५
वृ- उच्चाचारः-पुरीषं तस्य उपलक्षणत्वात् प्रश्रवण- खेलादेश् व्युत्सर्जनार्थं बहिर्गन्तव्यम् । विहारो नाम-वसतावस्वाध्यायिके समुत्पन्ने सति स्वाध्यायनिमित्तमन्यत्र गमनम्, आदिग्रहणात् पूर्वृहीतपीठफलक-शय्या-संस्तारकप्रत्यर्पणप्रभृतिपरिग्रहः । सम्भ्रमो नाम - उदका -ऽग्निहस्त्याद्यागमनसमुत्थ आकस्मिकः संत्रासः, भयं तु- सामान्येन दुष्टस्तेनाद्युपद्रवप्रभवम्, चैत्यानिजिनबिम्बानि तेषां वन्दनम्, आदिशब्दादपूर्वबहुश्रुताचार्यन्दनादिपरिग्रहः एवमादीनि यान्यात्मनः परेषामुभयस्य वा हेतोः कार्याणि तन्निमित्तं गच्छे बहुशोऽपि प्रतिश्रयाद् विनिर्गमाः 'वर्णिताः' प्रतिपादिता इति ॥ गतं निष्क्रमणद्वारम् । अथ प्राभृतिकाद्वारं विभावयिषुराह
[भा. १६७४ ] पाहुडिया वि य दुविहा, बायर सुहुमा य होइ नायव्वा । एक्केक्का वि य एत्ते, पंचविहा होइ नायव्वा ॥
वृ- 'प्राभृतिका' वसतेश्छादन - लेपनादिरूपा, सा द्विविधा बादरा सूक्ष्मा च भवति ज्ञातव्या । एकैकाऽपि चेत उर्द्धं पञ्चविधा भवति ज्ञातव्या ।। तत्र बादरां पञ्चविधामपि तावदाह
[ भा. १६७५] विद्धंसण छायम लेवणे य, भूमीकम्मे पडुच्च पाहुडिया । ओसक्कण अहिसक्कण, देसे सव्वे य नायव्वा ॥
वृ- 'विध्वंसनं' सतेर्भञ्जनम् । 'छादनं' दर्भादिभिराच्छादनम् । 'लेपनं' कुड्यानांकर्दमेन गोमयेन च लेपप्रदानम् । 'भूमिकर्म' सम-विषमाया भूमेः परिकर्मणम् । “पडुच्च' त्ति 'प्रतीत्यकरणं’ त्रिशालं गृहं कर्तुकामः साधून प्रतीत्य चतुःशालं करोति, आत्मीयं वा गृहं साधूनां दत्त्वा आत्मार्थमपरं कारयतीत्यादि । एषा पञ्चविधाऽपि बादरप्राभृतिका प्रत्येकं द्विधा अवष्वष्कणतोऽभिष्वष्कणतश्च । अवष्वष्कणं नाम-ववक्षितविध्वंसनादिकालस्य हासकरणम्, अर्वाक्करणमित्यर्थः ।
"Jain Education International
For Private & Personal Use Only
www.jainelibrary.org